संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०४८

खण्डः २ - अध्यायः ०४८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
कुञ्जराः परमा शोभा शिबिरस्य बलस्य च॥
आयाति कुञ्जरेष्वेव विजयः पृथिवीक्षिताम् ॥१॥
तेषां संमार्जने यत्नं पालने च भृगूत्तम॥
यथावन्नृपतिः कुर्याद्गन्धर्वाः कुञ्जरा मताः ॥२॥
जयन्ताश्च तथा धार्या यावतां पोषणं सुखम्॥
कर्तुं शक्यं न धार्यास्ते क्षुधिता दुःखितास्तथा ॥३॥
दुःखितास्ते नृणां हन्युः कुलानि च भृगूत्तम॥
तस्मात्तेषां सुखं कार्यं यशःश्रीविजयप्रदम् ॥४॥
सन्नद्धपुरुषारूढैः सुसन्नद्धैस्तुरङ्गमैः॥
अनल्पैरपि यद्युक्तं बलं परबलप्रणुत् ॥५॥
तदैकस्यापि समरे कुञ्जरस्य सवर्मणः॥
न शक्यं प्रमुखे स्थातुं वेगादापततो द्विज ॥६॥
अभिन्नानां तु संघानां संहृतानां च भेदनम्॥
एकः क्रुद्धो रणे कुर्यात्कुञ्जरः साधु चोदितः ॥७॥
मदक्लिन्नकपोलस्य किञ्चिदञ्चितचक्षुषः॥
बृहदाभोगशुण्डस्य कः शोभां कथितुं क्षमः ॥८॥
वेगेन धावमानस्य प्रसारितकरस्य च॥
कः समर्थः पुरः स्थातुं स्तब्धकर्णस्य दन्तिनः ॥९॥
यस्य फूत्कारमात्रेण तुरङ्गमशतान्यपि॥
स्वारूढान्यपि वेगेन विद्रवन्ति दिशो दश ॥१०॥
तत्सैन्यं कुञ्जरा यत्र स नृपो यस्य कुञ्जराः ।
मूर्तिमान्विजयो राम कुञ्जरा मदगर्विताः ॥११॥
सपक्षा देववाह्यास्ते मनुजानां त्वपक्षकाः॥
वाहनार्थं कृता राम स्वयमेव तु वेधसा ॥१२॥
दृष्ट्वा पताकाभिरलंकृतं तु नागेन्द्रसैन्यं प्रबलं यथाद्रिम्॥
पतन्ति शीघ्रं हृदयान्यरीणां तस्मात्प्रधानाः सततं गजेन्द्राः १३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गजप्रशंसा नामाष्टचत्वारिंशत्तमोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP