भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते ॥१ -१॥
सर्वेषां भावो ऽर्थ इति चेत् ॥१ -२॥
येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै ॥१ -३॥
येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य ॥१ -४॥
चोदना पुनर् आरम्भः ॥१ -५॥
तानि द्वैधं गुणप्रधानभूतानि ॥१ -६॥
यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् ॥१ -७॥
यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् ॥१ -८॥
धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् ॥१ -९॥
तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् ॥१ -१०॥
द्रव्योपदेश इति चेत् ॥१ -११॥
न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् ॥१ -१२॥
स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् ॥१ -१३॥
अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् ॥१ -१४॥
वशावद् वा गुणार्थं स्यात् ॥१ -१५॥
न श्रुतिसमवायित्वात् ॥१ -१६॥
व्यपदेशभेदाच् च ॥१ -१७॥
गुणश् चानर्थकः स्यात् ॥१ -१८॥
तथा याज्यापुरोरुचोः ॥१ -१९॥
वशायाम् अर्थसमवायात् ॥१ -२०॥
यच् चेति वार्थवत्त्वात् स्यात् ॥१ -२१॥
न त्वाम्नातेषु ॥१ -२२॥
दृश्यते ॥१ -२३॥
अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् ॥१ -२४॥
शब्दपृथक्त्वाच् च ॥१ -२५॥
अनर्थकं च तद्वचनम् ॥१ -२६॥
अन्यश् चार्थः प्रतीयते ॥१ -२७॥
अभिधानं च कर्मवत् ॥१ -२८॥
फलनिर्वृत्तिश् च ॥१ -२९॥
विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् ॥१ -३०॥
अपि वा प्रयोगसामर्थ्यान् मन्त्रो ऽभिधानवाची स्यात् ॥१ -३१॥
तच्चोदकेषु मन्त्राख्या ॥१ -३२॥
शेषे ब्राह्मणशब्दः ॥१ -३३॥
अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः ॥१ -३४॥
तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था ॥१ -३५॥
गीतिषु स माख्या ॥१ -३६॥
शेषे यजुः शब्दाः ॥१ -३७॥
निगदो वा चतुर्थं स्याद् धर्मविशेषात् ॥१ -३८॥
व्यपदेशाच् च ॥१ -३९॥
यजूंषि वा तद्रूपत्वात् ॥१ -४०॥
वचनाद् धर्मविशेषः ॥१ -४१॥
अर्थाच् च ॥१ -४२॥
गुणार्थो व्यपदेशः ॥१ -४३॥
सर्वेषाम् इति चेत् ॥१ -४४॥
न , ऋग्व्यपदेशात् ॥१ -४५॥
अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् ॥१ -४६॥
समेषु वाक्यभेदः स्यात् ॥१ -४७॥
अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् ॥१ -४८॥
व्यवायान् नानुषज्येत ॥१ -४९॥
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् ॥२-१॥
एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् ॥२ -२॥
प्रकरणं तु पौर्णमास्यां रूपावचनात् ॥२ -३॥
विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् ॥२ -४॥
गुणस् तु श्रुतिसंयोगात् ॥२ -५॥
चोदना वा गुणानां युगपच्छास्त्राच् चोदिते हि तदर्थत्वात् तस्यतस्योपदिश्येत ॥२ -६॥
व्यपदेशश् च तद्वत् ॥२ -७॥
लिङ्गदर्शनाच् च ॥२ -८॥
पौर्णमासीवद् उपांशुयाजः स्यात् ॥२ -९॥
चोदना वाप्रकृतत्वात् ॥२ -१०॥
गुणोपबन्धात् ॥२ -११॥
प्राये वचनाच् च ॥२ -१२॥
आघाराग्निहोत्रम् अरूपत्वात् ॥२ -१३॥
संज्ञोपबन्धात् ॥२ -१४॥
अप्रकृतत्वाच् च ॥२ -१५॥
चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर् गुणार्थेन पुनः श्रुतिः ॥२ -१६॥
द्रव्यसंयोगाच् चोदना पशुसोमयोः प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन ॥२ -१७॥
अचोदकाश् च संस्काराः ॥२ -१८॥
तद्भेदात् कर्मणो ऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् ॥२ -१९॥
संस्कारस् तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् ॥२ -२०॥
पृथक्त्त्वनिवेशात् संख्यया कर्मभेदः स्यात् ॥२ -२१॥
संज्ञा चोत्पत्तिसंयोगात् ॥२ -२२॥
गुणाश् चापूर्वसंयोगे वाक्योः समत्त्वात् ॥२ -२३॥
अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत ॥२ -२४॥
फलश्रुतेस् तु कर्म स्यात् फलस्य कर्मयोगित्वात् ॥२ -२५॥
अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत ॥२ -२६॥
समेषु कर्मयुक्तं स्यात् ॥२ -२७॥
सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः ॥२ -२८॥
सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान् निधनार्था पुनः श्रुतिः ॥२ -२९॥
गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् ॥३ -१॥
एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् ॥३ -२॥
अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते ॥३ -३॥
आधाने सर्वशेषत्वात् ॥३ -४॥
अयनेषु चोदनान्तरं संज्ञोपबन्धात् ॥३ -५॥
अगुणाच् च कर्मचोदना ॥३ -६॥
समाप्तं च फले वाक्यम् ॥३ -७॥
विकारो वा प्रकरणात् ॥३ -८॥
लिङ्गदर्शनाच् च ॥३ -९॥
गुणात् संज्ञोपबन्धः ॥३ -१०॥
समाप्तिर् अविशिष्टा ॥३ -११॥
संस्कारश् चाप्रकरणे ऽकर्मशब्दत्वात् ॥३ -१२॥
यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् ॥३ -१३॥
यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् ॥३ -१४॥
लिङ्गदर्शनाच् च ॥३ -१५॥
विषये प्रायदर्शनात् ॥३ -१६॥
अर्थवादोपपत्तेश् च ॥३ -१७॥
संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् ॥३ -१८॥
पात्नीवते तु पूर्वत्वाद् अवच्छेदः ॥३ -१९॥
अद्रव्यत्वात् कवेले कर्मशेषः स्यात् ॥३ -२०॥
अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत ॥३ -२१॥
द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् ॥३ -२२॥
तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि ॥३ -२३॥
प्रकरणान्तरे प्रयोजनान्यत्वम् ॥३ -२४॥
फलं चाकर्मसंनिधौ ॥३ -२५॥
संनिधौ त्व् अविभागात् फलार्थेन पुनः श्रुतिः ॥३ -२६॥
आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत ॥३ -२७॥
अविभागात् तु कर्मणां द्विरुक्तेर् न विधीयते ॥३ -२८॥
अन्यार्था वा पुनः श्रुतिः ॥३ -२९॥
यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् ॥४-१॥
कर्तुर् वा श्रुतिसंयोगात् ॥४ -२॥
लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् ॥४ -३॥
व्यपवर्गं च दर्शयति कालश् चेत् कर्मभेदः स्यात् ॥४ -४॥
अनित्यत्वात् तु नैवं स्यात् ॥४ -५॥
विरोधश् चापि पूर्ववत् ॥४ -६॥
कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् ॥४ -७॥
नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् ॥४ -८॥
एकं वा संयोगरूपचोदनाख्याविशेषात् ॥४ -९॥
न नाम्ना स्याद् अचोदनाभिधानत्वात् ॥४ -१०॥
सर्वेषां चैककर्म्यं स्यात् ॥४ -११॥
कृतकं चाभिधानम् ॥४ -१२॥
एकत्वे ऽपि परम् ॥४ -१३॥
विद्यायां धर्मशास्त्रम् ॥४ -१४॥
अग्नेयवत्पुनर्वचनम् ॥४ -१५॥
अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् ॥४ -१६॥
अर्थासन्निधेश् च ॥४ -१७॥
न चैकं प्रतिशिष्यते ॥४ -१८॥
समाप्तिवच् च संप्रेक्षा ॥४ -१९॥
एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि ॥४ -२०॥
प्रायश्चित्तं निमित्तेन ॥४ -२१॥
प्रक्रमाद् वा नियोगेन ॥४ -२२॥
समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत ॥४ -२३॥
लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्मात् द्वादशाहस्याहारव्यपदेशः स्यात् ॥४ -२४॥
द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् ॥४ -२५॥
विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् ॥४ -२६॥
सारस्वते विप्रतिषेधाद्यदेति स्यात् ॥४ -२७॥
उपहव्ये ऽप्रतिप्रसवः ॥४ -२८॥
गुणार्था वा पुनः श्रुतिः ॥४ -२९॥
प्रत्ययं चापि दर्शयति ॥४ -३०॥
अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत ॥४ -३१॥
विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् ॥४ -३२॥