संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|द्वितीय खण्डः|
अध्यायः ०५९

खण्डः २ - अध्यायः ०५९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुष्कर उवाच ॥
संवत्सरावसाने तु पञ्चदश्यामुपोषितः॥
पूजयेद्भास्करं देवं वर्णकैः कमले कृते ॥१॥
शुक्लेन गन्धमाल्येन चन्दनेन सितेन च॥
तथा कूर्मेण धूपेन घृतदीपेन भार्गव ॥२॥
अपूपैः सैकतैर्दध्ना परमान्नेन भूरिणा॥
ओदनेन च शुक्लेन सितालवणसर्पिषा ॥३॥
क्षीरेण च फलैः शुक्लैर्वह्निब्राह्मणतर्पणैः॥
पूजयित्वा जगद्धाम दिनभागे चतुर्थके ॥४॥
आहारं प्रथमं कुर्यात्सघृतं मनुजोत्तमः॥
रसं च मनुजश्रेष्ठ घृतहीनं विवर्जयेत् ॥५॥
भुक्त्वा च सकृदेवान्नं नाहारं समुपाचरेत्॥
पानीयपानं कुर्वीत ब्राह्मणानुमते पुनः ॥६॥
संवत्सरमिदं कृत्वा ततः कृत्वा त्रयोदशम्॥
पूजनं देवदेवस्य तस्मिन्नहनि भार्गव ॥७॥
समापयेद्व्रतं पुण्यं राम कुम्भं द्विजातये॥
सहिरण्यं सवस्त्रं च तथा दद्याद्द्विजोत्तम ॥८॥
व्रतेनानेन धर्मज्ञ रोगमेव व्यपोहति॥
आरोग्यमाप्नोति गतिं तथाग्र्यां यशस्तथाग्र्यं विपुलांश्च भोगान्॥
व्रतेन सम्यक्पुरुषो धनार्थी सम्पूजयेद्यश्च जगत्प्रधानम् ॥९॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अरोग्यप्रतिपन्नामैकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : December 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP