अहंत्वात् भिद्यतां स्वत्वं कूटस्थे तेन किं तव । स्वयं शब्दार्थः एव एष कूटस्थः इति मे भवेत् ॥४१॥
अन्यत्व वारकं स्वत्वं इति चेत् अन्य वारणम् । कूटस्थस्य आत्मतां वक्तुः इष्टम् एव हि तत् भवेत् ॥४२॥
स्वयम् आत्मेति पर्यायौ तेन लोके तयोः सह । प्रयोगः न अस्ति अतः स्वत्वम् आत्मत्वं च अन्य वारकम् ॥४३॥
घटः स्वयं न जानाति इति एवं स्वत्वं घट आदिषु । अचेतनेषु दृष्टं चेत् दृश्यताम् आत्म सत्त्वतः ॥४४॥
चेतन अचेतन भिदा कूटस्थ आत्मा कृता न हि । किन्तु बुद्धिकृता आभास कृता एव इति अवगम्यताम् ॥४५॥
यथा चेतनः आभासः कूटस्थे भ्रान्तिकल्पितः । अचेतनः घटादिः च तथा तत्र एव कल्पितः ॥४६॥
तत्तेएदंते अपि स्वत्वम् इव त्वम् अहम् आदिषु । सर्वत्र अनुगते तेन तयोः अपि आत्मत इति चेत् ॥४७॥
ते आत्मत्वे अपि अनुगते तत्तेदंते ततः तयोः । आत्मत्वं न एव सम्भाव्यं सम्यक् तु आदेः यथा तथा ॥४८॥
तत्तेदंते स्वतान्यत्वे त्वं ताअहंते परस्परम् । प्रतिद्वन्द्वितया लोके प्रसिद्धे न अस्ति संशयः ॥४९॥
अन्यतायाः प्रतिद्वन्द्वी स्वयं कूटस्थः इष्यताम् । त्वंतायाः प्रतियोगि एषः अहम् इति आत्मनि कल्पितः ॥५०॥
अहंता स्वत्वयोः भेदे रूप्यतेदंतयोः इव । स्पष्टे अपि मोहम् आपन्नाः एकत्वं प्रतिपेदिरे ॥५१॥
तादात्म्य अध्यासः एव अत्र पूर्वोक्त अविद्यया कृतः । अविद्यायां निवृत्तायां तत् कार्यं विनिवर्तते ॥५२॥
अविद्या आवृत्ति तादात्म्ये विद्यया एव विनाश्यतः । विक्षेपस्य स्वरूपं तु प्रारब्धक्षयम् ईक्षते ॥५३॥
उपादाने विनष्टे अपि क्षणं कार्यं प्रतीक्षते । इति आहुः तार्किकाः तद्वत् अस्माकं किं न सम्भवेत् ॥५४॥
तन्तूनां दिनसंख्यानां तैः तादृक् क्षणः ईरितः । भ्रमस्य असंख्य कल्पस्य योग्यः क्षणः इह इष्यताम् ॥५५॥
विना क्षोद क्षमं मानं तैः वृथा परिकल्प्यते । श्रुति युक्ति अनुभूतिभ्यः वदतां किं नु दुःशकम् ॥५६॥
आस्तां दुस्तार्किकैः साकं विवादः प्रकृतं ब्रुवे । स्वाहमोः सिद्धम् एकत्वं कूटस्थ परिणामिनोः ॥५७॥
भ्राम्यन्ते पण्डितं मन्याः सर्वे लौकिक तैर्थिकाः । अनादृत्य श्रुतिं मौर्ख्यात् केवलां युक्तिम् आश्रिताः ॥५८॥
पूर्वापर परामर्श विकलाः तत्र केचन । वाक्य आभासान् स्वस्वपक्षे योजयन्ति अपि अलज्जया ॥५९॥
कूटस्थादि शरीरान्त संघातसि आत्मतां जगुः । लोकायताः पामराः च प्रत्यक्ष आभासम् आश्रिताः ॥६०॥