संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०५८

खण्डः २ - अध्यायः ०५८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच ॥
पौषशुक्लद्वितीयायां गवां शृङ्गोदकेन तु॥
स्नात्वा शुक्लाम्बरो भूत्वा सूर्येस्तं समुपागते ॥१॥
बालेन्दोः पूजनं कृत्वा गन्धमाल्यानुलेपनैः॥
धूपदीपनमस्कारैस्तथा चैवान्नसम्पदा ॥२॥
दध्ना च परमान्नेन गुडेन लवणेन च॥
पूजनैर्ब्राह्मणानां च पूजयित्वा निशाकरम् ॥३॥
यावदस्तं न यातीन्दुस्तावदेव समाचरेत्॥
आहारं गोरसप्रायमधःशायी निशं नयेत् ॥४॥
ततः संवत्सरे पूर्णे सौम्यमासे द्विजोत्तम॥
बालेन्दोः पूजनं कृत्वा ब्राह्मणानां च पूजनम् ॥५॥
वाससी रसकुम्भं च काञ्चनं च द्विजातये॥
दत्त्वा च पूजयित्वा च व्रतपारङ्गतो भवेत् ॥६॥
व्रतेनानेन धर्मज्ञ रोगमेवं व्यपोहति॥
सर्वसौख्यं तथा द्रव्यं पुष्टिं च मनुजोत्तम ॥७॥
कामं समाप्नोत्यथवैकमिष्टं येन व्रतेनाथ समस्तधर्मम्॥
अभ्यासतस्तस्य समस्तकामान्नरः समाप्नोति किमत्र चित्रम् ॥८ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने आरोयद्वितीयानामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP