संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तचत्वारिंशः पटलः| महामृत्युञ्जयध्यानम् सप्तचत्वारिंशः पटलः रूद्राण्या रूद्रस्य व मन्त्रोद्धारः रूद्रस्य एकपञ्चाशनामानि रुद्राणीनामानि रूद्र ध्यानम् रूद्रस्य पीठशक्तयः शक्त्यर्चनविधानम् रूद्राणीध्यानम् श्रीकण्ठन्यासः पञ्चमूर्तिन्यासः पञ्चमुखन्यासः सदाशिवध्यानमानसोपचारञ्ज सदाशिवस्तोत्रम् मृत्युञ्जयविधानम् पीठन्यासः मृत्युञ्जयऋष्यादिन्यासः महामृत्युञ्जयध्यानम् सप्तचत्वारिंशः पटलः - महामृत्युञ्जयध्यानम् रूद्राणीरूद्रयो पूजाप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल महामृत्युञ्जयध्यानम् Translation - भाषांतर इन्द्वर्कानललोचनं स्मितमुखं पद्मद्वयान्तास्पदंमुद्रापाशमृगाक्षूत्रविलसत्पाणिं हिमांशुच्छविम् ।कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलंकान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॥१७१॥एवं ध्यात्वा मानसोपचारद्रव्यैः प्रपूजयेत् ।अर्घ्यस्थापनकृत्य तत्तन्मन्त्रेण साधकः ॥२७२॥पूजयेत्पीठ मन्वन्ता तत्तन्मन्त्रेण साधकः ।पुनर्ध्यात्वा समावाह्य मूलमन्त्रेण मन्त्रवित् ॥२७३॥शिखायै वषडित्यादि सैं बीजं तदनन्दरम् ।कवचाय पदस्यान्ते तारबीजं समुच्चरेत् ॥२७७॥सों बीजं पूर्वमुच्चार्य नेत्रत्रयाय इत्यपि ।वौषडादिमध्यपदं चतुर्दिक्षु ततः परम् ॥२७८॥सश्चान्तेऽस्त्राय शब्दान्ते फडित्येव समर्चयेत् ।षडङुनि पूजयित्वा तद्बहिः प्रतिपूजयेत् ॥२७९॥इन्द्रादींल्लोकपालांश्च वज्रादींश्च तथा प्रभो ।धूपदीपादिनैवेद्यपानादीनि प्रदापयेत् ॥२८०॥विधिना वादनं कुर्यान्मृञ्जयसुतोषणात् ।विसर्जनान्तं यत्कर्म समाप्य विधिनामुना ॥२८१॥संहारमुद्रया चैव ह्रदये चानयेद् बुधः ।प्रसन्नह्रदयो भूत्वा चरणोदकमापिबेत् ॥२८२॥एतन्मात्रेण देवेश सर्वसिद्धिं समाप्नुयात् ।पिबामि चरणद्वन्द्वाम्भोजनिःसृतकं भजे ॥२८३॥अमरत्वं सदा देहि मृत्युञ्जय नमोऽस्तुते ॥२८४॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे मन्त्रप्रकाशो नाम सप्तचत्वारिंशः पटलः ॥४७॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP