असङ्गचित् विभुः जीवः सांख्य उक्तः तादृक् ईश्वरः । योग उक्तः तत् त्वमोः अर्थौ शुद्धौ तौ इति चेत् शृणु ॥२२१॥
न तत् त्वमोः उभौ अर्थौ अस्मत् सिद्धान्ततां गतौ । अद्वैत बोधनाय एव सा कक्षा काचित् इष्यते ॥२२२॥
अनादि मायया भ्रान्ता जीवेशौ सुविक्षणौ । मन्यन्ते तत् व्युदासाय केवलं शोधनं तयोः ॥२२३॥
अत एव अत्र दृष्टान्तः योग्यः प्राक् सम्यक् ईरितः । घटाकाश महाकाश जलाकाश अभ्र ख आत्मकः ॥२२४॥
जल अभ्र उपाधि अधीने ते जलाकाश अभ्र खे तयोः । आधारौ तु घटाकाश महाकाशौ सुनिर्मलौ ॥२२५॥
एवम् आनन्द विज्ञानमयौ माया धियोः वशौ । तत् अधिष्ठान कूटस्थ ब्रह्मणि तु सुनिर्मले ॥२२६॥
एतत् कक्षोपयोगेन सांख्य योगौ मतौ यदि । देहः अन्नमय कक्षत्वात् आत्मत्वेन अभ्युपेयताम् ॥२२७॥
आत्म भेदः जगत् सत्यम् ईशः अन्यः इति चेत् त्रयम् । त्यज्यते तैः तदा सांख्य योग वेदान्त संमतिः ॥२२८॥
जीवः असङ्गत्वमात्रेण कृतार्थः इति चेत् तदा । स्रक् चन्दन आदि नित्यत्व मात्रेण अपि कृतार्थता ॥२२९॥
यथा स्रक् आदि नित्यत्वं दुःसम्पाद्यं तथा आत्मनः । असङ्गत्वं न सम्भाव्यं जीवतोः जगत् ईशयोः ॥२३०॥
अवश्यं प्रकृतिः सङ्गं पुरेव आपादयेत् तथा । नियच्छति एतम् ईशः अपि कः अस्य मोक्षः तथा सति ॥२३१॥
अविवेक कृतःसङ्गो नियमः च इति चेत् तदा । बलात् आपतितः मायावादः सांख्यस्य दुर्मतेः ॥२३२॥
बन्ध मोक्ष व्यवस्थार्थम् आत्म नानात्वम् इष्यताम् । इति चेत् न यतः माया व्यवस्थापयितुं क्षमा ॥२३३॥
दुर्घटं घटयाम् इति विरुद्धं किं न पश्यसि । वास्तवौ बन्ध मोक्षौ तु श्रुतिः न सहतेतराम् ॥२३४॥
न निरोधः न च उत्पत्तिः न बद्धः न च साधकः । न मुमुक्षुः न वै मुक्तः इति एषा परमार्थता ॥२३५॥
मायाख्यायाः कामधेनोः वत्सौ जीवेश्वरौ उभौ । यथेच्छं पिबतां द्वैतं तत्त्वं तु अद्वैतम् एव हि ॥२३६॥
कूटस्थ ब्रह्मणोः भेदः नाममात्रात् ऋते न हि । घटाकाश महाकाशौ वियुज्येते न हि क्वचित् ॥२३७॥
यत् अद्वैतं श्रुतं सृष्टेः प्राक् तत् एव अद्य च उपरि । मुक्तौ अपि वृथा माया भ्रामयति अखिलान् जनान् ॥२३८॥
ये वदन्ति इत्थम् एते अपि भ्राम्यन्ते विद्यया अत्र किम् । न यथा पूर्वम् एतेषाम् अत्र भ्रान्तेः अदर्शनात् ॥२३९॥
ऐहिक अमुष्मिकः सर्वः संसारः वास्तवः ततः । न भाति न अस्ति च अद्वैतम् इति अज्ञानि विनिश्चयः ॥२४०॥