द्वितीयाः पाद: - सूत्र १८

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


समुदाय उभयहेतुकेऽपि तदप्राप्ति: ॥१८॥

समुदाय उभयहेतुकेऽपि तदप्राप्ति: ।
वैशेषिकराद्धान्तो दुर्युक्तियोगाद्वेदविरोधाच्छिष्टापरिग्रहाच्च नापेक्षितव्य इत्युक्तम् ।
सोऽर्धवैनाशिक इति वैनाशिकत्वसाम्यात्सर्ववैनाशिकराद्धान्तो नतरामनपेक्षितव्य इतीदमिदानीमुपपादयाम: ।
स च बहुप्रकार: प्रतिपत्तिभेदाद्विनेयभेदाद्वा ।
तत्रैते त्रयो वादिनो भवन्ति ।
केचित्सर्वास्तित्ववादिन: केचिद्विज्ञानास्तित्वमात्रवादिनोऽन्ये पुन: सर्वशून्यत्ववादिन इति ।
तत्र ये सर्वास्तित्ववादिनो बाम्हामान्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकं चित्तं चैतं च तांस्तावत्प्रति ब्रूम: ।
तत्र भूंत पृथिवीधात्वादय: ।
भौतिकं रूपादयश्चक्षुरादयश्च ।
चतुष्टये च पृथिव्यादिपरमाणव: खरस्नेहोष्णेरणस्वभावास्ते पृथिव्यादिभावेन संहन्यन्त इति मन्यन्ते ।
तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञका: पञ्च स्कन्धा: ।
तेऽप्याध्यात्मं सर्वव्यवहारास्पदभावेन संहन्यन्त इति मन्यन्ते ।
तत्रेदमभिधीयते ।
योऽयमुभयहेतुक उभयप्रकार: समुदाय: परेषामभिप्रेतोऽणुहेतुकश्च भूतभौतिकसंहतिरूप: स्कन्धहेतुकश्च पञ्चस्कन्धीरूपस्तस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे तदप्राप्ति: स्यात्समुदायाप्राप्ति: ।
समुदाययभावान्पपत्तिरित्यर्थ: । कृत: ।
समुद्रायिनामचेतनत्वात् ।
चित्ताभिज्वलनस्य च समुद्रायसिहयधीनत्वात् ।
अन्यस्य च कस्य चिच्चेतनस्य भोक्तु: प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्य़ुपगमात् । निरपेक्शप्रवृत्त्यभ्युपगमे च प्रवृत्त्यनुपरमप्रसङगात् । आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात् ।
क्षणिकत्वाभ्युपगमाच्च निर्व्यापारत्वात्प्रवृत्त्यनुपपत्ते: ।
तस्मात्समुदायानुपपत्ति: ।
समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्येत ॥१८॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP