मेघांश रूपम् उदकं तुषाराकार संस्थितम् । तत्र ख प्रतिबिम्बो अयं निरत्वात् अनुमीयते ॥२१॥
अधिष्ठानतया देह द्वय अवच्छिन्न चेतनः । कूटवान् निर्विकारेण स्थितः कूटस्थः उच्यते ॥२२॥
कूटस्थे कल्पिता बुद्धिः तत्र चित् प्रतिबिम्बकः । प्राणानां धारणात् जीवः संसारेण सः युज्यते ॥२३॥
जल व्योम्ना घटाकाशः यथा सर्वः तिरोहितः । तथा जीवेन कूटस्थः सः अन्यः अन्य अध्यासः उच्यते ॥२४॥
अयं जीवः न कूटस्थं विविनक्ति कदाचन । अनादिः अविवेकः अयं मूल अविद्या इति गम्यताम् ॥२५॥
विक्षेप आवृति रूपाभ्यां द्विधा अविद्या व्यवस्थिता । न भाति न अस्ति कूटस्थः इति आपादनम् आवृतिः ॥२६॥
अज्ञानी विदुषा पृष्टः कूटस्थं न प्रबुध्यते । न भाति न अस्ति कूटस्थः इति बुद्ध्वा वदति अपि ॥२७॥
स्वप्रकाशे कुतः अविद्या तां विना कथम् आवृतिः । इति आदि तर्कजालानि स्वानुभूतिः ग्रसति असौ ॥२८॥
स्वानुभूतौ अविश्वासे तर्कस्य अपि अनवस्थितेः । कथं वा तार्किकं मन्यः तत्त्व निश्चयम् आप्नुयात् ॥२९॥
बुद्धि आरोहाय तर्कः चेत् अपेक्षत तथा सति । स्वानुभूति अनुसारेण तर्क्यतां मा कुतर्क्यताम् ॥३०॥
स्वानुभूतिः अविद्यायाम् आवृतौ च प्रदर्शिता । अतः कूटस्थ चैतन्यम् अविरोधि इति तर्क्यताम् ॥३१॥
तत् चेत् विरोधि केन इयम् आवृतिः हि अनुभूयताम् । विवेकः तु विरोधि अस्याः तत्त्व ज्ञानिनि दृश्यताम् ॥३२॥
अविद्या आवृत कूटस्थे देह द्वय युता चितिः । शुक्तौ रूप्यवत् अध्यस्त विक्षेप अध्यासः एव हि ॥३३॥
इदम् अंशः च सत्यत्वं शुक्तिगं रूप्य ईक्ष्यते । स्वयंत्वं वस्तुता च एवं विक्षेपे वीक्ष्यते अन्यगम् ॥३४॥
नील पृष्ठ त्रिकोणत्वं यथा शुक्तौ तिरोहितम् । असङ्ग आनन्दता आदि एवं कूटस्थे अपि तिरोहितम् ॥३५॥
आरोपितस्य दृष्टान्ते रूप्यं नाम यथा तथा । कूटस्थ अध्यस्त विक्षेप नाम अहम् इति निश्च्यः ॥३६॥
इदम् अंशं स्वतः पश्यन् रूप्यम् इति अभिमन्यते । तथा स्वं च स्वतः पश्यन् अहम् इति अभिमन्यते ॥३७॥
इदंत्व रूप्यते भिन्ने स्वत्व अहंते तथा ईष्यताम् । सामान्यं च विशेषः च उभयत्र अपि गम्यते ॥३८॥
देवदत्तः स्वयं गच्छेत् त्वं वीक्षस्व स्वयं तथा । अहं स्वयं न शक्नोमि इति एवं लोके प्रयुज्यते ॥३९॥
इदं रूप्यम् इदं वस्त्रम् इति यद्वत् इदं तथा । असौ त्वम् अहम् इति एषु स्वयम् इति अभिमन्यते ॥४०॥