प्रयोजनाभिसम्बन्धात्पृथक् सतौततः स्यादैककर्म्यमेक शब्दाभिसंयोगात् ॥१ -१॥
शेषवद्वा प्रयोजनं प्रतिजनं प्रतिकर्म विभज्येत ॥१ -२॥
अविधानात्तु नैवं स्यात् ॥१ -३॥
शेषस्य हि परार्थत्वाद्विधानात्प्रतिप्रधानभावः स्यात् ॥१ -४॥
अङ्गनान्तु शब्दभेदात्क्रतुवत्स्या त्फलानयत्वम् ॥१ -५॥
अर्थभेदस्तु तत्राथेहैतार्थ्यदैककर्म्यम् ॥१ -६॥
शब्दभेदान्नेति चेत् ॥१ -७॥
कर्मार्थत्वात्प्रयोगे ताच्छब्द्यं स्यात्तदर्थत्वात् ॥१ -८॥
कर्तृविधेर्नानार्थत्वाद्गुणप्रधानेषु ॥१ -९॥
आरम्भस्य शब्दपूर्वत्वात् ॥१ -१०॥
एकेनापि समाप्येत कृतार्थत्वाद्यथा क्रत्वन्तरेषुप्राप्तेषुचो त्तरावत्स्यात् ॥१ -११॥
फलाभावान्नेति चेत् ॥१ -१२॥
न कर्मसंयोगात्प्रयोजनबशब्ददोषं स्यात् ॥१ -१३॥
एकशब्द्यादिति चेत् ॥१ -१४॥
नार्थपृथक्त्वात् ,मत्वादगुणत्वम् ॥१ -१५॥
विधेस्त्वेकश्रुतित्वादपर्यायविधानान्नित्यच्छ्रुतभूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं स्वशब्दो निवीतवत्सप्वप्रयोगे प्रवृत्तिः स्यात्ष मिमांसा -११ ,१ -१६॥
तथा कर्मोपदेशत्वात् ॥१ -१७॥
क्रत्वन्तरेषु पुनर्वचनम् ॥१ -१८॥
उत्तरास्वश्रुतित्वाद्विशेषाणां कृतार्थत्वात्संदोहे यथाकामी प्रतीयेत ॥१ -१९॥
कर्मण्यारम्भभाव्यत्वात्कृषिवत्प्रत्यारभ्भं फलानि स्युः ॥१ -२०॥
अधिकारश्च सर्वेषां कार्यत्वादुपपद्यते विशेषः ॥१ -२१॥
सकृत्तु स्यात्कृतार्थत्वादङ्गवत् ॥१ -२२॥
शब्दार्थश्च तथा लोके ॥१ -२३॥
अपि वा संप्रयोगे यथाकामी प्रतायेताश्रुतित्वाद्विधिषप वचनानि स्युः ॥१ -२४॥
एकशब्द्यात्तथाङ्गेषु ॥१ -२५॥
लोके कर्मार्ऽथ लक्षणम् ॥१ -२६॥
क्रियाणामर्थशेषत्वात्प्रत्यक्षतस्तन्निर्वृ त्त्यापवर्गः स्यात् ॥१ -२७॥
घर्ममात्रे त्वदर्शनाच्छब्दार्थेनापवर्गः स्यात् ॥१ -२८॥
क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् ॥१ -२९॥
सकृद्वा कारणैकत्वात् ॥१ -३०॥
परिमाणं चानियमेन स्यात् ॥१ -३१॥
फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात्फलान्यत्वम् ॥१ -३२॥
अर्थवांस्तु नैकत्वादभ्यासः स्यादनर्थको यथा भोजन मेकस्मिन्नर्थस्यापरिमाणत्वात्प्रधाने च क्रियार्थत्वादनियमः स्यात् ॥१ -३३॥
पृथक्त्वाद्विधितः परिमाणं स्यात् ॥१ -३४॥
अनभ्यासो वा प्रयोगवचनैकत्वात्सर्वम्ययुगपच्छास्त्रा दफलत्वाच्च कर्मणः स्यात्क्रियार्थत्वात् ॥१ -३५॥
अभ्यासो वा छेदनसंमार्गावदानेषु वचनात्सकृत्त्वस्य ॥१ -३६॥
अनभ्यासस्तु वाच्यत्वात् ॥१ -३७॥
बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात् ॥१ -३८॥
दृष्टः प्रयोग इति चेत् ॥१ -३९॥
भक्तयेति चेत् ॥१ -४०॥
तथोतरस्मिन् ॥१ -४१॥
प्रथमं वा नियम्येत कारणादतिक्रमः स्यात् ॥१ -४२॥
श्रुत्यर्थाविशेषात् ॥१ -४३॥
तथा चान्यार्थदर्शनम् ॥१ -४४॥
प्रक -त्या च पूर्ववत्तदासत्तेः ॥१ -४५॥
उत्तरासु यावत्स्वमपूर्वत्वात् ॥१ -४६॥
यावत्स्वं वान्यविधानेनावादः स्यात् ॥१ -४७॥
साकल्यविधानात् ॥१ -४८॥
बहूर्थत्वाच्च ॥१ -४९॥
अग्निहोत्रे चाशेषवद्यवागूनियमः प्रतिषेधःकुमांराणाम् ॥१ -५०॥
सर्वप्रायिणापि लिङ्गेन संयुज्यते देवताभिसंयोगात् ॥१ -५१॥
पूधानकर्मार्थत्वादङ्गानां तद्भेदात्कर्मभेदः प्रयोगे स्यात् ॥१ -५२॥
क्रमकोपश्च यौगपद्यात् स्यात् ॥१ -५३॥
तुल्यानां तु यौग पद्यमेकशब्दोपदेशात्स्याद्विशेषाग्रहणात् ॥१ -५४॥
एकार्थ्यादव्यवायः स्यात् ॥१ -५५॥
तथाचान्यार्थदर्शनं कामुकायनः ॥१ -५६॥
तन्नयायत्वादशक्तेरानुपूर्व्यं स्यात्संस्कारस्य तदर्थत्वात् ॥१ -५७॥
असंसृष्टो ऽपि तादर्थ्यात् ॥१ -५८॥
विभवाद्वा प्रदीपवत् ॥१ -५९॥
अर्थात्तु लोके विधितः प्रतिप्रधानं स्यात् ॥१ -६०॥
सकृदिज्यां कामुकायनः परिमाणविरोधात् ॥१ -६१॥
विधेस्त्वितरार्थत्वात्सकृदिज्याश्रुतिव्यतिक्रमः स्यात् ॥१ -६२॥
विधिवत्प्रकरणाविभागे प्रयोगं बादरायणः ॥१ -६३॥
अपि चैकेन सन्निधानमविशेषकोहेतुः ॥१ -६४॥
क्कतिद्विधानान्नेति चेत् ॥१ -६५॥
न विधेश्चोदित्वात् ॥१ -६६॥
व्याख्यातं तुल्यानां यौगपद्यमगृह्यमाणविशेषाणाम् ॥१ -६७॥
भदर्तु कालभेदाच्चोदनाव्यवायात्स्याद्विशिष्टानां विधिप्रधानकात्वात् ॥१ -६८॥
तथा चान्यार्थदर्शनम् ॥१ -६९॥
विधिरिति चेन्न वर्तमानापदेशात् ॥१ -७०॥
एकदेशकालकर्तृत्व मुख्यानामेकशब्दोपदेशात् ॥२-१॥
अविधिश्तेत्कर्मणामभिसम्बन्धः प्रतीयेत तल्लक्षणार्थाभिसंयोगाद्विधित्वाच्चेतरेषां प्रतिप्रधानभावः स्यात् ॥२ -२॥
अङ्गेषु च तदभावः प्रधानं प्रतिनिर्देशात् ॥२ -३॥
यदि तु कर्मणो विधिसम्बन्धः स्यादैकशब्द्याल्प्रधानार्थाभिधासंयोगात् ॥२ -४॥
तथा तान्यार्थदर्शनम् ॥२ -५॥
श्रुतिश्चैषां प्रधानवत्कर्मश्रुतेः परार्थत्वात् ॥२ -६॥
कर्मणो ऽश्रुतित्वाच्च ॥२ -७॥
अङ्गानि तु विधिनत्वात्प्रधानेनोपदिश्येरंस्तस्मात्स्यादे कगेशत्वम् ॥२ -८॥
द्रव्यदेवतं तथेति चेत् ॥२ -९॥
न चोदनाविधिशेषरवान्नियमार्थो विशेषः ॥२ -१०॥
तेषु समवेतानां समवायात्तन्त्रमङ्गानि भेदस्तु तद्भैदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्तथा चान्यार्थदर्शनम् ॥२ -११॥
इष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात् ॥२ -१२॥
कालभेगान्नेति चेत् ॥२ -१३॥
नैकदेशत्वात्पशुवत् ॥२ -१४॥
अपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात्साङ्गानामुपदेशः स्यात् ॥२ -१५॥
तथा चान्यार्थदर्शनम् ॥२ -१६॥
तथा तदवयवेषु स्यात् ॥२ -१७॥
पशौ तु चेदनैकत्वात्तन्त्रस्य विप्रकर्षः स्यात् ॥२ -१८॥
तथा स्यादध्वरकल्पेष्टौ विशेषस्यैककालत्वात् ॥२ -१९॥
इष्टिरिति चैकवच्छ्रुतिः ॥२ -२०॥
अपि वाकर्मपृथकत्वात्तेषां च तन्त्रविधानात्साङ्गानामुपदेशः स्यात् ॥२ -२१॥
प्रथमस्य वा कालवचनम् ॥२ -२२॥
फलैकत्वादिष्टिशब्दो यथान्यत्र ॥२ -२३॥
वसाहोमस्तन्त्रमेकदेवतेषु स्यात्प्रदानस्यैककालत्वात् ॥२ -२४॥
कालभेदात्वावृत्तिर्देवताभेदे ॥२ -२५॥ अन्ते यूपाहुतिस्तद्वत् ॥२ -२६॥
इतरप्रतिषेधो वा ॥२ -२७॥
अशास्त्रत्वाच्च देशानाम् ॥२ -२८॥
अवभृथे प्रधाने ऽग्निविकारः स्यान्न हि तद्धेतुरग्निसंयोगः ॥२ -२९॥
साङ्गो वा प्रयोदवचनैकत्वात् ॥२ -३०॥
लिङ्गदर्शनाच्च ॥२ -३१॥
शब्दविभागाच्च देवतानपनयः ॥२ -३२॥
दक्षिणे ऽग्नौ वरुणप्रधासेषु देशभेदात्सर्वं क्रियते ॥२ -३३॥
अचोदनेतिचेत् ॥२ -३४॥
स्यात्पौर्णमासीवत् ॥२ -३५॥
प्रयोगचेदनेति चेत् ॥२ -३६॥
इहापिमारुत्याः प्रयागश्चोद्यते ॥२ -३७॥
आसादानमिति चेत् ॥२ -३८॥
नोत्तरेणैकवाक्यत्वात् ॥२ -३९॥
अवाच्यत्वात् ॥२ -४०॥
आमनायवचनं तद्वत् ॥२ -४१॥
कर्तृभेदस्तथेति चेत् ॥२ -४२॥
न समवायात् ॥२ -४३॥
लिङ्गदर्शनाच्च ॥२ -४४॥
वेदिसंयोगादिति चेत् ॥२ -४५॥
न देशमात्रत्वात् ॥२ -४६॥
एकवाक्यत्वात् ॥२ -४७॥
एकाग्नित्वादपरेषु तन्त्रं स्यात् ॥२ -४८॥
नाना वा कर्तृभेदात् ॥२ -४९॥
पर्यग्निकृतानामुत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामानयादारण्यवत्तस्माद्भ्मसाम्नि चोदनापृथक्तवं स्यात् ॥२ -५०॥
संस्कारप्रतिषेधो वा वाक्यैकत्वो क्रतुसामान्यात् ॥२ -५१॥
वाक्यैकत्वे क्रतुसामान्यात् ॥२ -५२॥
वपानां चानभिघारणस्य दर्शनात् ॥२ -५३॥
पञ्चशारदीयास्तथेति चेत् ॥२ -५४॥
न चेदनैकवाक्यत्वात् ॥२ -५५॥
यातयामत्वाच्च ॥२ -५६॥
संस्कारणां च तद्दर्शनात् ॥२ -५७॥
दशपेये क्रयप्रतिकर्षात्प्रतिकर्षस्ततः प्राचां तत्समानं तन्त्रं स्यात् ॥२ -५८॥
समानवचनं तद्वत् ॥२ -५९॥
अतिकर्षो वार्ऽथहेतुत्वात् ॥२ -६०॥
पूर्वस्मिंश्चावभृथस्य दर्शनात् ॥२ -६१॥
समानः कालसामान्यात् ॥२ -६२॥
विष्कासस्यावभृथे तदेकदेशत्वात्पशुवत्प्रदानविप्रकर्षः स्यात् ॥२ -६३॥
अपनयो वा प्रसिद्धेनाभिसंयोगात् ॥२ -६४॥
प्रतिपत्तिरिति चेन्न कर्मसंयोगात् ॥२ -६५॥
उदयनीये च तद्वत् ॥२ -६६॥
प्रतिपत्तिर्वातकर्मसंयोगात् ॥२ -६७॥
अर्थकर्म वा शेषत्वाच्छ्रयणवत्तदर्थेनविधानात् ॥२ -६८॥
अङ्गानां मुख्यकालत्वाद्वचनादन्यकालत्वम् ॥३-१॥
द्रव्यस्य कर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात्स्बकालत्वात् ॥३ -२॥
यूपश्चाकर्मकालत्वात् ॥३ -३॥
एकयूपं च दर्षयति ॥३ -४॥
संस्कारास्त्वावर्तेरन्नर्थकालत्वात् ॥३ -५॥
तत्कालस्तु यूपकर्मत्वात्तस्य धर्मविधानात्सर्वार्थानां च वचनादन्यकालत्वम् ॥२ -६॥
सकृन्मानं च दर्शयति ॥२ -७॥
स्वरुस्तन्त्रापवर्गः स्यादस्वकालत्वात् ॥२ -८॥
साधारणे वानुनिष्पत्तिस्तस्य साधारणत्वात् ॥३ -९॥
सोमान्ते च प्रतिपत्तिदर्शनात् ॥३ -१०॥
न चोत्पत्तिवाक्यत्वात्प्रदेशात्प्रस्तरे तथा ॥३ -११॥
अहर्गणे विषाणाप्रासनं धरमविप्रतिषेधादन्ते प्रथमे वाहनि विकल्पः स्यात् ॥३ -१२॥
पाणेस्त्वश्रुतिभूतत्वाद्विशाणानियमः स्यात्प्रातः सवनमध्यत्वाच्छिष्टे चाभिप्रवृत्तत्वात् ॥३ -१३॥
शिष्ठे चाभिप्रवृत्तत्वात् ॥३ -१४॥
वाग्विसर्गो हविष्कृता वीजभेदे तथा स्यात् ॥३ -१५॥
यथाह्वानमपीतिचेत् ॥३ -१६॥
पशौ च पुरोडाशे समानतन्त्रं भवेत् ॥३ -१७॥
अङ्गप्रधानार्थोयोगः सर्वापवर्गे विमोकः स्यात् ॥३ -१८॥
प्रधानापवर्गे वा तदर्थत्वात् ॥३ -१९॥
अवभृथे च तद्वत्प्रधानार्थस्य प्रतिषेधो ऽपवृक्तार्थत्वात् ॥३ -२०॥
अहर्गणे च प्रत्यहं स्यात्तदर्थत्वात् ॥३ -२१॥
सुब्पह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात् ॥३ -२२॥
तत्कालात्त्वादावर्तेत प्रयागतो विशेषसम्बन्धात् ॥३ -२३॥
अयोदाङ्गमिति चेत् ॥३ -२४॥
प्रयोगनिर्देशात्कर्सृभेदवत् ॥३ -२५॥
तद्भूतस्थानादग्निवदिति चेत्तदपरगस्तदर्थत्वात् ॥३ -२६॥
अग्निवदिति चेत् ॥३ -२७॥
न प्रयोगसाधारण्यात् ॥३ -२८॥
लिङ्गदर्शनाच्च ॥३ -२९॥
तद्धि तथेति चेत् ॥३ -३०॥
नाशिष्टत्वादितरन्यायत्वाच्च ॥३ -३१॥
विध्येकत्वादिति चेत् ॥३ -३२॥
न कृत्स्नस्य पुनः प्रयोगात्प्रधानवत् ॥३ -३३॥
लौकिकेतु यथाकामी संस्कारानर्थलोपात् ॥३ -३४॥
यज्ञायुधानि धार्येरन्प्रतिपत्तिविधानादृजीषवत् ॥३ -३५॥
यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थ त्वात् ॥३ -३६॥
मुख्यधारणं वा मरणस्यानियत्वात् ॥३ -३७॥
यो वा यजनीयेहनि म्रियेत सो ऽधिकृतः स्यादुपवेषवत् ॥३ -३८॥
न शास्त्रलक्षणत्वात् ॥३ -३९॥
उत्पत्तिर्वा प्रयोजकत्वादाशिपवत् ॥३ -४०॥
शब्दासामझ्जस्यमिति चेत् ॥३ -४१॥
तथाऽशिरे ऽपि ॥३ -४२॥
शास्त्रात्तु विप्रयोगस्तत्रैकद्रव्यचिकीर्षा प्रतावथेहापूर्वार्थवद्भूतोपदेशः ॥३ -४३॥
प्रकृत्यर्थत्वात्पौर्णमास्याः क्रियेरन् ॥३ -४४॥
अग्न्याधेये वाविप्रतिषेधात्तानि धारयेन्मरणस्यानिमित्तवात् ॥३ -४५॥
प्रतिपत्तिर्वा यथान्येषाम् ॥३ -४६॥
उपरिष्टात्सोमानां प्राजापत्यैश्र्तपन्तीति ॥३ -४७॥
अङ्गविपर्यासोविनावचनादिति चेत् ॥३ -४८॥
उत्कर्षः संयोगात्कालमात्रमितरत्र ॥३ -४९॥
प्रकृतिकालासत्तेः शस्त्रवतामिति चेत् ॥३ -५०॥
न श्रुतिप्रतिषेधात् ॥३ -५१॥
विकारस्थाने इति चेत् ॥३ -५२॥
न चोदनापृथक्त्वात् ॥३ -५३॥
उत्कर्षे सूक्तवाकस्य न सोमदेवतानामुत्कर्षः पश्वनङ्गत्वाद्यथा निष्कर्षेनान्वयः ॥३ -५४॥
वाक्यसंयोगाद्वोत्कर्षः समानतन्त्रत्वादर्थलोपादन्नवयः ॥३ -५५॥
चोदनैकत्वाद्राजसूये ऽनुक्तदेशकालानां समवायात्तन्त्रमङ्गानि ॥४-१॥
प्रतिदक्षिणं वा कर्तृसम्बन्धादिष्टिवदङ्गभूतत्वात्समुदायो हि तन्निर्वृत्त्यातदेकत्वादेकत्वादेकशब्दोपदेशः स्यात् ॥४ -२॥
तथा चान्यार्थदर्शनम् ॥४ -३॥
अनियमः स्यादिति चेत् ॥४ -४॥
नोपदिष्टत्वात् ॥४ -५॥
प्रयोजनैकत्वात् ॥४ -६॥
अविशेषार्था पुनः श्रुतिः ॥४ -७॥
अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनाद्वचनात् कामसंयोगेन ॥४ -८॥
क्रत्वर्थायामिति चेन्न वर्णसंयोगात् ॥४ -९॥
पवमानहविःष्वैकतन्त्र् . प्रयोगवचनैकत्वात् ॥४ -१०॥
लिङ्गदर्शनाच्च ॥४ -११॥
वर्तमानापदेशाद्वचनात्तु तन्त्रभेदः स्यात् ॥४ -१२॥
सहत्वे नित्यानुवादः स्यात् ॥४ -१३॥
द्वादशाहे तु प्रकृतित्वादेकैकमहपरवृज्येत कर्मपृथक्त्वात् ॥४ -१४॥
अह्रां वा श्रुतिभूतत्वात्तत्र साङ्गं क्रियेत यथा माध्यन्दिने ॥४ -१५॥
अपि वा फलकर्तृसम्बन्धात्सह प्रयोगः स्यादाग्नेयाग्नीषोमीयवत् ॥४ -१६॥
साङ्गकालश्रुतित्वाद्वा स्वस्थानानां विकारः स्यात् ॥४ -१७॥
दीक्षोपसदां च संख्या पृथक्पृथक् प्रत्यक्षसंयोगात् ॥४ -१८॥
वसतीवरीपर्यन्तानिपूर्वाणितन्त्र मन्यकालत्वादवभृथादीन्युत्तराणिदीक्षाविसर्गार्थत्वात् ॥४ -१९॥
तथा चान्यार्थदर्शनम् ॥४ -२०॥
चोदनापृथक्त्वे त्वैकतन्त्र्यं समवेतानां कालसंयोगात् ॥४ -२१॥
भेदस्तु तद्भेदात्करमभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात् ॥४ -२२॥
तथा चान्यार्थदर्शनम् ॥४ -२३॥
श्वासुत्यावचनं तद्वत् ॥४ -२४॥
पश्वतिरेकश्च ॥४ -२५॥
सुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषामुपलक्षणं प्रकृत्यन्व यादावाहनवत् ॥४ -२६॥
अपि वेन्द्राभिधानत्वात्सकृत्स्यादुपलक्षणं कालस्यलक्षणार्थत्वात् ॥४ -२७॥
अविभागाच्च ॥४ -२८॥
पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात्तन्त्रमावः स्यात् ॥४ -२९॥
भेदस्तु सन्देहाद्देवतान्तरे स्यात् ॥४ -३०॥
अर्ताद्वा लिङ्गकर्म स्यात् ॥४ -३१॥
प्रतिपाद्यत्वाद्वसानांभेदः स्यात्स्वयाज्याप्रदानत्वात् ॥४ -३२॥
अपि वा प्रतिपत्तित्वात्तन्त्रं स्यात्स्वस्याश्रुतिभूतत्वात् ॥४ -३३॥
सकृदिति चेत् ॥४ -३४॥
न कालभेदात् ॥४ -३५॥
पक्तिभेदात्कुम्भोशूलवपाश्ररणीनांभेदः स्यात् ॥४ -३६॥
जात्यन्तरेषु भेदः पक्तिवैषम्यात् ॥४ -३७॥
वृद्धिदर्शनाच्च ॥४ -३८॥
कपालानि च कुम्भीवत्तुल्यसंख्यानाम् ॥४ -३९॥
प्रतिप्रधानं वा प्रकृतिवत् ॥४ -४०॥
सर्वेषां वाभिप्रथमं स्यात् ॥४ -४१॥
एकद्रव्ये संस्काराणां व्याख्यातमेककर्मत्वात् ॥४ -४२॥
द्रव्यान्तरे कृतार्थत्वात्तस्य पुनः प्रयोगान्मन्त्रस्य च तद्गुणत्वात्पुनः प्रयोगः स्यात्तदर्थेन विधानात् ॥४ -४३॥
निर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत्प्रयोजनैकत्वात् ॥४ -४४॥
द्रव्यान्तरवद्वा स्यात्तत्संस्कारात् ॥४ -४५॥
वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनः प्रयोगात् ॥४ -४६॥
एकस्य वा गुणविधिर्द्रव्याकत्वात्तस्मात्सकृत्प्रयोगः स्यात् ॥४ -४७॥
कण्डूयने प्रत् .ङ्गं कर्मभेदात्स्यात् ॥४ -४८॥
अपि वा चोदनैककालमैककर्म्यं स्यात् ॥४ -४९॥
स्वप्ननदीतरणाभिवर्षणामेध्यप्रतमन्त्रणेषु चैवम् ॥४ -५०॥
प्रयाणे त्वार्थनिर्वृत्तेः ॥४ -५१॥
उपरवमम्त्रस्तन्त्रं स्याल्लोकवद्बहुनचनात् ॥४ -५२॥
न सन्निपातित्वादसन्निपातिकर्मणां विशेषग्रहणे का लैकत्वात्सकृद्वचनम् ॥४ -५३॥
हविष्कृदध्रिगुपुरो ऽनुलाक्यामनोतस्यावृत्तिः कालभेदात् स्यात् ॥४ -५४॥
अध्रिगोश्च विपर्यासात् ॥४ -५५॥
करिष्यद्वचनात् ॥४ -५६॥