संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०६७

खण्डः २ - अध्यायः ०६७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
उपायांस्त्वं समाचक्ष्व सामपूर्वान्महाद्युते॥
लक्षणं च तथा तेषां प्रयोगं वरुणात्मज ॥१॥
पुष्कर उवाच॥
सामभेदौ तथा राम दण्डं च मनुजोत्तम॥
उपेक्षा च तथा माया इन्द्रजालञ्च भार्गव ॥२॥
प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु॥
द्विविधं कथितं साम तथ्यं चातथ्यमेव च ॥३॥
तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते॥
तच्च साधुप्रियं ते च सामसाध्या न राम ते ॥४॥
महाकुलीना ऋजवो धर्मनिष्ठा जितेन्द्रियाः॥
सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत् ॥५॥
तथ्यं च साम कर्तव्यं कुलशीलादिवर्णनम्॥
तथा तदुभयं राम कृतानां चैव वर्णनम् ॥६॥
अनयैव तथा युक्त्या कृतज्ञख्यापनं स्वकम्॥
एवं सान्त्वेन कर्तव्या वशगा धर्मतत्पराः ॥७॥
साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः॥
तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ॥८॥
अतिसन्धिकमित्येव पुरुषं सामवादिनम्॥
असाधवो विजानन्ति तस्मात्तत्तेषु वर्जितम् ॥९॥
ये शुद्धवंशा ऋजवः प्रतीता धर्मे स्थिताः सत्यपरा विनीताः॥
ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततं च राम ॥१०॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामपुष्करसंवादे सामविधिर्नाम सप्तषष्टितमोऽध्यायः ॥६७॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP