द्वितीयाः पाद: - सूत्र ४०

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


करणवच्चेन्न भोगादिभ्य: ॥४०॥

करणवच्चेन्न भोगादिभ्य: ।
स्यादेतत् । यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूपादिहीनं च पुरुषोऽधितिष्ठत्येवं प्रधानमीश्वरोऽधिष्ठास्यतीति ।
तथापि नोपपद्यते ।
भोगादिदर्शनाद्धि करणग्रामस्याधिष्ठितत्वं गम्यते ।
न चात्र भोगादयो दृश्यन्ते ।
करणग्रामसाम्ये वाभ्युपगम्यमाने संसारिणामिवेश्वरस्यापि भोगादय: प्रसज्येरन् ।
अन्यथा वा सूत्रद्वयं व्याख्यायते ।
अधिष्ठानानुपपत्तेश्च ।
इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य ।
साधिष्ठानो हि लोके सशरीरो राजा राष्ट्रस्येश्वरो दृश्यते ।
न निरधिष्ठान: ।
अतश्च तद्दृष्टान्तवशेनादृष्टमीश्वरं कल्पयितुमिच्छत ईश्वरस्यापि किंचिच्छरीरं करणायतनं वर्णयितव्यं स्यात् ।
न च तद्वर्णयितुं शक्यते ।
सृष्टयुत्तरकालभावित्वाच्छरीरस्य प्राक्सृष्टेस्तदनुपपत्ते: ।
निरधिष्ठानत्वे चेश्वरस्य प्रवर्तकत्वानुपपत्ति: ।
एवं लोके दृष्टत्वात् ।
करणवच्चेन्न भोगादिभ्य: ।
अथ लोकदर्शनानुसारेणेश्रस्यापि किंचित्करणानामायतनं शरीरं कामेन कल्प्येत ।
एवमपि नोपपद्यते ।
सशरीरत्वे हि सति संसारिवद्भोगादिप्रसङ्गादीश्वरस्याप्यनीश्वरत्वं प्रसज्येत ॥४०॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP