संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०५०

खण्डः २ - अध्यायः ०५०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुष्कर उवाच॥
अतः परं तु नागानां शान्तिकर्म निबोध मे॥
नित्यं नैमित्तिकं काम्यं यथावदनुपूर्वशः ॥१॥
पञ्चमीषु च शुक्लासु वासुदेवस्य पूजनम्॥
श्रियश्च राम कर्तव्यं नागस्यैरावणस्य च ॥२॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
तथा च कृष्णपक्षान्ते मासिमासि द्विजोत्तम ॥३॥
भूतेज्या सततं कार्या तिलमांसपयोगुडैः॥
मत्स्यैः पक्वामिषैर्भक्ष्यैः सुमनोभिश्च भार्गव ॥४॥
चतुष्पथेषु रथ्यासु तथा शून्यगृहेषु च॥
एक वृक्षश्मशानेषु गोपुराट्टालकेषु च ॥५॥
सङ्गमेषु नदीनां च पर्वतानां गुहासु च॥
त्रिकण्टकेषु मुख्येषु शून्यदेवगृहेषु च ॥६॥
शुक्लपक्षावसानेषु देवतेज्या विधीयते॥
गजस्थानोत्तरे भागे प्रागुदक्प्रवणे शुभे ॥७॥
ब्रह्माणं शङ्करं विष्णुं शक्रं वैश्रवणं यमम्॥
चन्द्रार्कौ वरुणं वायुं त्वग्निं पृथ्वीं तथा खगम् ॥८॥
शेषं च नागराजं तु भूधराँश्चैव कुञ्जरान्॥
विरूपाक्षं महापद्मं भद्रं सुमनसं तथा ॥९॥
अष्टौ च दिग्गजा ये वै ते स्मृता देवयोनयः॥
कुमदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ॥१०॥
सुप्रतीकाञ्जनौ नील एतेऽष्टौ देवयोनयः॥
यथोक्तानां सुकर्तव्यं पूजनं वै पृथक्पृथक् ॥११॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
ॐकारपूतेनाज्येन तथाग्निहवनं भवेत् ॥१२॥
पृथक्पृथक् च सर्वेषां चतुर्थ्यन्तैश्च नामभिः॥
दक्षिणाभिस्ततो राम ब्राह्मणान्स्वस्ति वाचयेत् ॥१३॥
ततः शान्त्युदकं कृत्वा मन्त्रै रक्षोहणैर्द्विपान्॥
अभ्युक्षयेत्कुशाग्रेण पूज्यास्ते च तथा तदा ॥१४॥
अतः परं प्रवक्ष्यामि कर्म नैमित्तिकं तव॥
गजानां मरणे प्राप्ते तथा व्याधौ च दारुणे ॥१९॥
दन्तच्छेदाशुभोत्पत्तौ मृते गजद्विपे तथा॥
दन्तभङ्गे तथा जाते वा सुपक्षमृते गजे ॥१६॥
कृष्णपक्षे मृते नागे वह्निपृष्ठे मृते तथा॥
दारुणासु च वेलासु दक्षिणापरमूर्धनि ॥१७॥
हस्तिन्याथ मदे जाते प्रकृतेश्च विपर्यये॥
पूर्वोत्तरे च दिग्भागे नगरात्सुमनोहरे ॥१८॥
स्निग्धप्राशन तोयेषु द्रुमवीतवनस्पतौ॥
प्रागुदक्प्रवणं राम स्थण्डिलं परिकल्पयेत् ॥१९॥
कमलं विन्यसेत्तत्र कर्णिकाकमले हरिम्॥
श्रियं च विन्यसेत्तत्र केसरेषु च विन्यसेत् ॥२०॥
ब्रह्माणं भार्गवं पृथ्वीं तथा स्कन्दं च भार्गव॥
अनन्तं खं शिवं सोमं सर्वाण्येतानि भार्गव ॥२१॥
दलेषु तत्र दिक्पालान्विन्यसेत्सह कुञ्जरैः॥
पत्रान्तरेषु चास्त्राणि यथावदनुपूर्वशः ॥२२॥
वज्रं तु विन्यसेद्धीमान्शक्रपत्रादनन्तरम्॥
ततश्चक्रं ततो दण्डं तोरणं तदनन्तरम् ॥२३॥
ततश्च विन्यसेत्पाशं तोमरं सशरं धनुः॥
ततो गदां महाभाग ततः शूलं च विन्यसेत् ॥२४॥
पद्मञ्च सान्तरदलं वृत्तया लेखया भजेत्॥
आदित्यैः सह नासत्यौ ततः पूर्वेण विन्यसेत् ॥२५॥
वसूनग्निदिशाभागे साध्यान्याम्ये च विन्यसेत॥
तथा च नैर्ऋते भागे देवानङ्गिरसो न्यसेत् ॥२६॥
पश्चिमे भृगवो भागे वायव्ये मरुतस्तथा॥
विश्वेदेवास्तथोदक् च रुद्राञ्शिवदिशि न्यसेत् ॥२७॥
कृत्वैतद्देवतान्यासं वृत्तया रेखया भजेत्॥
बाह्येन विन्यसेत्तस्याः सूत्रकारानॄषीन्द्विज ॥२८॥
पूर्वेण राम याम्येन तथा देवीं सरस्वतीम्॥
नदीः पश्चिमतः शैलांस्तथोदग्भृगुनन्दन ॥२९॥
महाभूतानि वेदीषु कोणहस्तगतानि तु॥
पद्मं चक्रं गदां शङ्खमीशान्यादिषु विन्यसेत् ॥। ॥३०॥
चतुरस्रं तथा कार्यं चतुर्द्वारं च मण्डलम्॥
प्रमाणं मण्डलस्यात्र भवेद्भूमिवशात्तथा॥
विदिक्षु पूर्णकलशान्पूर्णपात्रयुतान्न्यसेत ॥३१॥
सप्तहस्तेषु दण्डेषु पताकाश्च तथा न्यसेत्॥
सिता रक्ताः सिताः पीता यथावदनुपूर्वशः॥
दिक्षु तोरणविन्यासं तोरणानां च वेष्टनम् ॥३२॥
क्षीरवृक्षद्रुमदलैः कुसुमैः सफलैर्भवेत्॥
तोरणस्य प्रमाणं च षड्ढस्तं परिकीर्तितम् ॥३३॥
उच्छ्रायेण तथा यामाज्ज्ञेयं राम समद्वयम्॥
तार्क्ष्यं तालं च मकरं ऋष्यं चैवानुपूर्वशः ॥३४॥
तोरणोपरि मध्ये तु दानवान्विनिवेशयेत्॥
कर्णकैर्लक्षणोपेतान्विन्यसेद्देवतागणान् ॥३५॥
सायुधान्सपताकाँश्च सातपत्रं शतक्रतुम्॥
दिग्गजानां च विन्यासमोषधीभिः प्रकल्पयेत् ॥३६॥
ऐरावणं दले शक्रे लाजाभिर्विन्यसेद्बुधः॥
नागं पुष्पमयं पद्ममाग्नेये विन्यसेद्दले ॥३७॥
पुष्पदन्तस्तथा याम्ये नागः कार्यः प्रियंगुभिः॥
तथा च नैर्ऋते भागे नागः पुष्पेण वामनः ॥३८॥
वायव्ये चाञ्जनं पत्रे माषैः कुर्याद्विचक्षणः॥
नीलश्च पत्रे कौबेरे शतपुष्पामयो भवेत् ॥३९॥
ऐशान्ये कुमुदं कुर्यान्नागेन्द्रं सिततन्दुलैः॥
ततस्तु पूजनं कार्यं सोपवासेन भार्गव ॥४०॥
जितेन्द्रियेण दान्तेन शिरःस्नातेन चाप्यथ॥
शुक्लवस्त्रावृतेनापि सोष्णीषेण तथैव च ॥४१॥
काञ्चनालंकृतेनापि सपवित्रेण भार्गव॥
सर्वासां पूजनं कुर्याद्देवतानां पृथक्पृथक ॥४२॥
अस्त्राणां कुञ्जराणां च पद्मादीनां तथैव च॥
तोरणे तु निविष्टानां तार्क्ष्यादीनां पृथक्पृथक् ॥४३॥
सागराणां तु कुम्भेषु गन्धमाल्यानुलेपनैः॥
धूपैर्दीपैर्नमस्कारैर्वासोभिश्च पृथक्पृथक् ॥४४॥
तथा प्रतिसराभिश्च भूषणैश्च पृथक्पृथक्॥
भूरिणा च तथान्नेन पानैश्च विविधैस्तथा ॥४५॥
कुल्माषपरमान्नाभ्यां पूज्यास्ते कृसरेण च॥
भूदकोल्लोपिकाभक्ष्यैः सितया गुडफाणितैः ॥४६॥
मासौदनपयःक्षौद्रदधिपायससक्तुभिः॥
अपूपफलमूलान्नरागखण्डवकैर्दलैः ॥४७॥
एवं सम्पूजनं कृत्त्वा शङ्खवाद्यरवैर्द्विज॥
गीतेन च महाभाग सुभगानर्तितेन च ॥४८॥
ततस्तु पूजनं कृत्वा पूजास्थानात्तथाप्युदक्॥
आहिताग्निकुलादग्निं वेदिमुल्लिख्य बोधयेत् ॥४९॥
देवतानां तु सर्वासामेकैकं तु पृथक्पृथक्॥
चतुर्थ्यन्तेन नाम्ना तु प्रणवाद्येन भार्गव ॥५०॥
शतमाज्येन जुहयान्महाव्याहृतयस्तथा॥
ततस्तु पूजिता नागा वह्निं देवगणान्द्विजान् ॥५१॥
कृत्वा प्रदक्षिणं सर्वे व्रजेयुः स्वगृहाणि ते॥
उपद्रष्ट्रे तथा कर्त्रे सर्वं तत्र निवेदयेत् ॥५२॥
भवेन्निष्कं च निष्कं च धेनुधेनुं भुवंभुवम्॥
अश्वमश्वं तथान्या च दक्षिणा शक्तितो भवेत् ॥५३॥
न भवेत्सा महाद्रोणा कथञ्चिदपि कस्यचित्॥
तथा च हस्तिभिषजा प्रवृत्तेन च भूरिणा ॥५४॥
पूजनीयौ तथैवात्र सांवत्सर पुरोहितौ॥
हस्तिन्यां मदमत्तायां शान्तिकेऽस्मिन्द्विजोत्तम ॥५५॥
राष्ट्रान्निर्वास्य तां कुर्याच्छान्तिमेतां द्विजोत्तम॥
नागराज्ञि मृते कृत्वा तत्रैवान्यं मतङ्गजम् ॥५६॥
स्नातं सर्वौषधैर्नागं सर्वगन्धैस्तथैव च॥
सर्वबीजैश्च रत्नैश्च सर्वतीर्थजलैस्तथा ॥५७॥
आहताम्बरसंवीतदर्शनं श्वेतलक्षणम्॥
काञ्चनापीडिते वाद्यगीतपुण्याहनिस्वनैः ॥५८॥
अर्चितं दैवतो वह्निं कृतविप्रप्रदक्षिणम्॥
करिणीं तु समारुह्य वदेत्कर्णे तु कालवित् ॥५९॥
श्रीगजस्त्वत्कृते राजा भवस्वास्य गजाग्रणीः॥
गन्धमाल्याग्रभक्तैस्त्वां पूजयिष्यति पार्थिवः ॥६०॥
लोकस्तदाज्ञया पूजां करिष्यति तथानघ॥
पालनीयस्त्वया राजा घोरयुद्धे तथाहवे ॥६१॥
तिर्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर॥
देवासुराणां युद्धे च श्रीगजस्त्रिदशैः कृतः ॥६२॥
ऐरावणसुतः श्रीमानरिष्टो नाम रावणः॥
श्रीगजानां तु तत्तेजः सर्वमेवात्र तिष्ठति ॥६३॥
तत्तेजस्तव नागेन्द्र दिव्यभागसमन्वितम्॥
उपतिष्ठतु भद्रं ते रक्ष राजानमाहवे ॥६४॥
इत्येवमभिषिक्त्वेन शुभेऽहनि नराधिपः॥
नित्यं चैवास्य कर्तव्यं ब्राह्मणैः स्वस्तिवाचनम् ॥६५॥
तस्यानुगमनं कुर्युः शस्त्रहस्ताश्च मानवाः॥
सितवर्णश्च कर्तव्यो राज्ञः पुण्याहकर्मसु ॥६६॥
एतत्ते सर्वमाख्यातं गजानां शान्तिकर्मसु॥
नक्षत्राणि प्रशस्तानि तिथयश्च तथा शृणु ॥६७॥
चतुर्दशीं चतुर्थीं च नवमीं च विवर्जयेत्॥
अङ्गारकदिने राम दिनं भास्करजस्य च ॥६८॥
ऋक्षाणि वैष्णवं त्वाष्ट्रं शस्यते शक्रदैवतम्॥
नक्षत्राणि मुहूर्ताश्च एत एव महाबल ॥६९॥
देशकालोपसम्पन्नं विधिना च तथा कृतम्॥
शान्तिकर्म गजेन्द्राणां सर्वबाधाविनाशनम् ॥७०॥
धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम्॥
भार्गवश्च्यवनः क्रुद्धो यथा शक्रस्य भार्गव ॥७१॥
मदो नाम समुत्पन्नस्तथा दैत्यः सुदारुणः॥
इन्द्रनाशाय शक्रार्थी ततः पश्चात्प्रसादितः ॥७२॥
मदं स बहुधा चक्रे प्रजापतिसमो द्विज॥
स्त्रीष्वक्षेषु तथा पाने मृगयायां धने तथा ॥७३॥
विद्यासु चैव सर्वासु सर्वशिल्पेषु चाप्यथ॥
जीवेषु राम सर्वेषु तथा रूपे बले कुले ॥७४॥
एकोऽस्य धारणे शक्तो न कश्चिदितिचिन्तयन्॥
यथोक्तेष्वधिकं भागं किञ्चित्पाने निवेशयेत् ॥७५॥
प्राणिनामथ सर्वेषां नागेष्वभ्यधिकं तथा॥
मदो यदा समभ्येति नागं ब्राह्मणसत्तम ॥७६॥
राम शान्तिस्तदा कार्या यादृशी तां निबोध मे॥
शालाप्रागुत्तरे भागे स्थण्डिलं कल्पयेद्बुधः ॥७७॥
स्थण्डिले कमलं कृत्वा दिक्पत्रेषु तथेश्वरान्॥
केसरं च्यवनं नागान्भुवं कं च सरस्वतीम् ॥७८॥
पूजयेड्डिण्डिमं मध्ये गन्धमाल्यानुलेपनैः॥
धूपदीपनमस्कारैर्वासोभिश्च पृथक्पृथक् ॥७९॥
सर्वासां पूजनं कृत्वा पाद्याद्यनुरतो द्विज॥
देवतानां घृतं हुत्वा यथाश्रद्धमनिन्दितम् ॥८०
रसपूर्णो घटो देयो दक्षिणार्थे च काञ्चनम्॥
दत्त्वा वासांसि नागस्य गजाध्यक्षं च पूजयेत् ॥८१॥
हस्तिपं कर्मिणश्चान्यान्दक्षिणाभिर्द्विजोत्तमान्॥
सांवत्सरे च वित्तेन यतः सांवत्सरः स्वयम्॥८२॥
गजाध्यक्षाय तं दद्याद्दिण्डिमं प्रयतः स्वयम्॥
प्राङ्मुखश्च गजाध्यक्षो वादयेत्तं यथाविधि ॥८३॥
उच्चैर्गम्भीरनिर्घोषे डिण्डिमे तु शुभं वदेत्॥
अन्तरा पातिते तस्मिँस्तथैवाप्यशुभं वदेत् ॥८४॥
डिण्डिमे सम्यगादत्ते शुभमेव विनिर्दिशेत्॥
तदा प्रभृति मत्तस्य तदा नागस्य वै नृप ॥८५॥
अशुभे लक्षणे जाते भूयस्तत्कर्म चाचरेत्॥
शुभे तु लक्षणे जाते गजाध्यक्षस्य डिण्डिमम् ॥८६॥
जये संस्थाप्य नन्दाद्याग्रजपायसर्वबाधाविनाशनम् ॥८७॥
अतः परं प्रवक्ष्यामि काम्यं कर्म तवानघ॥
उपोषितस्तथा याम्ये यजमाने पुरोहितः ॥८८॥
शुभप्रदमिदं स्नानं यजमानस्य कारयेत्॥
न्यग्रोधोदुम्बराश्वत्थमधुकोदकसंयुतैः ॥८९॥
अकालमूलैः कलशैः पञ्चभिर्गजलक्षणैः॥
स्नातः शुक्लाम्बरो विष्णुं चन्द्रार्कौ वरुणं तथा ॥९०॥
हस्तिनं पूजयेद्विद्वान्गन्धमाल्यान्नसम्पदा॥
धूपदीपनमस्कारैर्वासोभिश्च तथैव च ॥९१॥
हस्तिदन्तेन सूर्याय दत्त्वा धूपमतः परम्॥
चतुर्थ्यन्तेन वै नाम्ना प्रणवाद्येन भार्गव॥
सहस्रशो गजाश्चात्र दक्षिणा काञ्चनं तथा ॥९२॥
यः स्वासते स्नानमिदं प्रकुर्वन्गजेन्द्रमुख्यान्गिरिसन्निकाशान्॥
बहूनवाप्नोति तथास्य नागा भवन्त्यरोगा विनिमुक्तदोषाः॥९३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने गजानां शान्तिकर्मविधानं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP