संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

पुंलिङ्गशेषसंग्रहः - श्लोक ९६० ते ९८१

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


९६०) पुंस्त्वे सभेदाऽनुचराः सपर्यायाः सुराऽसुराः

९६१) स्वर्गयागाऽद्रिमेघाऽब्धि द्रु कालाऽसिशराऽरयः

९६२) करगण्डोष्ठदोर्दन्तकन्ठकेशनखस्तनाः

९६३) अह्नाऽहाऽन्ताः क्ष्वेडभेदा रात्राऽन्ताः प्रागसंख्यकाः

९६४) श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः

९६५) कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः

९६६) कषणभमरोपान्ता यद्यदन्ता अमी अथ

९६७) पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः

९६८) नाम्न्यकर्तरि भावे च घञ् जब् नङ् ण घाऽथुचः

९६९) ल्युः कर्तरीमनिच् भावे को घोः किः प्रादितोन्यतः

९७०) द्वन्द्वेऽश्ववडवावश्ववडवा न समाहृते

९७१) कान्तः सूर्येन्दुपर्यायपूर्वोऽयः पूर्वको.पि च

९७२) वटकश्चाऽनुवाकश्च रल्लकश्च कुडङ्गकः

९७३) पुङ्खो न्यूङ्खः समुद्रश्च विटपट्टधटाः खटाः

९७४) कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत्

९७५) गडुः करण्डो लगुडो करण्डश्च किणो घुणः

९७६) दृतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः

९७७) कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ

९७८) आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः

९७९) पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः

९८०) वेतालभल्लमल्लाश्च पुराडाशोऽपि पट्टिशः

९८१) कुल्माषो रभसश्चैव सकटाहः पतद्रहः

इति पुंलिङ्गशेषसंग्रहः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP