अथातः शेषलक्षणम् ॥१ -१॥
शेषः परार्थत्वात् ॥१ -२॥
द्रव्यगुणसंस्कारेषु बादरिः ॥१ -३॥
कर्माण्यपि जैमिनिः फलार्थत्वात् ॥१ -४॥
फलं च पुरुषार्थत्वात् ॥१ -५॥
पुरुषश् च कर्मार्थत्वात् ॥१ -६॥
तेषाम् अर्थेन सबन्धः ॥१ -७॥
विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च ॥१ -८॥
अर्थलोपाद् अकर्मे स्यात् ॥१ -९॥
फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् ॥१ -१०॥
द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत ॥१ -११॥
अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् ॥१ -१२॥
एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् ॥१ -१३॥
सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् ॥१ -१४॥
चोदितेतुपरार्थत्वाद् यथाश्रुति प्रतीयेता ॥१ -१५॥
संस्काराद् वागुणानाम् अव्यवस्था स्यात् ॥१ -१६॥
व्यवस्थावार्थस्य श्रुतिसंयोगात् तस्य शब्द प्रमाणत्वात् ॥१ -१७॥
आनर्थक्यात्तदङ्गेषु ॥१ -१८॥
कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् ॥१ -१९॥
साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण ॥१ -२०॥
सन्दिग्धे तुब्यवायाद् वाक्यभेदः स्यात् ॥१ -२१॥
गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् ॥१ -२२॥
मिथश् चानर्थसम्वन्धात् ॥१ -२३॥
आनन्तर्यम् अचोदना ॥१ -२४॥
बाक्यानां च समाप्तत्वात् ॥१ -२५॥
शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असम्बन्धात् ॥१ -२६॥
व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन सम्बन्धाल्लक्षणार्था गुणश्रुतिः ॥१ -२७॥
अर्थाभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसम्बन्धो ऽर्थेन नित्यसंयोगात् ॥२-१॥
संस्कारकत्वाद् अचोदितेन स्यात् ॥२ -२॥
वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् ॥२ -३॥
गुणाद् वाप्य् अभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात् ॥२ -४॥
तथाहवानम् अपीति चेत् ॥२ -५॥
नकालविधिश् चोदितत्वात् ॥२ -६॥
गुणाभावात् ॥२ -७॥
लिङ्गाच् च ॥२ -८॥
विधिकोपश् चोपदेशे स्यात् ॥२ -९॥
तथोत्थानविसर्जने ॥२ -१०॥
सूक्तवाके च कालविधिः परार्थत्वात् ॥२ -११॥
उपदेशो वा याज्याशब्दो हि नाकस्मात् ॥२ -१२॥
सदेवतार्थस् तत्संयोगात् ॥२ -१३॥
प्रतिपत्तिर् इति चेत् स्विष्टकृद्वदुभयसंस्कारः स्यात् ॥२ -१४॥
कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् ॥२ -१५॥
यथार्थं वा शेषभूतसंस्कारात् ॥२ -१६॥
वचनाद् इति चेत् ॥२ -१७॥
प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः ॥२ -१८॥
लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समामनानम् ॥२ -१९॥
अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् ॥२ -२०॥
तदाख्यो वा प्रकरणोपपत्तिभ्याम् ॥२ -२१॥
अनर्थकश् चोपदेशः स्याद् असम्बन्धात् फलवता न ह्य् उपस्थानं फलवत् ॥२ -२२॥
सर्वेषां चोपदिष्टत्वात् ॥२ -२३॥
लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य ॥२ -२४॥
तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वात् ॥२ -२५॥
गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् ॥२ -२६॥
