अशेष प्राणि बुद्धीनां वासनाः तत्र संस्थिताः । ताभिः क्रोडीकृतं सर्वं तेन सर्वज्ञः ईरितः ॥१६१॥
वासनानां परोक्षत्वात् सर्वज्ञत्वं न हि ईक्ष्यते । सर्वबुद्धिषु तत् दृष्ट्वा वासनासु अनुमीयताम् ॥१६२॥
विज्ञानमय मुख्येषु कोशेषु अन्यत्र च एव हि । अन्तः तिष्ठन् यमयति तेन अन्तर्यामितां व्रजेत् ॥१६३॥
बुद्धौ तिष्ठन् अन्तरः अस्याः धियानीक्ष्यः च धीवपुः । धियम् अन्तः यमयति इति एवं वेदेन घोषितम् ॥१६४॥
तन्तुः पटे स्थितः यद्वत् उपादानतया तथा । सर्व उपादान रूपत्वात् सर्वत्र अयम् अवस्थितः ॥१६५॥
पटात् अपि आन्तरः तन्तुः तन्तोः अपि अंशुः आन्तरः । आन्तरतु अस्य विश्रान्तिः यत्र असौ अनुमीयताम् ॥१६६॥
द्वि त्रि आन्तरत्व कक्षाणां दर्शने अपि अयम् आन्तरः । न वीक्ष्यते ततः युक्तिश्रुतिभ्याम् एव निर्णयः ॥१६७॥
पटरूपेण संस्थानात् पटः तन्तोः वपुः यथा । सर्वरूपेण संस्थानात् सर्वम् अस्य वपुः तथा ॥१६८॥
तन्तोः संकोच विस्तार चलन आदौ पटः यथा । अवश्यम् एव भवति न स्वातन्त्र्यं पटे मनाक् ॥१६९॥
तथा अन्तर्यामी अयम् यत्र यया वासनया यथा । विक्रियते तथावश्यं भवति एव न संशयः ॥१७०॥
ईश्वरः सर्वभूतानां हृद्देशे अर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥१७१॥
सर्वभूतानि विज्ञानमयाः ते हृदये स्थिताः । तत् उपादान भूतेशः तत्र विक्रियते खलु ॥१७२॥
देहादि पञ्जरं यन्त्रं तत् आरोहः अभिमानिता । विहित प्रतिसिद्धेषु प्रवृत्तिः भ्रमणं भवेत् ॥१७३॥
विज्ञानमय रूपेण तत् प्रवृत्ति स्वरूपतः । स्वशक्त्येशः विक्रियते मायया भ्रमणं हि तत् ॥१७४॥
अन्तर् यमयति इति उक्त्या अयम् एव अर्थः श्रुतौ श्रुतः । पृथिवी आदिषु सर्वत्र न्यायः अयं योज्यतां धिया ॥१७५॥
जानामि धर्मं न च मे प्रवृत्तिः जानामि अधर्मं न च मे निवृत्तिः । केन अपि देवेन हृदि स्थितेन यथा नियुक्तः अस्मि तथा करोमि ॥१७६॥
न अर्थः पुरुषकारेण इति एवं मा शंक्यतां यतः । ईशः पुरुष कारस्य रूपेण अपि विवर्तते ॥१७७॥
ईदृक् बोधेन ईश्वरस्य प्रवृत्तिः मा एव वार्यताम् । तथा अपि ईशस्य बोधेन स्वात्म असङ्गत्व धी जनिः ॥१७८॥
तावता मुक्तिः इति आहुः श्रुतयः स्मृतयः तथा । श्रुति स्मृति मम एव अज्ञे इति अपि ईश्वर भाषितम् ॥१७९॥
आज्ञाया भीति हेतुत्वं भीषा अस्मात् इति हि श्रुतम् । सर्वेश्वरत्वम् एतत् स्यात् अन्तर्यामित्वतः पृथक् ॥१८०॥