संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तचत्वारिंशः पटलः| श्रीकण्ठन्यासः सप्तचत्वारिंशः पटलः रूद्राण्या रूद्रस्य व मन्त्रोद्धारः रूद्रस्य एकपञ्चाशनामानि रुद्राणीनामानि रूद्र ध्यानम् रूद्रस्य पीठशक्तयः शक्त्यर्चनविधानम् रूद्राणीध्यानम् श्रीकण्ठन्यासः पञ्चमूर्तिन्यासः पञ्चमुखन्यासः सदाशिवध्यानमानसोपचारञ्ज सदाशिवस्तोत्रम् मृत्युञ्जयविधानम् पीठन्यासः मृत्युञ्जयऋष्यादिन्यासः महामृत्युञ्जयध्यानम् सप्तचत्वारिंशः पटलः - श्रीकण्ठन्यासः रूद्राणीरूद्रयो पूजाप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल श्रीकण्ठन्यासः Translation - भाषांतर प्राणायामादिकं कृत्वा श्रीकण्ठन्यासमाचरेत् ।पूर्णोदर्यादिसहित कृत्वा पीठं न्यसेत्सुधीः ॥१३०॥पीठमनुं प्रविन्यस्य ऋष्यादिन्यासमाचरेत् ।ऋषिरस्य वासुदेवः पङ्क्तिश्छन्द उदाह्रतम् ॥१३१॥सदाशिवो देवता अ अङ्गुलिन्यासमाचरेत् ।हामङुष्ठाभ्यां नमः पश्चात् ह्रीं तर्जनीभ्यां ततः परम् ।खां नमः पदमन्ते षड्दीर्घभाजयान्वितम् ॥१३२॥एवं करन्यासमाकार्यं विधानेन समाचरेत् ।शूद्रस्तु एअतत्पर्यन्त कार्यं होमादिकं च यत् ॥१३३॥न कुर्यात् पार्वतीनाथ तथा स्तोलोक इत्यपि ।यदि ज्ञानी भवेद् देव स देवो न तु आनुषः ॥१३४॥चाण्डालादीनि वा जातौ स्थितो ब्राह्मणोत्तमः ।ज्ञानवान वादसंवादे वर्जितो न्यासमाचरेत् ॥१३५॥न्यासस्तन्मयता बुद्धिः सोऽहं भावेन पूजयेत् ।स एव ज्ञानी परमो वेदशास्त्रविशारदः ॥१३६॥न्यासपूजादिकं तस्य सर्वदा नात्र संशयः ।यावद्देहे ह्यहंबुद्धिस्तावन्मरणधारकः ॥१३७॥तद्वर्जितो मृत्युजेता न्यासपूजादिकं कृतः ।षड्दीर्घभाजा बीजेन हकारेण सबिहुना ॥१३८॥करयोगोरंगुलिद्वद्व्नं विन्यसेत् संक्रमेण तु ।ईशानाद्याः पञ्चमूर्तीर्विन्यसेत् साधकोत्तमः ॥१३९॥ततः कुर्यान्महादेव उद्र्ध्वः प्राग्दक्षिणोत्तरे ।मुखेषु विन्यसेन्मन्त्री चाङ्गुलिभिः परस्परम् ॥१४०॥तत्तद्बीजैः प्रयत्नेन तत्तन्मूर्तीः प्रविण्यसेत् ।अङ्गुष्ठयोः शेषभागे हौ ईशानाय ॐ नमः ॥१४१॥षड्दीर्घभाजाबीजेन हकारेण सबिन्दुना ।तत्पुरुषघोरञ्च वामदेवं ततः परम् ॥१४२॥सद्योजातं क्रमेणैव अङ्गुली द्वे ततः परम् ।विन्यसेत्साधकश्रेष्ठो नमोऽन्तं परमेश्वर ॥१४३॥शिरोवदनह्रदगुह्यपादेषु विन्यसेत्सुधीः ।तत्तदङ्गुलिभिश्चैव तत्क्रमेण प्रविन्यसेत् ॥१४४॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP