प्रत्यूषे वा प्रदोषे वा मग्नः मन्दे तमसि अयम् । लोकः भाति यथा तद्वत् अस्पष्टं जगत् ईक्ष्यते ॥२०१॥
सर्वतः लाञ्छितः मष्या यथा स्यात् घट्टितः पटः । सूक्ष्माकारैः तथा ईशस्य वपुः सर्वत्र लाञ्छितम् ॥२०२॥
सस्यं वा शाकजातं वा सर्वतः अङ्कुरितं यथा । कोमलं तद्वत् एव एष पेलवः जगत् अङ्कुरः ॥२०३॥
आतपाभात लोकः वा पटः वा वर्ण पूरितः । सस्यं वा फलितं यद्वत् तथा स्पष्ट वपुः विराट् ॥२०४॥
विश्वरूपाअध्यायः एषः उक्तः सूक्ते अपि पौरुषे । धात्रादि स्तम्ब पर्यन्तान् एतस्य अवयवान् विदुः ॥२०५॥
ईश सूत्र विराट् वेधः विष्णु रुद्र इन्द्र वह्नयः । विघ्न भैरव मैराल मारिका यक्ष राक्षसाः ॥२०६॥
विप्र क्षत्रिय विट् शूद्र गो अश्व मृग पक्षिणः । अश्वत्थ वट चूत आद्याः यव वृइहि तृणादयः ॥२०७॥
जल पाषाण मृत् काष्ठ वास्या कुद्दालक आदयः । ईश्वराः सर्व एव एते पूजिताः फल दायिनः ॥२०८॥
यथा यथा उपासते तं फलम् ईयुः तथा तथा । फल उत्कर्ष अपकर्षौ तु पूज्य पूजा अनुसारतः ॥२०९॥
मुक्तिः तु ब्रह्मतत्त्वस्य ज्ञानात् एव न च अन्यथा । स्वप्रबोधं विना न एव स्वस्वप्नः हि इयते यथा ॥२१०॥
अद्वितीय ब्रह्म तत्त्वे स्वप्नः अयम् अखिलं जगत् । ईश जीव आदि रूपेण चेतन अचेतन आत्मकम् ॥२११॥
आनन्दमय विज्ञानमयौ ईश्वर जीवकौ । मायया कल्पितौ एतौ ताभ्यां सर्वं प्रकल्पितम् ॥२१२॥
ईक्षणा आदि प्रवेष अन्ता सृष्टिः ईशेन कल्पिता । जाग्रत् आदि विमोक्षान्तः संसारः जीव कल्पितः ॥२१३॥
अद्वितीयं ब्रह्मतत्त्वम् असङ्गं तत् न जानते । जीव ईशयोः मायिकयोः वृथैव कलहं ययुः ॥२१४॥
ज्ञात्वा सदा तत्त्व निष्ठान् अनुमोदामहे वयम् । अनुशोचाम एव अन्यान् न भ्रान्तैः विवदामहे ॥२१५॥
तृण अर्चक आदि योगान्ताः ईश्वरे भ्रान्तिम् आश्रिताः । लोकायतादि सांख्यान्ताः जीवे विभ्रान्तिम् आश्रिताः ॥२१६॥
अद्वितीय ब्रह्म तत्त्वं न जानन्ति यदा तदा । भ्रान्ताः एव अखिलाः तेषां क्व मुक्तिः क्व इह वा सुखम् ॥२१७॥
उत्तम अधम भावः चेत् तेषां स्यात् अस्तु तेन किम् । स्वप्नस्थ राज्य भिक्षाभ्यां न बुद्धः स्पृश्यते खलु ॥२१८॥
तस्मात् मुमुक्षिभिः न एव मतिः जीव ईश वादयोः । कार्या किंतु ब्रह्मतत्त्वं विचार्यं बुध्यतां च तत् ॥२१९॥
पूर्वपक्षतया तौ चेत् तत्त्व निश्चय हेतुताम् । प्राप्नुतः अस्तु निमज्जस्व तयोः न एएतावतावशः ॥२२०॥