द्वितीयाः पाद: - सूत्र ३१

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


क्षणिकत्वाच्च ॥३१॥

क्षणिकत्वाच्चा ।
यदप्यालयविज्ञानं नाम वासनाश्रयत्वेन परिकल्पितं तदपिक्षणिकत्वाभ्युपगमादनवस्थितस्वरूपं सत्प्रवृत्तिविज्ञाअनवन्न वासनानामधिकरणं भवितुमर्हति ।
न हि कालत्रयसंबधिन्येकस्मिन्नन्वयिन्यसति कूटस्थे वा सर्वार्थदर्शिनि देशकालनिमित्तापेक्षवासनाधीनस्मृतिप्रतिसन्धानादिव्यवहार: संभवति ।
स्थिरस्वरूपत्वे त्वालयविज्ञनस्य सिद्धान्तहानि: ।
अपि च विज्ञानवादेऽपि क्षणिकत्वाभ्युपगमस्य समानत्वाद्यानि बाहयार्थवादे क्षणिकत्वनिबन्धनानि दूषणान्युद्भावितानि - उत्तरोत्पादे च पूर्वनिरोधा‍त - इत्येवमादीनि तानीहाप्यनुसंधातव्यानि ।
एवमेतौ द्वावपि वैनाशिकपक्षौ निराकृतौ बाहयार्थवादिपक्षो विज्ञानवादिपक्षश्च ।
शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादर: क्रियते ।
न हययं सर्वप्रमाणसिद्धो लोकवय्वहारोऽन्यत्तत्त्वमनधिगम्य शक्यतेपहनोतुमपवादाभाव उत्सर्गप्रसिद्धे: ॥३१॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP