महतः परम् अव्यक्तम् इति प्रकृतिः उच्यते । श्रुतौ असङ्गता तद्वत् असङ्गः हि इति अतः स्फुटा ॥१०१॥
चित् सन्निधौ प्रवृत्तायाः प्रकृतेः हि नियामकम् । ईश्वरं ब्रुवते योगाः सः जीवेभ्यः परः श्रुतः ॥१०२॥
प्रधान क्षेत्रज्ञ पतिः गुणेशः इति हि श्रुतिः । आरण्यके संभ्रमेण हि अन्तर्यामि उपपादितः ॥१०३॥
अत्र अपि कलहायन्ते वादिनः स्वस्वयुक्तिभिः । वाक्यानि अपि यथा प्रज्ञं दार्ढ्याय उदाहरन्ति हि ॥१०४॥
क्लेश कर्म विपाकैः तत् आशयैः अपि असंयुतः । पुंविशेषः भवेत् ईशो जीववत् सः अपि असङ्गचित् ॥१०५॥
तथा अपि पुंविशेषत्वात् घटते अस्य नियंतृता । अव्यवस्थौ बन्धमोक्षौ आपतेताम् इहान्यथा ॥१०६॥
भीषा अस्मात् इति एवम् आदौ असङ्गस्य परात्मनः । श्रुतं तत् युक्तम् अपि अस्य क्लेश कर्म आदि असङ्गमात् ॥१०७॥
जीवानाम् अपि असङ्गत्वात् क्लेशादिः न हि अथ अपि च । विवेक आग्रहतः क्लेश कर्म आदि प्रागुदीरितम् ॥१०८॥
नित्यज्ञान प्रयत्न इच्छा गुणान् ईशस्य मन्वते । असङ्गस्य नियन्तृत्वम् अयुक्तम् इति तार्किकाः ॥१०९॥
पुंविशेषत्वम् अपि अस्य गुणैः एव न च अन्यथा । सत्य कामः सत्य संकल्पः इति आदि श्रुतिः जगौ ॥११०॥
नित्य ज्ञान आदिमत्त्वे अस्य सृष्टिः एव सदा भवेत् । हिरण्यगर्भः ईशः अतः लिङ्गदेहेन संयुतः ॥१११॥
उद्गीथ ब्राह्मणे तस्य माहात्म्यम् अतिविस्तृतम् । लिङ्गसत्त्वे अपि जीवत्वं न अस्य कर्म आदि अभावतः ॥११२॥
स्थूल देहं विना लिङ्गदेहः न क्वापि दृश्यते । वैराजः देहः ईशः अतः सर्वतः मस्तक आदिमान् ॥११३॥
सहस्रशीर्ष इति एवं च विश्वतः चक्षुः इति अपि । श्रुतम् इति आहुः अनिशं विश्वरूपस्य चिन्तकाः ॥११४॥
सर्वतः पाणिपादत्वे कृमि आदेः अपि च ईशता । ततः चतुरमुखः देवः एव ईशः न इतरः पुमान् ॥११५॥
पुत्रार्थं तम् उपासीनाः एवम् आहुः प्रजापतिः । प्रजाः असृजत इति आदिश्रुतिं च उदाहरन्ति अमी ॥११६॥
विष्णोः नाभेः समुद्भूत्तः वेधाः कमलजः ततः । विष्णुः एव ईशः इति आहुः लोके भागवता जनाः ॥११७॥
शिवस्य पादौ अन्वेष्टुं शार्ङ्गि अशक्तः ततः शिवः । ईशः न विष्णुः इति आहुः शैवाः आगम मानिनः ॥११८॥
पुरत्रयं सादयितुं विघ्नेशं सः अपि अपूजयत् । विनायकं प्राहुः ईशं गाणपत्यमते रताः ॥११९॥
एवम् अन्ये स्वस्वपक्षाभिमानेन अन्यथा अन्यथा । मन्त्रार्थवाद कल्पादीन् आश्रित्य प्रतिपेदिरे ॥१२०॥