संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तचत्वारिंशः पटलः| शक्त्यर्चनविधानम् सप्तचत्वारिंशः पटलः रूद्राण्या रूद्रस्य व मन्त्रोद्धारः रूद्रस्य एकपञ्चाशनामानि रुद्राणीनामानि रूद्र ध्यानम् रूद्रस्य पीठशक्तयः शक्त्यर्चनविधानम् रूद्राणीध्यानम् श्रीकण्ठन्यासः पञ्चमूर्तिन्यासः पञ्चमुखन्यासः सदाशिवध्यानमानसोपचारञ्ज सदाशिवस्तोत्रम् मृत्युञ्जयविधानम् पीठन्यासः मृत्युञ्जयऋष्यादिन्यासः महामृत्युञ्जयध्यानम् सप्तचत्वारिंशः पटलः - शक्त्यर्चनविधानम् रूद्राणीरूद्रयो पूजाप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल शक्त्यर्चनविधानम् Translation - भाषांतर मणिपूरे दृढो याति सत्यं सत्यं कुलेश्वर ।शक्त्यर्च्चनविधिं वक्ष्ये मूलमन्त्रेण पूजनम् ॥१०९॥सर्वत्र कारयेन्मन्त्री अष्टैश्वर्यजयाय च ।आदौ ऋषिन्यासकार्यं वक्ष्यामि श्रृणु तत्त्वतः ॥११०॥शिरसीह रुद्रशक्तिर्महाविष्णुपदं ततः ।ऋषये नम उच्चार्य मुखे हस्तं नियोजयेत् ॥१११॥पङिक्तछन्दसे नमश्च ह्रदि हस्तं नियोजयेत् ।महारुद्राणीति पदं लाकिनीपदमेव च ॥११२॥त्रिशक्त्यन्ते महाविद्या देवतायै नमस्ततः ।गुह्ये ॐ पदमुचार्य निजबीजाय ते नमः ॥११३॥सर्वाङे सकलायैव वज्राय कीलकाय च ।नमः पदं समुच्चार्य ऋष्यादिन्यासमेव च ॥११४॥रुक्तवत्सकलं कार्यं कराङुन्यासकर्मणि ।आदा वृष्यादिकन्यासः करशुद्धिस्ततः परम् ॥११५॥अङ्गलिव्यापकन्यासो ह्रदादिन्यास एव च ।रुद्रशक्तिमहाषोढान्यासञ्च तदनन्तरम् ॥११६॥मन्त्रयासं ततः कृत्वा व्यापकन्यासमाचरेत् ।तालयञ्च दिग्बन्धः प्राणायामस्ततः परम् ॥११७॥ध्यानं कुर्याद्विशेषेण रुद्रशक्त्या महाप्रभो ॥११८॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP