द्वितीयाः पाद: - सूत्र ४१

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अन्तवत्त्वमसर्वज्ञता वा ॥४१॥

अन्तवत्त्वमसर्वज्ञता वा ।
इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्चरस्य ।
स हि सर्वज्ञस्तैरभ्युपगभ्यतेऽनन्तश्च ।
अनन्तं च प्रधानमनन्ताश्च पुरुषा मिथो भिन्न अभ्युपगम्यन्ते ।
तत्र सर्वज्ञेनेश्वरेण प्रधानस्य पुरुषाणामात्मनश्चेयत्ता परिच्छिद्येत वा न वा परिच्छिद्येत उभयथापि दोषोऽनुषक्त एव । कथम् ।
पूर्वस्मिंस्तावद्विकल्प इयत्ता परिच्छिन्नत्वात्प्रधानपुरुषेश्वराणामन्तवत्त्वमवश्यंभावि ।
एवं लोके दृष्टत्वात् ।
यद्वि लोक इयत्तापारीच्छिन्न वस्तु पटादि तदन्तवद्दृष्टं तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापारीच्छिन्नत्वादन्तवत्स्यात् ।
संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम् ।
स्वरूपपरिमाणमपि तद्नतमीश्वरेण परिच्छिद्येतेति ।
पुरुषगता च महासंक्या ।
ततश्चेयत्तापरिच्छिन्नानां मध्ये ये संसारान्मुच्यन्ते तेषां संसारोऽन्तवान्त्संसारित्वं च तेषामन्तवत् ।
एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां चान्तवत्त्वं स्यात् ।
प्रधानं च सविकारं पुरुषार्थमीश्चरस्याधिष्ठेयं संसारित्वेनाभिमतं तच्छून्यतायामीश्वर: किमधितिष्ठेत् ।
किंविषये वा  सर्वज्ञतेश्वरते स्याताम् ।
प्रधानपुरुषेश्वराणां चैवमन्तवत्त्वे सत्यादिमत्त्वप्रसङ्ग: ।
आद्यन्तवत्त्वे च शून्य़वादप्रसङ्ग: ।
अथ मा भॄदेष दोष इत्युत्तरो ।
विकल्पोऽभ्युपगम्येत न प्रधानस्य पुरुषाणामत्मनश्चेयत्तेश्वरेण परिच्छिद्यत इति ।
तत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिरपरो दोष: प्रसज्येत ।
तस्मादप्यसङ्गतस्तार्किकपरिगृहीत ईश्वरकारणवाद: ॥४१॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP