द्वितीयाः पाद: - सूत्र ९

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥९॥

अन्यथानुमितौ च जशक्तिवियोगात् ।
अथापि स्यादन्यथा वयमनुमिमीमहे यथा नायमनन्तरो दोष: प्रसज्येत ।
न हयनपेषस्वभावा: कूटस्थाश्चास्माभिर्गुणा अभ्युपगम्यन्ते प्रमाणाभावात् ।
कार्यवशेन तु गुणानां स्वभावोऽभ्य्पगम्यते यथा यथा कार्योत्पाद उपपद्यते तथा तथैतेषां स्वभावोऽभ्युपगम्यते ।
चलं गुणवृत्तमिति चास्त्यभ्युपगम ।
तस्मात्साम्यावस्थायामपि वैषम्योपगमयोग्या एव गुणा अवतिष्ठन्त इति ।
एवमपि प्रधानस्य ज्ञशक्तिवियोगाद्रचनानुपपत्त्यादय: पूर्वोक्ता दोषास्तदवस्था एव ।
ज्ञशक्तिमपि त्वनुमिमान: प्रतिंवादित्वान्निवर्तेत ।
चेतनमेकमनेकप्रपञ्चस्य जगत उपाद्यनमिति ब्रम्हावादप्रसङ्गात् ।
वैषम्योपगमयोग्या अपि गुणा: साम्यावस्थायां निमित्ताभावान्नैव वैषम्यं भजेरन् ।
भजमाना वा निमित्ताभावाविशेषात्सर्वदैव वैषम्यं भजेरन्निति प्रसज्यत एवायमनन्तरोऽपि दोष: ॥९॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP