संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः १०६

पूर्वभागः - अध्यायः १०६

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


ऋषयः ऊचुः ॥
नृत्यारंभः कथं शंभोः किमर्थं वा यथातथम् ॥
वक्तुमर्हसि चास्माकं श्रुतः स्कंदाग्रजोद्भवः ॥१॥

सूत उवाच ॥
दारुकोऽसुरसंभूतस्तपसा लब्धविक्रमः ॥
सूदयामास कालाग्निरिव देवान्द्विजोत्तमान् ॥२॥

दारुकेण तदा देवास्ताडिताः पीडिता भृशम् ॥
ब्रह्माणं च तथेशानं कुमारं विष्णुमेव च ॥३॥

यममिंद्रमनुप्राप्य स्त्रीवध्य इति चासुरः ॥
स्त्रीरूपधारिभिः स्तुत्यैर्ब्रह्माद्यैर्युधि संस्थितैः ॥४॥

बाधितास्तेन ते सर्वे ब्रह्माणं प्राप्य वै द्विजाः ॥
विज्ञाप्य तस्मै तत्सर्वं तेन सार्धमुमापतिम् ॥५॥

संप्राप्य तुष्टुवुः सर्वे पितामहपुरोगमाः ॥
ब्रह्मा प्राप्य च देवेशं प्रणम्य बहुधानतः ॥६॥

दारुणो भगवान्दारुः पूर्वं तेन विनिर्जिताः ॥
निहत्य दारुकं दैत्यं स्त्रीवध्यं त्रातुमर्हसि ॥७॥

विज्ञप्तिं ब्रह्मणः श्रुत्वा भगवान् भगनेत्रहा ॥
देवीमुवाच देवेशो गिरिजां प्रजसन्निव ॥८॥

भवतीं प्रार्थयाम्यद्य हिताय जगतां शुभे ॥
वधार्थं दारुकस्यास्य स्त्रीवध्यस्य वरानने ॥९॥

अथ सा तस्य वचनं निशम्य जगतोरणिः ॥
विवेश देहे देवस्य देवशी जन्मतत्परा ॥१०॥

एकेनांशेन देवेशं प्रविष्टा देवसत्तमम् ॥
न विवेद तदा ब्रह्मा देवाश्चेंद्रपुरोगमाः ॥११॥

गिरिजां पूर्ववच्छंभोर्दृष्ट्वा पार्श्वस्थितां शुभाम् ॥
मायया मोहितस्तस्याः सर्वज्ञोपि चतुर्मुखः ॥१२॥

सा प्रविष्टातनुं तस्य देवदेवस्य पार्वती ॥
कंठस्थेन विषेणास्य तनुं चक्रे तदात्मनः ॥१३॥

तां च ज्ञात्वा तथाभूतां तृतीयेनेक्षणेन वै ॥
ससर्ज कालीं कामारिः कालकंठीं कपर्दिनीम् ॥१४॥

जाता यदा कालिमकालकंठी जाता तदानीं विपुला जयश्रीः ॥
देवेतराणामजयस्त्वसिद्ध्या तुष्टिर्भवान्याः परमेश्वरस्य ॥१५॥

जातां तदानीं सुरसिद्धसंघा दृष्ट्वा भयाद्दुद्रुवुरग्निकल्पाम् ॥
कालीं गरालंकृतकालकंठीमुपेंद्रपद्मोद्भवशक्रमुख्याः ॥१६॥

तथैव जातं नयनं ललाटे सितांशुलेखा च सिरस्युदग्रा ॥
कंठे करालं निशितं त्रिशूलं करे करालं च विभूषणानि ॥१७॥

सार्धं दिव्यांबरा देव्याः सर्वारणभूषिताः ॥
सिद्धेंद्रसिद्धाश्च तथा पिशाचा जज्ञिरे पुनः ॥१८॥

आज्ञया दारुकं तस्याः पार्वत्याः परमेश्वरी ॥
दानवं सूदयामास सूदयन्तं सुराधिपान् ॥१९॥

संरंभातिप्रसंगाद्वै तस्याः सर्वमिदं जगत् ॥
क्रोधाग्निना च विप्रेंद्राः संबभूव तदातुरम् ॥२०॥

भवोपि बालरूपेण श्मशाने प्रेतसंकुले ॥
रुरोद मायया तस्याः क्रोधाग्निं पातुमीश्वरः ॥२१॥

तं दृष्ट्वा बालमीशानं मायया तस्य मोहिता ॥
उत्थाप्याघ्राय वक्षोजं स्तनं सा प्रददौ द्विजाः ॥२२॥

स्तनजेन तदा सार्धं कोपमस्याः पपौ पुनः ॥
क्रोधेनानेन वै बालः क्षेत्राणां रक्षकोऽभवत् ॥२३॥

मूर्तयोऽष्टौ च तस्यापि क्षेत्रपालस्य धीमतः ॥
एवं वै तेन बालेन कृता सा क्रोधमूर्च्छिता ॥२४॥

कृतमस्याः प्रसादार्थं देवदेवेन तांडवम् ॥
संध्यायां सर्वभूतेन्द्रैः प्रेतैः प्रीतेन शूलिना ॥२५॥

पीत्वा नृत्तामृतं शंभोराकंठं परमेश्वरी ॥
ननर्त सा च योगिन्यः प्रेतस्थाने यथासुखम् ॥२६॥

तत्र सब्रह्मका देवाः सेंद्रोपेंद्राः समंततः ॥
प्रणेमुस्तुष्टुवुः कालीं पुनर्देवीं च पार्वतीम् ॥२७॥

एवं संक्षेपतः प्रोक्तं तांडवं शूलिनः प्रभोः ॥
योगानंदेन च विभोस्तांडवं चेति चापरे ॥२८॥

इति श्रीलिंगo पूर्वo शिवतांडवकथनं नाम षडधिकशततमोऽध्यायः ॥१०६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP