संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तचत्वारिंशः पटलः| पञ्चमूर्तिन्यासः सप्तचत्वारिंशः पटलः रूद्राण्या रूद्रस्य व मन्त्रोद्धारः रूद्रस्य एकपञ्चाशनामानि रुद्राणीनामानि रूद्र ध्यानम् रूद्रस्य पीठशक्तयः शक्त्यर्चनविधानम् रूद्राणीध्यानम् श्रीकण्ठन्यासः पञ्चमूर्तिन्यासः पञ्चमुखन्यासः सदाशिवध्यानमानसोपचारञ्ज सदाशिवस्तोत्रम् मृत्युञ्जयविधानम् पीठन्यासः मृत्युञ्जयऋष्यादिन्यासः महामृत्युञ्जयध्यानम् सप्तचत्वारिंशः पटलः - पञ्चमूर्तिन्यासः रूद्राणीरूद्रयो पूजाप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल पञ्चमूर्तिन्यासः Translation - भाषांतर पञ्चमूर्तिन्यासःपञ्चमूर्तीर्न्यसेन्नाथ तत्प्रकारं श्रृष्णव तत् ।ईशानादिस्वबीजं तु प्रकारेण प्रविण्यसेत् ॥१४५॥कलान्यासःशूद्रः कुर्यान्न्यासजालमेतत् पर्यन्तमेव हि ।तत ऊर्ध्वप्राग्दक्षिणपश्चिमोत्तरसंमुखे ॥१४६॥ईशानस्य पञ्चकला ब्रह्मऋग् वेदसंयुताः ।पञ्चपादादिका नाथ प्रणवादिनमोऽन्तिकाः ॥१४७॥ईशानं सर्वविद्यानां ॐ नलिन्यै ततः परम् ।कलायै नम एवापि सर्वत्रैवं क्रमेण तु ॥१४८॥ईश्वरः सर्वभूताना तद्ङुं पदकं ततः ।दयायै कलायै नमश्चापि ब्रह्मादिपदं ततः ॥१४९॥ॐ ब्रह्येष्टदायै चान्ते कलायै नम इत्यपि ।ततः शिवोस्तु मेम पदं ॐ सावित्र्यै पदं वदेत् ॥१५०॥कलायै नम एवं हि सदाशिवो पदन्ततः ।ओमन्ते चांशुमालिन्यै कलायै पद इत्यपि ॥१५१॥दिङ्मुखे स न्यसेन्मन्त्री पूर्वदिक्रमयोगतः ।तत्पुरुषस्य चतस्त्रः कला न्यसेत् सदा वशी ॥१५२॥ॐ तत्पुरुषायपदं विद्महे तदनन्तरम् ।ॐ शान्त्यै पदस्यान्ते कलायै नम इत्यपि ॥१५३॥महादेवाय शब्दान्ते धीमहीति ततः पदम् ।ॐ विद्यायै पदस्यान्ते कलायै नम इत्यपि ॥१५४॥तन्नो रुद्रः पदं पश्चात् ॐ प्रतिष्ठायै पदं लिखेत् ।श्री दुर्गायै कलायै नमश्चाथ प्रचोदयात् ॥१५५॥ॐ निवृत्यै कलायै च नमः पदं समुच्यरेत् ।ततोऽष्टस्थानमध्ये तु अघोराष्टकला न्यसेत् ॥१५६॥हद्ग्रीवा मध्यगतलं तथा नाभिशु पृष्ठके ।तथा वक्षसि चाघोरा अष्टौ कला न्यसेत् सुधीः ॥१५७॥अघोरेभ्य उमान्ते वै उमायै पदमुच्चरेत् ।कलायै नम एवाथ अघोरेभ्यः पदं वदेत् ॥१५८॥ॐ मोहायै पदस्यान्ते कलायै नम इत्यपि ।अघोरपदमुच्चार्य क्षमायै शब्दमुच्चरेत् ॥१५९॥कलायै नम एवाथ घोरतरेभ्य एव च ।ॐ निद्रायै पदस्यान्ते कलायै नम इत्यपि ॥१६०॥सर्वतः सर्वं ॐ अन्ते व्याधये शब्दमुच्चरेत् ।कलायै नम एवाथ सर्वेभ्यः पदमुच्चरेत् ॥१६१॥ॐ मृत्यवे पदस्यान्ते कलायै नम इत्यपि ।नमस्तेऽस्तु पदस्यान्ते ओम् क्षुधायै पदं वदेत् ॥१६२॥कलायै नम एवाथ रुद्रपेऽथ एव च ।ओम् पदस्यान्ते कलायै नम इत्यपि ॥१६३॥वामदेवस्य देवस्य त्रयोदश कला न्यसेत् ।एतेषु स्थानपद्मेषु तत्प्रकारं श्रृणु प्रभो ॥१६४॥गुह्येऽण्ड शेषमध्ये तु ऊरुयुग्मे ततः पदम् ।जानुद्वये तथा जङ्वायुगले स्फिग्द्वये तथा ॥१६५॥कट्यां पार्श्वयुगे चैव क्रमेण भावको न्यसेत् ।आदौ प्रणवमुच्चार्य ततो मन्त्रं स्मरेत्सुधीः ॥१६६॥वामदेवाय शब्दान्ते नमो ज्येष्ठायशब्दतः ॥१६७॥नमो रुद्राय शब्दान्तेः नमः शब्दं समुच्चरेत् ।कालाय नम एवान्ते कलविकरणाय च ॥१६८॥नमो बलविकरणाय बलप्रमथनाय च ।ओम् वामदेवाय नमः ओम् वज्राय ततः परम् ॥१६९॥कलायै नम एवाथ ज्येष्ठाय नम इत्यपि ।ओम् रक्षायै पदस्यान्ते कलायै नम इत्यपि ॥१७०॥रुद्राय नम ओम् रत्यै कलायै नम इत्यपि ।कालाय नम इत्यन्ते पालिन्यै शब्दमुच्चरेत् ॥१७१॥कलायै नम इत्यन्ते पालिन्यै शब्दमुच्चरेत् ।कामायै शब्दमुच्चायै कलायै नम एव हि ॥१७२॥विकरणय नमोन्ते प्रणवञ्चोञ्चरेद्बुधः ।संयमिन्यै पदान्ते च कलायै नम इत्यपि ॥१७३॥बल ओम् शब्दमुच्चार्य क्रोधायैपदमुच्चरेत् ।कलायै नम एवाथ विकलायै नमस्ततः ॥१७४॥ॐ वृद्धयै पदकस्यान्ते कलायै नम इत्यपि ।बल ॐ शब्दमुच्चार्य स्थिरायै शब्दमुच्चरेत् ॥१७५॥कलायै नम एवाथ प्रथनाय नमस्ततः ।ॐ रौद्रपदस्यान्ते कलायै नम इत्यथ ॥१७६॥सर्वभूतदमनाय नम ॐ पदमुच्चरेत् ।भ्रामिन्यै पदकस्यान्ते कलायै नम इत्यपि ॥१७७॥नम ॐ शब्दमुच्चार्य मोहिन्यै पदकं स्मरेत् ।कलायै नम एवाथ उन्मनाय नमस्ततः ॥१७८॥ॐ जयायै पदस्यान्ते कलायै नम उच्चरेत् ।ततो न्यासं महाकाल सद्योजातस्य ताः कलाः ॥१७९॥सद्योजातं प्रपद्यामि ओम् वृद्ध्यै पदमुच्चरेत् ।कलायै नम एवाथ सद्योजाताय वै नमः ॥१८०॥ओम् वृदध्यै पदकस्यान्ते कलायै नम इत्यपि ।भवे पदे ततः पश्चाद् ओम् सद्यः पदमुच्चरेत् ॥१८१॥कलायै नम एवाथ अभवे ओम् ततः परम् ।ओम् मेधायै पदस्यान्ते कलायै नम उच्यते ॥१८२॥ततो भजस्व मां शब्दं ओम् प्रज्ञायै पदं वदेत् ।कलायै नम एवाथ भव ओम् शब्दमुच्चरेत् ॥१८३॥प्रभायै पदमुच्चार्य कलायै नम इत्यपि ।तद्भवाय नमः पश्चात् ओम् सुधायै नमस्ततः ॥१८४॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP