संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तचत्वारिंशः पटलः| रूद्रस्य एकपञ्चाशनामानि सप्तचत्वारिंशः पटलः रूद्राण्या रूद्रस्य व मन्त्रोद्धारः रूद्रस्य एकपञ्चाशनामानि रुद्राणीनामानि रूद्र ध्यानम् रूद्रस्य पीठशक्तयः शक्त्यर्चनविधानम् रूद्राणीध्यानम् श्रीकण्ठन्यासः पञ्चमूर्तिन्यासः पञ्चमुखन्यासः सदाशिवध्यानमानसोपचारञ्ज सदाशिवस्तोत्रम् मृत्युञ्जयविधानम् पीठन्यासः मृत्युञ्जयऋष्यादिन्यासः महामृत्युञ्जयध्यानम् सप्तचत्वारिंशः पटलः - रूद्रस्य एकपञ्चाशनामानि रूद्राणीरूद्रयो पूजाप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल रूद्रस्य एकपञ्चाशनामानि Translation - भाषांतर पञ्चाशदेकशक्तीनां तथा श्रृणु प्रभो ।सर्वेषामधिधानान्ते ईशाय नम उच्चरेत् ॥३९॥एकैकं मातृकावर्णं नाम्न आद्ये नियोजयेत् ।शक्तियुक्तिं सदा नाम ईशान्तं सन्त्यजेत् तथा ॥४०॥भेदने शक्तियुक्तस्तु न्यासं कुर्यान्महायतिः ।कुशासने सिद्धिहेतोश्चैलाजिनकुशोत्तरम् ॥४१॥बद्धैकमासनं योगी न्यासजालं समाचरेत् ।अथवा द्वीपिचर्मादि कोमलाद्यासनेऽपि वा ॥४२॥योगाभ्यासी न्यासजालं कृत्वा सावभयो भवेत् ।भद्रकाली गृहे स्थित्वा ये कुर्वन्ति निरन्तरम् ॥४३॥महान्यासं महादेव तत्क्षणादमरो भवेत् ।आयुरोग्यसम्पत्तिं सम्प्राप्नोति महाश्रियम् ॥४४॥समायाति मम स्थाने न्यासयोगप्रसादतः ।न्यासधारणयोगेन मणिपूरे ह्रदो भवेत् ॥४५॥आदौ तन्नाम वक्तव्यं पश्चात् शक्त्याभिधारकम् ।श्रीकण्ठश्चाप्यन्तश्च सूक्ष्मा त्रिमूर्ति च ॥४६॥अमरेश्वरश्चार्घीशो भावभूतिस्ततः परम् ।अतिथीशस्थावीशो हरो झिण्टीश एव च ॥४७॥भौतिकः सद्योजातश्चाप्यनुग्रहेरस्तथा ।अक्रूरोऽपि महासेनो निर्जरादिश्च षोडश ॥४८॥एते देवा महारुद्र षोडसस्वरविग्रहाः ।क्रोधीशश्चापि चण्डेशः पञ्चान्तकः शिवोत्तमः ॥४९॥एकरुद्रस्तथा कूर्म एकनेत्रेश्वरस्ततः ।चतुराननोऽजेशश्च सर्वः सोमेश एव च ॥५०॥लाङुलीशो दारुकेशोऽर्द्धनारीश्वर एव च ।(उमाकान्तेश आषाढिः डिण्डीशोऽत्रीश एव च ।मीनेशश्चापि मेषेशी लोहितेशः शिखीश्वरः ।छगलण्डे द्विरण्डेशो महाकालेश्वरस्ततः ।)वाणीशश्च भुजङेशः पिनाकिशस्ततः परम् ॥५१॥खड्गीश श्चरकेशश्च श्येनो भृग्वीश एव च ।नकुलीशः शिवेश्श्च संवर्त्तकेश एव च ॥५२॥एते रुद्राः समाख्याताः सर्वकाले कुलेश्वराः ।यस्य नाम्नश्चान्तभाते ईशशब्दो न विद्यते ॥५३॥केशान्तं नाम संस्कृत्य न्यासं मौलीशमाचरेत् ।कामं मोहादिनाशार्थं यः करोति निरन्तरम् ॥५४॥मातृकावर्नघटितं मातृस्थलके न्यसेत् ।शक्तियुक्तं यदा न्यासं तत्कालेऽपीशायोजनम् ।अथवा रुद्रशक्त्या च तथा रुद्रेण सम्पुटम् ॥५५॥नियमन्त्रेण वा नाथ पुटितं मातृकास्थले ।शक्त्या च ग्रथनं कृत्वा संसारं सन्तरेत् क्षणात् ॥५६॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP