सप्तचत्वारिंशः पटलः - मृत्युञ्जयविधानम्
रूद्राणीरूद्रयो पूजाप्रकरणम्
ततो वक्ष्ये महादेव मृत्युञ्जयविधानकम् ।
यत् कृत्वा परमब्रह्ममयो भवति साधकः ॥२४१॥
मृत्युञ्जयस्य मन्त्रं वै जपते यदि मानुषः ।
कोटिवर्षशतं स्थित्वा लीनो भवति ब्रह्मणि ॥२४२॥
सर्वव्यापकरुपेण स तिष्ठति सदाशिव ।
तत्प्रकारं प्रवक्ष्यामि सावधानोऽवधारय ॥२४३॥
आदौ पूजां विधानेन वक्ष्यामि सारनिर्मिताम् ।
श्रीकण्ठ सपूर्णोदर्याश्च न्यासं चास्ये समाचरेत् ॥२४४॥
ततो ह्रदयमध्ये तु स्वहस्ताङ्गुलिमुद्रया ।
तद्वयान्यस्य देवेश तत्प्रकाशं प्रचक्ष्यते ॥२४५॥
प्रण्वादि नमोऽन्तेन चतुर्थ्यन्तपदेन च ।
योजयित्वा न्यसेन्मन्त्री मन्त्रभावपरायणः ॥२४६॥
आधारशक्तिमेवं हि प्रकृतितदनन्तरम् ।
कूर्ममनन्तं तत्पश्चात् पृथिवीं क्षीरसारम् ॥२४७॥
श्वेतद्वीपं ततः पश्चान्मणिमण्डपमेव च ।
कल्पवृक्षे ततो नाथ विन्यसेन्मणिवेदिकाम् ॥२४८॥
रत्नसिंहासनं तत्र ह्रदयाम्भोजमण्डले ।
दक्षवामस्कन्धभागे वामोरौ दक्षिणे तथा ॥२४९॥
मुखे वामपार्श्वभागे नाभौ दक्षपार्श्वके ।
प्रणवादिनमोऽन्तेन चतुर्थ्यन्तपदेन च ॥२५०॥
सर्वत्र न्यासकुर्यात्तेषां नाम श्रृणु प्रभो ।
क्रमेण सर्वं कर्त्तंव्यं क्रमभङो न चाचरेत् ॥२५१॥
धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं तदनन्तरम् ।
अधर्ममपि चाज्ञानमवैराग्यं ततः परम् ॥२५२॥
अनैश्वर्य क्रमेणापि विन्यसेत् साधकोत्तमः ।
पुनर्वारं ह्रदम्भोजे न्यसेदेकमनाः सुधीः ॥२५३॥
N/A
References : N/A
Last Updated : April 28, 2011
TOP