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् ॥२ -२७॥
यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति ॥२ -२८॥
पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् ॥२ -२९॥
अनयाद् वा पूर्वस्यानुपलक्षणम् ॥२ -३०॥
ग्रहणाद् वापनयः स्यात् ॥२ -३१॥
पात्नीवते तु पूर्ववत् ॥२ -३२॥
ग्रहणाद् वापनीतं स्यात् ॥२ -३३॥
त्वष्टारं तूपलक्षयेत् पानात् ॥२ -३४॥
अतुल्यत्वात् तु नैवं स्यात् ॥२ -३५॥
त्रिंशच् च परार्थत्वात् ॥२ -३६॥
वषट्कारश् च कर्तृवत् ॥२ -३७॥
छन्दः प्रतिषेधस् तु सर्वगामित्वात् ॥२ -३८॥
ऐन्द्राग्ने तु लिङ्गभाबात् स्यात् ॥२ -३९॥
एकस्मिन् वा देवतान्तराद् विभागवत् ॥२ -४०॥
छन्दश् च देवतावत् ॥२ -४१॥
सर्वेषु वाभावाद् एकच्छन्दसः ॥२ -४२॥
सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि ॥२ -४३॥
श्रुतेर् जाताधिकारः स्यात् ॥३-१॥
वेदो वा प्रायदर्शनात् ॥३ -२॥
लिङ्गाच् च ॥३ -३॥
धर्मोपदेशाच् च न हि द्रव्येण सम्बन्धः ॥३ -४॥
त्रयीविद्याख्या च तद्विद् धि ॥३ -५॥
व्यक्तिक्रमे यथाश्रुतीति चेत् ॥३ -६॥
न सर्वस्मिन् निवेशात् ॥३ -७॥
वेदसंयोगान् न प्रकरणेन बाध्यते ॥३ -८॥
गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः ॥३ -९॥
भूयस्त्वेनोभयश्रुति ॥३ -१०॥
असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् ॥३ -११॥
क्रमश् च देशसामान्यात् ॥३ -१२॥
आख्या चैवम तदर्थत्वात् ॥३ -१३॥
श्रुति -लिङ्ग -वाक्य -प्रकरण -स्थान -समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् ॥३ -१४॥
अहीनो वा प्रकरणाद् गौणः ॥३ -१५॥
असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत ॥३ -१६॥
द्वित्वबहुत्वयुक्तं वा चोदनात् तस्य ॥३ -१७॥
पक्षेणार्थकृतस्येति चेत् ॥३ -१८॥
नकृतेर् एकसंयोगात् ॥३ -१९॥
जाघनी चैकदेशत्वात् ॥३ -२०॥
चोदना वापूर्वत्वात् ॥३ -२१॥
एकदेश इति चेत् ॥३ -२२॥
न प्रकृतेर् अशास्त्रनिष्पत्तेः ॥३ -२३॥
सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् ॥३ -२४॥
उत्कर्षो वा ग्रहणाद् विशेषस्य ॥३ -२५॥
कर्तृतो वा विशेषस्य तन्निमित्तत्वात् ॥३ -२६॥
क्रतुतो वार्थवादान् उपपत्तेः स्यात् ॥३ -२७॥
संस्थाश् च कर्तृवद् धारणार्थाविशेषात् ॥३ -२८॥
उक्थ्यादिषु वार्थस्य विद्यमानत्वात् ॥३ -२९॥
अविशेषात् स्तुतिर् व्यर्थेति चेत् ॥३ -३०॥
स्याद् अनित्यत्वात् ॥३ -३१॥
सङ्ख्यायुक्तं क्रतोः प्रकरणात् स्यात् ॥३ -३२॥
नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वात् ॥३ -३३॥
पौष्णं पैषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ ॥३ -३४॥
तत्सर्वार्थम् अविशेषात् ॥३ -३५॥
चरौवार्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात् पशौ न स्यात् ॥३ -३६॥
चराव् अपीति चेत् ॥३ -३७॥
न पक्तिनामत्वात् ॥३ -३८॥
एकस्मिन्न् एकसंयोगात् ॥३ -३९॥
धर्माविप्रतिषेधाच् च ॥३ -४०॥
अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात ॥३ -४१॥
लिङ्गदर्शनाच् च ॥३ -४२॥
वचनात् सर्वपेषणं तं प्रति शास्त्रवत्वाद् अर्थाभावाद् विचराव् अपेषणं भवति ॥३ -४३॥
एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नव् अदुभयोर् न स्याद् अचोदितत्वात् ॥३ -४४॥
हेतुमात्रम् अदन्तत्वम् ॥३ -४५॥
वचनं परम् ॥३ -४६॥
निवीताम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् ॥४-१॥
अपदेशो वार्थस्य विद्यमानतत्त्वात् ॥४ -२॥
विधिस्तवर्पूर्वत्वात् स्यात् ॥४ -३॥
स प्रायात् कर्मधर्मः स्यात् ॥४ -४॥
वाक्यशेषत्वात् ॥४ -५॥
तत्प्रकरणे यत् तत् संयुक्तम् अविप्रतिषेधात् ॥४ -६॥
तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् ॥४ -७॥
अर्थवादो वा प्रकरणात् ॥४ -८॥
विधिना चैकवाक्यत्वात् ॥४ -९॥
दिग्विभागश् च तद्वत् सम्बन्धस्यार्थहेतुत्वात् ॥४ -१०॥
परुषि दितपूर्णघृतविदग्धं च तद्वत् ॥४ -११॥
अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् ॥४ -१२॥
विधिर् वा संयोगान्तरात् ॥४ -१३॥
अहीनवत् पुरुषस् तदर्थत्वात् ॥४ -१४॥
प्रकरणविशेषाद् वा तद्युक्तस्य संस्कारो द्रव्यवत् ॥४ -१५॥
व्यपदेशाद् अपकृष्येत ॥४ -१६॥
शंयौ च सर्वपरिदानात् ॥४ -१७॥
प्रागपरोधान् मलवद् वाससः ॥४ -१८॥
अन्नप्रतिषेधाच् च ॥४ -१९॥
अप्रकरणे तु तद्वर्मस् ततो विशेषात् ॥४ -२०॥
अद्रव्यत्वात् तु शेषः स्यात् ॥४ -२१॥
वेदसंयोगात् ॥४ -२२॥
द्रव्यसंयोगाच् च ॥४ -२३॥
स्याद् वास्य संयोगवत् फलेन सम्बन्धस् तस्मात् कर्मैतिशायनः ॥४ -२४॥
शेषाः प्रकरणे ऽविशेषात् सर्वकर्मणाम् ॥४ -२५॥
होमास् तु व्यवतिष्ठेर् अन्नाहवनीयसंयोगात् ॥४ -२६॥
शेषश् च समाख्यानात् ॥४ -२७॥
दोषात् त्व् इष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिक न दोषः स्यात् ॥४ -२८॥
अर्थवादो वानुपपातत् तस्माद् यज्ञे प्रतीयेत ॥४ -२९॥
अचोदित च कर्मभेदात् ॥४ -३०॥
लिङ्गाद् आर्त्विजे स्यात् ॥४ -३१॥
पानव्यापच् च तद्वत् ॥४ -३२॥
दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् ॥४ -३३॥
तत्सर्वत्राविशेषात् ॥४ -३४॥
स्वामिनो वा तदर्थत्वात् ॥४ -३५॥
लिङ्गदर्शनाच् च ॥४ -३६॥
सर्वप्रदानं हविषस् तदर्थत्वात् ॥४ -३७॥
निरवदानात् तु शेषः स्यात् ॥४ -३८॥
उपायो वा तदर्थत्वात् ॥४ -३९॥
कृतत्वात् तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् ॥४ -४०॥
शेषदर्शनाच् च ॥४ -४१॥
अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात् ॥४ -४२॥
संस्कृतत्वाच् च ॥४ -४३॥
सर्वेभ्यो वा कारणाविशेषात् संस्कारस्य तदर्थत्वात् ॥४ -४४॥
लिङ्गदर्शनाच् च ॥४ -४५॥
एकस्माच् चेद् यथाकाम्यम् अविशेषात् ॥४ -४६॥
मुख्याद् वा पूर्वकालत्वात् ॥४ -४७॥
भक्षाश्रवणाद् दानशब्दः परिक्रये ॥४ -४८॥
तत्संस्तवाच् च ॥४ -४९॥
भक्षार्थो वा द्रव्ये समत्वात् ॥४ -५०॥
व्यादेशाद् दानसंस्तुतिः ॥४ -५१॥
आज्याच् च सर्वसंयोगात् ॥५-१॥
कारणाच् च ॥५ -२॥
एकस्मिन्त् समवत्तशब्दात् ॥५ -३॥
आज्ये च दर्शनात्स्विष्टकृदर्थवदस्य ॥५ -४॥
अशेषत्वात् तु नैवं स्यात् सर्वादानाद् अशेषता ॥५ -५॥
साधारण्यान् न ध्रुवायां स्यात् ॥५ -६॥
अवत्तत्वाच् च जुह्वां तस्य च होमसंयोगात् ॥५ -७॥
चमसवद् इति चेत् ॥५ -८॥
न चोदनाविरोधाद् धविः प्रकल्पनात्वाच् च ॥५ -९॥
उत्पन्नाधिकारात् सति सर्ववचनम् ॥५ -१०॥
जातिविशेषात् परम् ॥५ -११॥
अन्त्यम् अरेकार्थे ॥५ -१२॥
साकम्प्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् ॥५ -१३॥
सौत्रामण्यां च ग्रहेषु ॥५ -१४॥
तद्वच् च शेषवचनम् ॥५ -१५॥
द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् ॥५ -१६॥
अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्ठत्वात् ॥५ -१७॥
ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् ॥५ -१८॥
सोमे ऽवचनाद् भक्षो न विद्यते ॥५ -१९॥
स्याद् वान्यार्थदर्शनात् ॥५ -२०॥
वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः ॥५ -२१॥
चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् ॥५ -२२॥
उद्गातृचमसमेकः श्रुतिसंयोगात् ॥५ -२३॥
सर्वे वा सर्वसंयोगात् ॥५ -२४॥
स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः ॥५ -२५॥
सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् ॥५ -२६॥
ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् ॥५ -२७॥
हारियोजने वा सर्वसंयोगात् ॥५ -२८॥
चमसिनां वा सन्निधानात् ॥५ -२९॥
सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः ॥५ -३०॥
वषट्काराच् च भक्षयेत् ॥५ -३१॥
होमाभिषबाभ्यां च ॥५ -३२॥
प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे ॥५ -३३॥
स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् ॥५ -३४॥
चमसे चान्यदर्शनात् ॥५ -३५॥
एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् ॥५ -३६॥
होता वा मन्त्रवर्णात् ॥५ -३७॥
वचनाच् च ॥५ -३८॥
कारणानुपूर्व्याच् च ॥५ -३९॥
वचनाद् अनुज्ञातभक्षणम् ॥५ -४०॥
तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेलिङ्गात् ॥५ -४१॥
तत्रार्थात् प्रतिवचनम् ॥५ -४२॥
तदेकत्राणां समवायात् ॥५ -४३॥
याज्यापनयेनापनीतो भक्षः प्रवरवत् ॥५ -४४॥
यष्टुर् वा कारणागमात् ॥५ -४५॥
प्रवृत्तत्वात् प्रवरस्यानपायः ॥५ -४६॥
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् ॥५ -४७॥
इज्याबिकारो वा संस्कारस्य तदर्थत्वात् ॥५ -४८॥
होमात् ॥५ -४९॥
चमसैश् च तुल्यकालत्वात् ॥५ -५०॥
लिङ्गदर्शनाच् च ॥५ -५१॥
अनुप्रसर्पिषु सामान्यात् ॥५ -५२॥
ब्रह्मणा वा तुल्यशब्दत्वात् ॥५ -५३॥
तत् सर्वार्थम् अप्रकरणात् ॥६-१॥
प्रकृतौ वाद्विरुक्तत्वात् ॥६ -२॥
तद्वर्जं तु वचनप्राप्ते ॥६ -३॥
दर्शनाद् इति चेत् ॥६ -४॥
न चोदनैकार्थ्यात् ॥६ -५॥
उत्पत्तिर् इति चेत् ॥६ -६॥
न तुल्यत्वात् ॥६ -७॥
चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः ॥६ -८॥
प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् ॥६ -९॥
नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् ॥६ -१०॥
इष्टयर्थमग्न्याधेयं प्रकरणात् ॥६ -११॥
न वा तासां तदर्थत्वात् ॥६ -१२॥
लिङ्गदर्शनाच् च ॥६ -१३॥
तत्प्रकृत्यर्थं यथान्ये ऽनारभ्यवादाः ॥६ -१४॥
सर्वार्थ वाग्न्यधानस्य स्वकालत्वात् ॥६ -१५॥
तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् ॥६ -१६॥
न वा तासां तदर्थत्वात् ॥६ -१७॥
तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् ॥६ -१८॥
स्थानाच् च पूर्वस्य ॥६ -१९॥
श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था ॥६ -२०॥
तेनोत्कृष्टस्य कालविधिर् इति चेत् ॥६ -२१॥
नैकदेशत्वात् ॥६ -२२॥
अर्थेनेति चेत् ॥६ -२३॥
न श्रुतिविप्रतिषेधात् ॥६ -२४॥
स्थानात् तु पूर्वस्य संस्कारस्य तदर्थत्वात् ॥६ -२५॥
लिङ्गदर्शनाच् च ॥६ -२६॥
अचोदना गुणार्थेन ॥६ -२७॥
दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् ॥६ -२८॥
प्रकरणविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् ॥६ -२९॥
तद्वत् सवनान्तरे ग्रहाम्नानम् ॥६ -३०॥
रशना च लिङ्गदर्शनात् ॥६ -३१॥
आराच् छिष्टम् असंयुक्तम् इतरैः सन्निधानात् ॥६ -३२॥
संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् ॥६ -३३॥
निर्देशाद् व्यवतिष्ठेत ॥६ -३४॥
अग्न्यङ्गम् अप्रकरणे तद्वत् ॥६ -३५॥
नैमित्तिकम् अतुल्यत्वाद् असमानविथानां स्यात् ॥६ -३६॥
प्रतिनिधिश् च मिमांसा -३ ,६ -३७॥
तद्वत्प्रयोजनैकत्वात् ॥६ -३८॥
अशास्त्रलक्षणत्वाच्च ॥६ -३९॥
नियमार्था गुणश्रुतिः ॥६ -४०॥
संस्थास् तु समानविधानाः प्रकरणाविशेषात् ॥६ -४१॥
व्यपदेशश् च तुल्यवत् ॥६ -४२॥
विकासस् तु कामसंयोगे नित्यस्य समत्वात् ॥६ -४३॥
अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति ॥६ -४४॥
बचनात् तु समुच्चयः ॥६ -४५॥
प्रतिषेधाच् च पूर्वलिङ्गनाम् ॥६ -४६॥
गुणविशेषाद् एकस्य व्यपदेशः ॥६ -४७॥
प्रकरणविशेषाद् असंयुक्तं प्रधानस्य ॥७-१॥
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् ॥७ -२॥
आरादपीति चेत् ॥७ -३॥
न तद्वाक्यं हि तदर्थत्वात् ॥७ -४॥
लिङ्गदर्शनाच् च ॥७ -५॥
फलसंयोगात् तु स्वामियुक्तं प्रधानस्य ॥७ -६॥
चिकीर्षयो च संयोगात् ॥७ -७॥
तथाभिधानेन ॥७ -८॥
तद्युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् ॥७ -९॥
गुणाभिधानात् सर्वार्थम् अभिधानम् ॥७ -१०॥
दीक्षादक्षिणं तु वचनात् प्रधानस्य ॥७ -११॥
निवृत्तिदर्शनाच्च ॥७ -१२॥
तथा यूपस्य वेदि ॥७ -१३॥
देशमात्रं वा शिष्टेनैकवाक्यत्वात् ॥७ -१४॥
सामधेनीस् तद् अन्वाहुर् इति हविर् द्धानयोर् वचनात् सामधेनीनाम् ॥७ -१५॥
देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य ॥७ -२६॥
समाख्यानं च तद्वत् ॥७ -१७॥
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् ॥७ -१८॥
उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य तस्माद् अन्यः स्वयं वा स्यात् ॥७ -१९॥
अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यग् आत्मनि ॥७ -२०॥
तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात् ॥७ -२१॥
अपि वा श्रुति भेदात् प्रतिनामधेयं स्युः ॥७ -१२॥
एकस्य कर्मभेदाद् इति चेत् ॥७ -१३॥
नोत्पत्तौ हि ॥७ -१४॥
चमसाध्वर्यवश् च तैर् व्यपदेशात् ॥७ -१५॥
उत्पत्तौ तु बहुश्रुतेः ॥७ -१६॥
दशत्वं लिङ्गदर्शनात् ॥७ -१७॥
शमिता च शब्दभेदात् ॥७ -१८॥
प्रकरणाद् वोत्पत्त्यसंयोगात् ॥७ -२९॥
उपगाश् च लिङ्गदर्शनात् ॥७ -३०॥
विक्रयी त्वन्यः कर्मणो ऽचोदित्वात् ॥७ -३१॥
कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् ॥७ -३२॥
न वा परिसंख्यानात् ॥७ -३३॥
पक्षेणेति चेत् ॥७ -३४॥
न सर्वेषाम् अधिकारः ॥७ -३५॥
नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् ॥७ -३६॥
उक्त्वा च यजमानत्वं तेषां दीक्षाबिधानात् ॥७ -३७॥
स्वामिसप्तदशाः कर्मसामान्यात् ॥७ -३८॥
ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् ॥७ -३९॥
तत्सयोगात् कर्मणो व्यवस्था स्यात् संयोगास्यार्थवत्वात् ॥७ -४०॥
तस्योपदेशसमाख्यानेन निर्देशः ॥७ -४१॥
तद्वच् च लिङ्गदर्शम् ॥७ -४२॥
प्रैषानुवचनं मैत्रावरुणस्योपदेशात् ॥७ -४३॥
पुरो ऽनुवाक्याधिकारो वा प्रैषसन्निधानात् ॥७ -४४॥
प्रातर् अनुवाके च होतृदर्शनात् ॥७ -४५॥
चमसांश्चमसाध्वर्यवः सामाख्यानात् ॥७ -४६॥
अध्वर्युर्वा तन्न्यायत्वात् ॥७ -४७॥
चमसे चान्यदर्शनात् ॥७ -४८॥
अशक्तौ ते प्रतीयेरन् ॥७ -४९॥
वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः ॥७ -५०॥
तद्गुणाद् वा स्वधर्मः स्याद् अधिकारसामथ्यात् सहाङ्गैर् अव्यक्तः शेषे ॥७ -५१॥
स्वामिकर्मपरिक्रयः कर्मणस् तदर्थत्वात् ॥८-१॥
वचनाद् इतरेषां स्यात् ॥८ -२॥
संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् ॥८ -३॥
याजमानास् तु तत्प्रधानत्वात् कर्मवत् ॥८ -४॥
व्यपदेशाच् च ॥८ -५॥
गुणत्त्वे तस्य निर्देशः ॥८ -६॥
चोदना प्रति भावाच् च ॥८ -७॥
अतुल्यत्वाद् असमानविधानाः स्युः ॥८ -८॥
तपश् च फलसिद्धित्वाल् लोकवत् ॥८ -९॥
वाक्यशेषश् च तद्वत् ॥८ -१०॥
वचनाद् इतरेषां स्यात् ॥८ -११॥
गुणत्वाच् च वेदेन न व्यवस्था स्यात् ॥८ -१२॥
तथा कामो ऽर्थसंयोगात् ॥८ -१३॥
व्यपदेशाद् इतरेषां स्यात् ॥८ -१४॥
मन्त्राश् चाकर्मकरणास् तद्वत् ॥८ -१५॥
विप्रयोगे च दर्शनात् ॥८ -१६॥
द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् ॥८ -१७॥
ज्ञाते च वाचनं न ह्य् अविद्वान् विहितो ऽस्ति ॥८ -१८॥
याजमाने समाख्यानात् कर्माणि याजमानं स्युः ॥८ -१९॥
अध्वर्युर् वा तदर्थो हि न्यायपूर्वे समाख्यानम् ॥८ -२०॥
विप्रतिषेधे करणः समावायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् ॥८ -२१॥
प्रैषेणु च पराधिकारात् ॥८ -२२॥
अध्वर्युस् तु दर्शनात् ॥८ -२३॥
गौणो वा कर्मसामान्यात् ॥८ -२४॥
ऋत्विक् फलं करणेष्व् अर्थत्त्वात् ॥८ -२५॥
स्वामिनो वा तदर्थत्वात् ॥८ -२६॥
लिङ्गदर्शनाच् च ॥८ -२७॥
कर्मार्थ फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् ॥८ -२८॥ व्यपदेशाच् च ॥८ -२९॥
द्रव्यसंस्कारः प्रकारणाविशेषात् सर्वकर्मणाम् ॥८ -३०॥
निर्देशात् तु विकृताव् अपूर्वस्यानधिकारः ॥८ -३१॥
विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे ॥८ -३२॥
अपनयस् त्व् एकदेशस्य विद्यमानसंयोगात् ॥८ -३३॥
विकृतौ सर्वार्थः शेषः प्रकृतिवत् ॥८ -३४॥
मुख्यार्थो वाङ्गस्याचोदितत्वात् ॥८ -३५॥
सन्निधानाविशेषाद् असम्भवेद् अतदङ्गानाम् ॥८ -३६॥
आधाने ऽपि तथेति चेत् ॥८ -३७॥
नाप्रकरणत्वाद् अङ्गस्यातन्निमित्तत्वात् ॥८ -३८॥
तत्काले वा लिङ्गदर्शनात् ॥८ -३९॥
सर्वेषां वाविशेषात् ॥८ -४०॥
न्यायोक्ते लिङ्गदर्शनम् ॥८ -४१॥
मांसं तु सवनीयानां चोदनाविशेषात् ॥८ -४२॥
भक्तिर् असन्निधावन्याय्येति चेत् ॥८ -४३॥
स्यात् प्रकृतिलिङ्गाद् वैराजवत् ॥८ -४४॥