अथातो धर्मजिज्ञासा ॥१ -१॥
चोदनालक्षणो ऽर्थो धर्मः ॥१ -२॥
तस्य निमित्तपरीष्टिः ॥१ -३॥
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् ॥१ -४॥
औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ॥१ -५॥
कर्मैके तत्र दर्शनात् ॥१ -६॥
अस्थानात् ॥१ -७॥
करोति शब्दात् ॥१ -८॥
सत्त्वान्तरे च यौगपद्यात् ॥१ -९॥
प्रकृति विकृत्योश् च ॥१ -१०॥
वृद्धिश् च कर्तृभूम्नास्य ॥१ -११॥
समं तु तत्र दर्शनम् ॥१ -१२॥
सतः परमदर्शनं विषयानागमात् ॥१ -१३॥
प्रयोगस्य परम् ॥१ -१४॥
आदित्त्यवद्यौगपद्यम् ॥१ -१५॥
वर्णान्तरम् अविकारः ॥१ -१६॥
नादवृद्धिपरा ॥१ -१७॥
नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् ॥१ -१८॥
सर्वत्र यौगपद्यात् ॥१ -१९॥
संख्याभावात् ॥१ -२०॥
अनपेक्षत्वात् ॥१ -२१॥
प्रख्याभावाच् च योगस्य ॥१ -२२॥
लिङ्गदर्शनाच् च ॥१ -२३॥
उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन्निमित्तत्वात् ॥१ -२४॥
तद्भूतानां क्रियार्थेन सामाम्नायो ऽर्थस्य तन्निमित्तत्त्वात् ॥१ -२५॥
लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् ॥१ -२६॥
वेदांश् चैके सन्निकर्षं पुरुषाख्याः ॥१ -२७॥
अनित्यदर्शनाच् च ॥१ -२८॥
उक्तं तु शब्दपूर्वत्वम् ॥१ -२९॥
आख्या प्रवचनात् ॥१ -३०॥
परन्तु श्रुतिसामान्यमात्रम् ॥१ -३१॥
कृते वा विनियोगः स्यात् कर्मणः संबन्धात् ॥१ -३२॥
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते ॥२-१॥
शास्त्रदृष्टाविरोधाच् च ॥२ -२॥
तथाफलाभावात् ॥२ -३॥
अन्यानर्थक्यात् ॥२ -४॥
अभागिप्रतिषेधाच् च ॥२ -५॥
अनित्यसंयोगात् ॥२ -६॥
विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः ॥२ -७॥
तुल्यं च साम्प्रदायिकम् ॥२ -८॥
आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत ॥२ -९॥
गुणवादस् तु ॥२ -१०॥
रूपात् प्रायात् ॥२ -११॥
दूरभूयस्त्वात् ॥२ -१२॥
अपराधात् कर्तुश् च पुत्रदर्शनम् ॥२ -१३॥
आकालिकेप्सा ॥२ -१४॥
विद्याप्रशंसा ॥२ -१५॥
सर्वत्वम् आधिकारिकम् ॥२ -१६॥
फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् ॥२ -१७॥
अन्त्ययोर् यथोक्तम् ॥२ -१८॥
विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् ॥२ -१९॥
लोकवद् इति चेत् ॥२ -२०॥
न पूर्वत्वात् ॥२ -२१॥
उक्तं तु वाक्यशेषत्वम् ॥२ -२२॥
विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् ॥२ -२३॥
प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति ॥२ -२४॥
विधौ च वाक्यभेदः स्यात् ॥२ -२५॥
हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् ॥२ -२६॥
स्थितिस् तु शब्दपूर्वत्वादचोदनाच तस्य ॥२ -२७॥
व्यर्थे स्तुतिर् अन्याय्येति चेत् ॥२ -२८॥
अर्थस् तु विधिशेषत्वाद् यथा लोके ॥२ -२९॥
यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् ॥२ -३०॥
तदर्थशास्त्रात् ॥२ -३१॥
वाक्यनियमात् ॥२ -३२॥
बुद्धिशास्त्रात् ॥२ -३३॥
अविद्यमानवचनात् ॥२ -३४॥
अचेतने ऽर्थबन्धनात् ॥२ -३५॥
अर्थविप्रतिषेधात् ॥२ -३६॥
स्वाध्यायवद्वचनात् ॥२ -३७॥
अविज्ञेयात् ॥२ -३८॥
अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् ॥२ -३९॥
अविशिष्टस् तु वाक्यार्थः ॥२ -४०॥
गुणार्थेन पुनः श्रुतिः ॥२ -४१॥
परिसंख्या ॥२ -४२॥
अर्थवादो वा ॥२ -४३॥
अविरुद्धं परम् ॥२ -४४॥
संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् ॥२ -४५॥
अभिधाने ऽर्थवादः ॥२ -४६॥
गुणाद् अप्रतिषेधः स्यात् ॥२ -४७॥
विद्यावचनम् असंयोगात् ॥२ -४८॥
सतः परमविज्ञानम् ॥२ -४९॥
उक्तश् चानित्यसंयोगः ॥२ -५०॥
लिङ्गोपदेशश् च तदर्थवत् ॥२ -५१॥
ऊहः ॥२ -५२॥
विधिशब्दाश् च ॥२ -५३॥
धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् ॥३-१॥
अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् ॥३ -२॥
विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् ॥३ -३॥
हेतुदर्शनाच् च ॥३ -४॥
शिष्टाकोपे ऽविरुद्धम् इति चेत् ॥३ -५॥
न शास्त्रपरिमाणत्वात् ॥३ -६॥
अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् ॥३ -७॥
तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् ॥३ -८॥
शास्त्रस्था वा तन्निमित्तत्वात् ॥३ -९॥
चोदितं तु प्रतीयेताविरोधात् प्रमाणेन ॥३ -१०॥
प्रयोगशास्त्रम् इति चेत् ॥३ -११॥
नासन्नियमात् ॥३ -१२॥
अवाक्यशेषाच् च ॥३ -१३॥
सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च ॥३ -१४॥
अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् ॥३ -१५॥
अपि वा सर्व धर्मः स्यात् तन्न्यायत्वाद् विधानस्य ॥३ -१६॥
दर्शनाद् विनियोगः स्यात् ॥३ -१७॥
लिङ्गाभावाच् च नित्यस्य ॥३ -१८॥
आख्या हि देशसंयोगात् ॥३ -१९॥
न स्याद् देशान्तरेष्व् इति चेत् ॥३ -२०॥
स्याद्योगाख्या हि माथुरवत् ॥३ -२१॥
कर्मधर्मो वा प्रवणवत् ॥३ -२२॥
तुल्यं तु कर्तृधर्मेण ॥३ -२३॥
प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् ॥३ -२४॥
शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् ॥३ -२५॥
अन्यायश् चानेकशब्दत्त्वम् ॥३ -२६॥
तत्र तत्त्वम् अभियोगविशेषात् स्यात् ॥३ -२७॥
तदशक्तिश् चानुरूपत्वात् ॥३ -२८॥
एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् ॥३ -२९॥
प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् ॥३ -३०॥
अद्रव्यशब्दत्वात् ॥३ -३१॥
अन्यदर्शनाच् च ॥३ -३२॥
आकृतिस् तु क्रियार्थत्वात् ॥३ -३३॥
न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् ॥३ -३४॥
तदर्थत्वात् प्रयोगस्याविभागः ॥३ -३५॥
उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् ॥४-१॥
अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्वम् अविधायकत्वात् ॥४ -२॥
यस्मिन् गुणोपदेशः प्रधानतो ऽभिसम्बन्धः ॥४ -३॥
तत्प्रख्यञ् चान्यशास्त्रम् ॥४ -४॥
तद्व्यपदेशं च ॥४ -५॥
नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् ॥४ -६॥
तुल्यत्वात् क्रिययोर् न ॥४ -७॥
ऐकशब्द्ये परार्थवत् ॥४ -८॥
तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः ॥४ -९॥
बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः ॥४ -१०॥
प्रोक्षणीष्व् अर्थसंयोगात् ॥४ -११॥
तथानिर्मन्थ्ये ॥४ -१२॥
वैश्वदेवे विकल्प इति चेत् ॥४ -१३॥
न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य ॥४ -१४॥
मिथश् चानर्थसम्बन्धः ॥४ -१५॥
परार्थत्वाद् गुणानाम् ॥४ -१६॥
पूर्ववन्तो ऽविधानार्थास् तत्सामर्थ्यं समाम्नाये ॥४ -१७॥
गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति ॥४ -१८॥
तच्छेषो नोपपद्यते ॥४ -१९॥
अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् ॥४ -२०॥
कारणं स्याद् इति चेत् ॥४ -२१॥
आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते ॥४ -२२॥
तत्सिद्धिः ॥४ -२३॥
जातिः ॥४ -२४॥
सारूप्यात् ॥४ -२५॥
प्रशंसा ॥४ -२६॥
भूमा ॥४ -२७॥
लिङ्गसमवायात् ॥४ -२८॥
सन्दिग्धेषु वाक्यशेषात् ॥४ -२९॥
अर्थाद् वा कल्पनैकदेशत्वात् ॥४ -३०॥