एतस्य वा अक्षरस्य प्रशासन इति श्रुतिः । अन्तः प्रविष्टः शास्तायं जनानाम् इति च श्रुतिः ॥१८१॥
जगत् योनिः भवेत् एष प्रभवाप्यय कृत्त्वतः । आविर्भाव तिरोभावौ उत्पत्ति प्रलयौ मतौ ॥१८२॥
आविर्भावयति स्वस्मिन् विलीनं सकलं जगत् । प्राणि कर्म वशात् एष पटो यद्वत्प्रसारितः ॥१८३॥
पुनः तिरोभावयति स्वात्मनि एव अखिलं जगत् । प्राणि कर्म क्षय वशात् संकोचित पटो यथा ॥१८४॥
रात्रि घस्रौ सुप्ति बोधौ उन्मीलन निमीलने । तूष्णीं भाव मनोराज्ये इव सृष्टि लयौ इमौ ॥१८५॥
आविर्भाव तिरोभाव शक्तिमत्त्वेन हेतुना । आरम्भ परिणामादि चोद्यानां न अत्र सम्भवः ॥१८६॥
अचेतनानां हेतुः स्यात् जाड्य अंशेन ईश्वरः तथा । चिदाभास अंशतः तु एष जीवानां कारणं भवेत् ॥१८७॥
तमः प्रधानः क्षेत्राणां चित् प्रधानाः चिदात्मनाम् । परः कारणताम् एति भावना ज्ञान कर्मभिः ॥१८८॥
इति वार्तिक कारेण जड चेतन हेतुता । परमात्मनः एव उक्ता न ईश्वरस्य इति चेत् शृणु ॥१८९॥
अन्यः अन्य अध्यासम् अत्र अपि जीव कूटस्थयोः इव । ईश्वर ब्रह्मणोः सिद्धं कृत्वा ब्रूते सुरेश्वरः ॥१९०॥
सत्यं ज्ञानम् अनन्तं यत् ब्रह्म तस्मात् समुत्थिताः । खं वायु अग्नि जलोः व्योषधि अन्न देहाः इति श्रुतिः ॥१९१॥
आपात दृष्टितः तत्र ब्रह्मणः भाति हेतुता । हेतोः च सत्यता तस्मात् अन्यः अन्य अध्यास इष्यते ॥१९२॥
अन्यः अन्य अध्यास रूपः असौ अन्न लिप्त पटः यथा । घट्टितेन एकताम् एति तत् वत् भ्रान्ति एकतां गतः ॥१९३॥
मेघाकाश महाकाशौ विविच्येते न पामरैः । तत् वत् ब्रह्म ईशयोः ऐक्यं पश्यन्ति आपात दर्शिनः ॥१९४॥
उपक्रमादिभिः लिङ्गैः तात्पर्यस्य विचारणात् । असङ्गं ब्रह्म मायावी सृजति एष महेश्वरः ॥१९५॥
सत्यं ज्ञानम् अनन्तं च इति उपक्रम्य उपसंहृतम् । यतः वाचः निवर्तन्तः इति असङ्गत्व निर्णयः ॥१९६॥
मायी सृजति विश्वं संनिरुद्धः तत्र मायया । अन्यः इति अपरा ब्रूते श्रुतिः तेन ईश्वरः सृजेत् ॥१९७॥
आनन्दमयः ईशः अयं बहु स्याम् इति अवैक्षत । हिरण्यगर्भरूपः अभूत् सुप्तिः स्वप्नः यथा भवेत् ॥१९८॥
क्रमेण युगपत् वा एषा सृष्टिः ज्ञेया यथा श्रुति । द्विविधा श्रुति सत् भावात् द्विविधा स्वप्न दर्शनात् ॥१९९॥
सूत्रात्मा सूक्ष्म देहाअख्यः सर्व जीव घनात्मकः । सर्व अहंमान धारित्वात् क्रिया ज्ञान आदि शक्तिमान् ॥२००॥