द्वितीयाः पाद: - सूत्र २०

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


उत्तरोत्पादे च पूर्वनिरोधात् ॥२०॥

उत्तरोत्पादे च पूर्वनिरोधात् ।
उक्तमेतदविद्यादीनामुत्पत्तिमात्रनिमित्तत्वान्न सङ्घातसिद्धिरस्तीति तदपि तूत्पत्तिमात्रनिमित्तत्वं न संभवतीतीदमिदांनीमुपपाद्यते ।
क्षणभङ्गवादिनोऽयमभ्युपगम: ।
उत्तरस्मिन्क्षण उत्पद्यमाने पूर्वक्षणो निरुध्यत इति ।
न चैवमभ्युपगच्छता पूर्वोत्तरयो: क्षणयोर्हेतुफलभाव: शक्यते संपादयितुं निरुध्यमानस्य निरुद्धस्य वा पूर्वक्षणस्याभावग्रस्तत्वादुत्तरक्षणहेतुत्वानुपपत्ते: ।
अथ भावभूत: परिनिष्पन्नावस्थ: पूर्वक्षण उत्तरक्षणस्य हेतुरित्यभिप्रायस्तथापि नोपपद्यते ।
भावभूतस्य पुनर्व्यापारकल्पनायां क्षणान्तरसंबन्धप्रसङ्गात् ।
अथ भाव एवास्य व्यापार इत्यभिप्रायस्तथापि नैवोपपद्यते ।
हेतुस्वभावानुपरक्तस्य फलस्योत्पत्त्यसंभवात् ।
स्वभावोपरागाभ्युपगमे च हेतुस्वभावस्य फलकालावस्थायित्वे सति क्षणभङ्गाभ्युपगमत्यागप्रसङ्ग: ।
अपि चोत्पादनिरोधौ नाम वस्तुन: स्वरूपमेव वा स्यातामवस्थान्तरं वा वस्त्वन्तरमेव वा ।
सर्वथापि नोपपद्यते ।
यदि तावद्वस्तुन: स्वरूपमेवोत्पदनिरोधौ स्यातां ततो वस्तुशब्द उत्पादनिरोधशब्दौ च पर्याया: प्राप्नुयु: ।
अथास्ति कश्चिद्विशेष इति मन्येतोत्पादनिरोधशाब्दाभ्यां मध्यवर्तिनो वस्तुन आद्यन्ताख्ये अवस्थे अभिलप्येते इत्येवमप्याद्यन्तमध्यक्षणत्रसंबन्धित्वाद्वस्तुन: क्षणिकस्वाभ्युपगमहानि: ।
अथात्यन्तव्यतिरिकावेवोत्पादनिरोधौ वस्तुन: स्यातामश्चमहिषवत्ततो वस्तूत्पादनिरोधाभ्यामसंस्पृष्टमिति वस्तुन: शाश्चतत्वप्रसङ्ग ।
यदि च दर्शंनादर्शने वस्तुन उत्पादनिरोधौ स्यातामेवमपि द्रष्ट्टधर्मौ तौ न वस्तुधर्माविति वस्तुन: शाश्चतत्वप्रसङ्ग एव ।
तस्मादप्यसङ्गतं सौगतं मतम् ॥२०॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP