तन्त्रिसमवाये चोदनातः समानानामेकतन्त्र्यमतुल्येषु तुभेदः स्याद्विधिप्रक्रमतादर्थ्यात् श्रुतिकालनिर्देशात् ॥१ -१॥
गिणकालविकाराच्च तन्त्रभेदः स्यात् ॥१ -२॥
तन्त्रमध्ये विधानाद्वा मुख्यतन्त्रेण सिद्धिःस्यात्तन्त्रार्थस्याविशिष्टत्वात् ॥१ -३॥
विकाराच्च न भेदः स्यादर्थस्याविकृतत्वात् ॥१ -४॥
एकेषां वाशक्यत्वात् ॥१ -५॥
आहोपुरीषकं स्यात् ॥१ -६॥
एकाग्निवच्च दर्शनम् ॥१ -७॥
जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात् ॥१ -८॥
नानार्थत्वात्सोमे दर्शपूर्णमासप्रक -तीनां वेदिकर्म स्यात् ॥१ -९॥
अकर्म वा कृतदूषा स्यात् ॥१ -१०॥
पात्रेषु च प्रसङ्गः स्याद्धोमार्थत्वात् ॥१ -११॥
न्याय्यानि वा प्रयुक्तत्वादप्रयुक्ते प्रसङ्गः स्यात् ॥१ -१२॥
शामित्रे च पशुपुरोडाशो न स्यादितरस्य प्रयुक्तत्वात् ॥१ -१३॥
श्रपणं वाग्निहोत्रस्य शालामुखीये न स्यात्प्राजहितस्य विद्यनानत्वात् ॥१ -१४॥
हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात् ॥१ -१५॥
असिद्धिर्वान्यदेशत्वात्प्रधानवैगुण्यादवैगुण्ये प्रसङ्गः स्यात् ॥१ -१६॥
अनसाञ्च दर्शनात् ॥१ -१७॥
तद्युक्तत्व च कालभेदात् ॥१ -१८॥
मन्त्राश्च सन्निपातित्वात् ॥१ -१९॥
धारणार्थत्वात्सोमे ऽग्न्यन्वाधानं न विद्यते ॥१ -२०॥
तथा व्रतमपेतत्वात् ॥१ -२१॥
विप्रतिषेधाच्च ॥१ -२२॥
सत्यवदिति चेत् ॥१ -२३॥
न संयोगपृथक्त्वात् ॥१ -२४॥
ग्रहार्थं च पूर्वमिष्टेस्तदर्थत्वात् ॥१ -२५॥
शेषवदिति चेन्न वैश्वदेवो हि स्याद्व्यपदेशात् ॥१ -२६॥
न गुणार्थत्वात् ॥१ -२७॥
सन्नहनञ्च वृत्तत्वात् ॥१ -२८॥
अन्यविधानादारण्यभोजनं न स्यादुभयं हि बृत्त्यर्थम् ॥१ -२९॥
शेषभक्षास्तथेति चेन्नान्यार्थत्वात् ॥१ -३०॥
भृत्वाच्च परिक्रयः ॥१ -३१॥
शेषभक्षास्तथेति चेत् ॥१ -३२॥
न कर्मसंयोगात् ॥१ -३३॥
प्रवृत्तवरणात्प्रति तन्त्रवरणात्प्रतितन्त्रवरणं होतु क्रियेत ॥१ -३४॥
ब्रह्मापीति चेत् ॥१ -३५॥
न प्राङ्नियमात्तदर्थं हि ॥१ -३६॥
विर्दिष्टस्येति चेत् ॥१ -३७॥
न श्रुतत्वात् ॥१ -३८॥
हीतुस्तथेति चेत् ॥१ -३९॥
न कर्मसंयोगात् ॥१ -४०॥
यज्ञोत्पत्त्युपदेशे विष्ठितकर्मप्रयोगभेदात्प्रतितन्त्रं क्रियेत ॥१ -४१॥
देशपृथक्त्वान्मन्त्रोव्यावर्तते ॥१ -४२॥
सन्नहनहरणे तथेति चेत् ॥१ -४३॥
नान्यार्थत्वात् ॥१ -४४॥
विहारो लौकिकानामर्थं साधयेत्प्रभुत्वात् ॥२-१॥
मांसपाकप्रतिषेधश्च तद्वत् ॥२ -२॥
निर्देशाद्वा वैदिकानां स्यात् ॥२ -३॥
सति चोपासनस्य दर्शनात् ॥२ -४॥
अभावदर्शनाच्च ॥२ -५॥
मांसपाको विहितप्रतिषेधः स्यादाहुतिसंयोगात् ॥२ -६॥
वाक्यशेषो वा दक्षिणस्मिन्नमारभ्यविधानस्य ॥२ -७॥
सवनीये छिद्रापिधानार्थत्वात्पशुपुरोडाशो न स्याद्न्येषामेवमर्थत्वात् ॥२ -८॥
क्रिया वा देवतार्थत्वात् ॥२ -९॥
लिङ्गदर्शनात् ॥२ -१०॥
हविष्कृत्सवनीयेषु न स्यात्प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद्वुद्यमानत्वात् ॥२ -११॥
पशौ तु संस्कृते विधानात् ॥२ -१२॥
योगाद्वा यज्ञाय तद्विमोके विसर्गः स्यात् ॥२ -१३॥
निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात्प्रत्यक्षशिष्टत्वात् ॥२ -१४॥
कालवाक्यभेदाच्च तन्त्रभेदः स्यात् ॥२ -१५॥
वेद्युद्धननव्रतंविप्रतिषेधात्त देव स्यात् ॥२ -१६॥
तत्रंमध्ये विधानाद्वा तत्तन्त्रा सवनीयवत् ॥२ -१७॥
वेगुण्यादिध्मवर्हिर्नसाधयेदग्न्य्वाधानं च यदि देवतार्थम् ॥२ -१८॥
अग्न्यन्वाधानं च यदि देवतार्थम् ॥२ -१९॥
आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात् कृता पुमस्तदर्थेन ॥२ -२०॥
सकृदाऽरम्भसंयोगात् ॥२ -२१॥
स्याद्वा कालस्याशेषभूतत्वात् ॥२ -२२॥
आरंभविभागाच्च ॥२ -२३॥
विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मकत्वम् ॥२ -२४॥
मुख्यं वा पूर्वचोदनाल्लोकवत् ॥२ -२५॥
तथा चान्यार्थदर्शनम् ॥२ -२६॥
अङ्गगुणविरोधे च तादर्थ्यात् ॥२ -२७॥
परिधेद्व्यर्थत्वाद भयधर्मा स्यात् ॥२ -२८॥
यौप्यस्तु विरोधे स्यान्मुख्यानन्तर्यात् ॥२ -२९॥
इतरो वा तस्य तत्र विधानादुभयोश्चाङ्गसंयोगः ॥२ -३०॥
पशुसवनीयेषु विकल्पः स्याद्वैकृतश्तेदुभयोपश्रुतिभूतत्वात् ॥१ -३१॥
पाशुकं वा तस्य वैशेषिकाम्नानात्तदनर्थकं विकल्पे स्यात् ॥१ -३२॥
पशोश्च विप्रकर्षस्तन्त्रमध्ये विधानात् ॥२ -३३॥
अपूर्वं च प्रकृतौ समानतन्त्रा चेदनित्यत्वादनर्थकं हि स्यात् ॥२ -३४॥
अधिकश्च गुणः साधारणे ऽविरोधात्कांस्यभोजिवदमुख्ये ऽपि ॥२ -३५॥
तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तपाकेन ॥२ -३६॥
न वाविरोधात् ॥२ -३७॥
अशास्त्रलक्षणत्वाच्च ॥२ -३८॥
विश्र्वजिति वत्सत्वङ्नामधेयादितर था तन्त्रभूय त्वादहतं स्यात् ॥३-१॥
अविरोधी वा उपरिवासो हि वत्सत्वक् ॥३ -२॥
अनुनुर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्याच्छ्विष्ठकृद्दर्शनाच्च ॥३ -३॥
आगन्तुकत्वाद्वा स्वधर्मा स्याच्छ्रुतिविशेषादितरस्य च मुख्यत्वात् ॥३ -४॥
स्वस्थानत्वाच्च ॥३ -५॥
स्विष्टकृच्छ्रपणान्नेतिचोद्विकारः पवमानवत् ॥३ -६॥
अविकारो वा प्रकृतिवच्चोदनां प्रति भानाच्च ॥३ -७॥
एक कर्मणिशिष्टत्वाद्गुणानां सर्वकर्म स्यात् ॥३ -८॥
एकार्थास्तुविकल्पेरन् ,मुच्चये ह्यावृत्तिः स्यात्प्रधानस्य ॥३ -९॥
अभ्यस्योतार्थवत्त्वादिति चेत् ॥३ -१०॥
नाश्रुतत्वाद्धि विकल्पवच्चदर्शयति कालान्तरे ऽर्थवत्त्वं स्यात् ॥३ -११॥
प्रायश्चित्तेषुचैकार्थ्यान्निष्पन्नेनाभिसंयोगस्तस्मात् सर्वस्य निर्घातः ॥३ -१२॥
समुच्चयस्तु दोषार्थः ॥३ -१३॥
मन्त्राणाङ्कर्मसंयोगः स्वधर्मेण प्रयोगः स्याद्धर्मस्य तन्निमित्तत्वात् ॥३ -१४॥
विद्यांप्रतिविधिनाद्वा सर्वकारणं प्रयोगः स्यात् कर्मार्तत्वात् प्रयोगस्य ॥३ -१५॥
भाषास्वरोपदेशादैरवत् प्रायवचनप्रतिषेधः ॥३ -१६॥
मन्त्रोपदेशोवा न भाषिकस्य प्रायोपपत्तेर्भाषिकश्रुतिः ॥३ -१७॥
विकारः कारणाग्रहणे तन्न्यायत्वाद् दृष्टे ऽप्येवम् ॥३ -१८॥
तदुत्पत्तेर्वा प्रवचनलक्षणत्वात् ॥३ -१९॥
मन्त्राणां करणार्थत्वान्मन्त्रान्तेन कर्मादिसन्निपातः स्यात्सर्वस्य वचनार्थत्वात् ॥३ -२०॥
सन्ततवचनाद्धारायामादिसंयोगः ॥३ -२१॥
करमसन्तानो वा नानाकर्मत्वादितरस्याशक्चत्वात् ॥३ -२२॥
आघारे च दीर्घधारत्वात् ॥३ -२३॥ मन्त्राणां सन्निपातित्वादेकार्थानांविकल्पः स्यात् ॥३ -२४॥
संख्याविहितेषु समुच्चयो ऽसन्निपातित्वात् ॥३ -२५॥
ब्राह्मणविहितेषु च संख्यावत्सर्वेषामुपदिष्ठत्वात् ॥३ -३६॥
याज्यावषद्कारयोश्र्त समुच्चयदर्शनं तद्वत् ॥३ -२७॥
विकल्पो वा समुच्चयस्याश्रुतित्वात् ॥३ -२८॥
गुणार्थत्वादुपदेशस्य ॥३ -२९॥
वषट्कारे नानार्थत्वात्समुच्चयो हौत्रास्तु विकल्पेरन्नेकार्थत्वात् ॥३ -३०॥
