श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात् ॥१ -१॥
अर्थाच् च ॥१ -२॥
अनियमो ऽन्यत्र ॥१ -३॥
क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् ॥१ -४॥
अशाब्द इति चेत् स्याद् वाक्यशब्दत्वात् ॥१ -५॥
अर्थकृते वानुमानं स्यात् क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन सम्बन्धस् तस्मात् स्वशब्दम् उच्येत ॥१ -६॥
तथा चान्यार्थदर्शनम् ॥१ -७॥
प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात् ॥१ -८॥
सर्वम् इति चेत् ॥१ -९॥
नाकृतत्वात् ॥१ -१०॥
क्रत्वन्तरवद् इति चेत् ॥१ -११॥
नासमवायात् ॥१ -१२॥
स्थानाच् चोत्पत्तिसंयोगात् ॥१ -१३॥
मुख्यक्रमेण वाङ्गानां तदर्थत्वात् ॥१ -१४॥
प्रकृतौ तु स्वशब्दत्वाद्याक्रमं प्रतीयेत ॥१ -१५॥
मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः ॥१ -१६॥
तद्वचनाद् विकृतौ यथा प्रधानं स्यात् ॥१ -१७॥
विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति ॥१ -१८॥
विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथा शिष्टम् ॥१ -१९॥
अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात् ॥१ -२०॥
कालोत्कर्ष इति चेत् ॥१ -२१॥
न तत्सम्बन्धात् ॥१ -२२॥
अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात् ॥१ -२३॥
तदादि वाभिसम्बन्धात् तदन्तम् अपकर्षे स्यात् ॥१ -२४॥
प्रवृत्या कृतकालानाम् ॥१ -२५॥
शब्दविप्रतिषेधाच् च ॥१ -२६॥
असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत . मिमांसा -५ ,१ -२७॥
प्रासङ्गिकं च नोत्कर्षेद् असंयोगात् ॥१ -२८॥
तथापूर्वम् ॥१ -२९॥
सान्तपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात् ॥१ -३०॥
अञ्यवायाच् च मिमांसा -५ ,१ -३१॥
असम्बन्धात् तु नोत्कर्षेत् ॥१ -३२॥
प्रापणाच् च निमित्तस्य ॥१ -३३॥
सम्बन्धात् सवनोत्कर्मः ॥१ -३४॥
षोडशी चोक्थ्यसंयोगात् ॥१ -३५॥
सन्निपाते प्राधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात् ॥२-१॥
सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् ॥२ -२॥
कारणाद् अभ्यावृत्तिः ॥२ -३॥
मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन ॥२ -४॥
सर्वाणि त्व् एककार्यत्वादेषां तद्गुणत्वात् ॥२ -५॥
संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात् ॥२ -६॥
वचनात् तु परिव्याणान्तम् अञ्जनादिः स्यात् ॥२ -७॥
कारणाद्वा (न ) वसर्गः स्याद् यथा पात्रवृद्धिः ॥२ -८॥
न वा शब्दकृतत्वान् न्यायमात्रमितरदर्थात् पात्रविवृद्धिः ॥२ -९॥
पशुगणे तस्यतस्यापवर्जयेत् पश्वैकत्वात् ॥२ -१०॥
दैवतैर् वैककर्म्यात् ॥२ -११॥
मन्त्रस्य चार्थवत्त्वात् ॥२ -१२॥
नानाबीजेष्वेकमुलूखलं विभवात् ॥२ -१३॥
विवृद्धिर् वा नियामादानुपूर्व्यस्य तदर्थत्वात् ॥२ -१४॥
एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात् ॥२ -१५॥
विकारे त्व् अनूयाजानां पात्रभेदो ऽर्थभेदात् स्यात् ॥२ -१६॥
प्रकृतेः पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम् ॥२ -१७॥
मुख्यानन्तर्यमात्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात् ॥२ -१८॥
अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात् ॥२ -१९॥
तथा चान्यार्थदर्शनम् ॥२ -२०॥
कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् नयायमात्रमितरत् ॥२ -२१॥
प्रकृताच् च पुरस्ताद् यत् ॥२ -२२॥
सन्निपातश् चेद् यथोक्तमन्ते स्यात् ॥२ -२३॥
विवृद्धिः कर्मभेदात् पृषदाज्यवत् तस्यतस्योपदिश्येत ॥३-१॥
अपि वा सर्वसङ्ख्यत्वाद् विकारः प्रतीयेत ॥३ -२॥
स्वस्थानात् तु विवृध्येरन् कृतानुपूर्व्यत्वात् ॥३ -३॥
समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर् द्यावापृथिञ्योरन्तरालं समर्हणात् ॥३ -४॥
तच्छब्दो वा ॥३ -५॥
उष्णिक्ककुभोरन्ते दर्शनात् ॥३ -६॥
स्तोमविवृद्धौ वहिष्पवमाने पुरस्तात् पर्यासाद् आगन्तवः स्युस् तथा हि दृष्टं द्वादशाहे ॥३ -७॥
पर्यास इति चान्ताख्या ॥३ -८॥
अन्ते वा तदुक्तम् ॥३ -९॥
वचनात् तु द्वादशाहे ॥३ -१०॥
अतद्विकारश् च ॥३ -११॥
तद्विकारे ऽप्य् अपूर्वत्वात् ॥३ -१२॥
अन्ते तूत्तरयोर् दध्यात् ॥३ -१३॥
अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात् ॥३ -१४॥
ग्रहेष्टकम् औपानुवाक्यं सवनचितिशेषः स्यात् ॥३ -१५॥
क्रत्वग्निशेषा वा चोदितत्वाद् अचोदनानुपूर्वस्य ॥३ -१६॥
अन्ते स्युर् अव्यवायात् ॥३ -१७॥
लिङ्गदर्शनाच् च ॥३ -१८॥
मध्यमायां तु वचनाद् ब्राह्मणवत्यः ॥३ -१९॥
प्राग्लोकम्पृणायास् तस्याः सम्पूरणार्थत्वात् ॥३ -२०॥
संस्कृते कर्म संस्काराणां तदर्थत्वात् ॥३ -२१॥
अनन्तरं व्रतं तद्भूतत्वात् ॥३ -२२॥
पूर्वं च लिङ्गदर्शनात् ॥३ -२३॥ अर्थवादो वार्थस्य विद्यमानत्वात् ॥३ -२४॥
न्यायविप्रतिषेधाच् च ॥३ -२५॥
सञ्चिते त्व् अग्निचिद् युक्तं प्रापणान् निमित्तस्य ॥३ -२६॥
क्रत्वन्ते वा प्रयोगवचनाभावात् ॥३ -२७॥
अग्नेः कर्मत्वनिर्देशात् ॥३ -२८॥
परेणावेदनाद् दीक्षितः स्यात् सर्वैर् दीक्षाभिसम्बन्धात् ॥३ -२९॥
इष्ट्यन्ते वा तदर्था ह्य् अविशेषार्थसन्वन्धात् ॥३ -३०॥
समाख्यानं च तद्वत् ॥३ -३१॥
अङ्गवत् क्रतूनाम् आनुपूर्व्यम् ॥३ -३२॥
न वासम्बन्धात् ॥३ -३३॥
काम्यत्वाच् च ॥३ -३४॥
आनर्थक्यान् नेति चेत् ॥३ -३५॥
स्याद् विद्यार्थत्वाद् यथा परेषु सर्वस्वारात् ॥३ -३६॥
य एतेनेत्य् अग्निष्टोमः प्रकरणात् ॥३ -३७॥
लिङ्गाच् च ॥३ -३८॥
अथान्येनेति संस्थानां सन्निधानात् ॥३ -३९॥
तत्प्रकृतेर् वापत्तिविहारौ न तुल्येषूपपद्यते ॥३ -४०॥
प्रशसा च विहरणाभावात् ॥३ -४१॥
विधिप्रत्ययाद् वा न ह्य् अकस्मात् प्रशंसा स्यात् ॥३ -४२॥
एकस्तोमे वा क्रतुसंयोगात् ॥३ -४३॥
सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् ॥३ -४४॥
क्रमकोयो ऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च ॥४-१॥
अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्या स्यात् ॥४ -२॥
यथारप्रदानं वा तदर्थत्वात् ॥४ -३॥
लिङ्गदर्शनाच् च ॥४ -४॥
वचनाद् इष्टिपूर्वत्वम् ॥४ -५॥
सोमश् चैकेषाम् अग्नयाधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् ॥४ -६॥
तदर्थवचनाच् च नाविशेषात् तदर्थत्वं ॥४ -७॥
अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् ॥४ -८॥
इष्टिर् अयक्ष्यमाणस्य तदर्थ्ये न सोमपूर्वत्वम् ॥४ -९॥
उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् ॥४ -१०॥
पौर्णमासी वा श्रुतिसंयोगात् ॥४ -११॥
सर्वस्य वैककर्म्यात् ॥४ -१२॥
स्याद् वा विधिस् तदर्थेन ॥४ -१३॥
प्रकरणात् तु कालः स्यात् ॥४ -१४॥
स्वकाले स्याद् अविप्रतिषेधात् ॥४ -१५॥
अपनयो वाधानस्य सर्वकालत्वात् ॥४ -१६॥
पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् ॥४ -१७॥
एकं वा शब्दसामर्थ्यात् प्राक् कृत्स्नविधानम् ॥४ -१८॥
पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् ॥४ -१९॥
आज्यमपीति चेत् ॥४ -२०॥
न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् ॥४ -२१॥
विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् ॥४ -२२॥
द्वैयहकाल्ये तु यथान्यायम् ॥४ -२३॥
वचनाद् वैककाल्यं स्यात् ॥४ -२४॥
सन्नाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत् ॥४ -२५॥
तथा सोमविकारा दर्शपूर्णमासाभ्याम् ॥४ -२६॥