क्रियमाणानुवादित्वात् समुच्चयो वा हौत्राणाम् ॥३ -३१॥
समुच्चयं च दर्शयति ॥३ -३२॥
जपाश्चाकर्मसंयुक्ताः स्तुत्याशीरभिधानाश्च याजमानेषु समुच्चयः स्यादाशीःपृथक्त्वात् ॥४-१॥
समुच्चयं च दर्शयति ॥४ -२॥
याज्यानुवाक्यासु तु विकल्पः स्याद्देवतीपलक्षणार्थत्वात् ॥४ -३॥
लिङ्गदर्शनाच्च ॥४ -४॥
क्रयेषु ति विकल्पः स्यादेकार्थत्वात् ॥४ -५॥
समुच्चयो वा प्रयोगद्रव्यसमवायात् ॥४ -६॥
समुच्चयञ्चदर्शयति ॥४ -७॥
संस्कारे च तत्प्रधानत्वात् ॥४ -८॥
संख्यासु तु विकल्पः स्याच्छ्रुतिप्रतिधात् ॥४ -९॥
द्रव्यविकारात्तु पूर्ववदर्थकर्म स्यात्तया विकल्पेन नियमप्रधानत्वात् ॥४ -१०॥
द्रव्यत्वे ऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशु कर्मभेदादेवं सति यथाप्रकृति ॥४ -११॥
कपाले ऽपि तथेतिचेत् ॥४ -१२॥
न कर्मणः परार्थत्वात् ॥४ -१३॥
प्रतिपत्तिस्तु शेषत्वात् ॥४ -१४॥
शृते ऽपि पूर्ववत्स्यात् ॥४ -१५॥
मवायात्तसमात्तेनार्थकर्म स्यात् ॥४ -१६॥
उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात् ॥४ -१७॥
तस्यत देवतार्थत्वात् ॥४ -१८॥
विकारो वा नित्यस्याग्नेः काम्येन तदुक्तहेतुः ॥४ -१९॥
वचनादसंस्कृतेषु कर्म स्यात् ॥४ -२०॥
संसर्गे चापि दोषः स्यात् ॥४ -२१॥
वचनादिति चेदथेतरस्मिन्नुत्सर्गापरिग्रहः कर्मणःकृतत्वात् ॥४ -२२॥
स आहवनीयः स्यादाहुतिसंयोगात् ॥४ -२३॥
अन्यो वोद्धृत्याहरणात् तस्मिन्त्संस्कारकर्म शिष्टत्वात् ॥४ -२४॥
स्थानात्तु परिलुप्येरन् ॥४ -२५॥
नित्याधारणे विकल्पो न ह्यकस्मात्प्रतिषेधः स्यात् ॥४ -२६॥
नित्यधारणाद्वा प्रतिषेधो गतश्रियः ॥४ -२७॥
परार्थान्योकः प्रतियन्तिवत् सत्राहीनयो यजमानगणे ऽनियमो ऽविशेषात् ॥४ -२८॥
मुख्यो वाविप्रतिषेधात् ॥४ -२९॥
सत्रे गृहपतिरसंयोगाद्धौत्रवदाम्नायवचनाच्च ॥४ -३०॥
सर्वैः वा तदर्थत्वात् ॥४ -३१॥
विप्रतिषेधे परम् ॥४ -३२॥
हौत्रे परार्थत्वात् ॥४ -३३॥
वचनं परम् ॥४ -३४॥
प्रभुत्वादार्त्विज्यं सर्ववर्णानां स्यात् ॥४ -३५॥
स्मृतेर्वा स्याद्व्राह्मणानाम् ॥४ -३६॥
फलचमसविधानाच्चेतरेषाम् ॥४ -३७॥
सान्नाय्येप्येवं प्रतिषेधः सौमपीयहेतुत्वात् ॥४ -३८॥
चतुर्धाकरणे च विर्देशात् ॥४ -३९॥
अन्वाहहर्ये च दर्शनात् ॥४ -४०॥