संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ८१

पूर्वभागः - अध्यायः ८१

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


ऋषय ऊचुः ॥
व्रतमेतत्त्वया प्रोक्तं पशुपाशविमोक्षणम् ॥
पूर्वभागे पाशुपतव्रतमाहात्म्यं नामाशीतितमोध्यायः ॥१॥

वक्तुमर्हसि चास्माकं यथापूर्वं त्वया श्रुतम् ॥
सूत उवाच ॥
पुरा सनत्कुमारेण पृष्टः शैलादिरादरात् ॥२॥

नंदी प्राह वचस्तस्मै प्रवदामि समासतः ॥
देवैर्दैत्यैस्तथा सिद्धैर्गंधर्वैः सिद्धचारणैः ॥३॥

मुनिभिश्च महाभागैरनुष्ठितमनुत्तमम् ॥
व्रतं द्वादशलिंगाख्यं पशुपाशविमोक्षणम् ॥४॥

भोगदं योगदं चैव कामदं मुक्तिदं शुभम् ॥
अवियोगकरं पुण्यं भक्तानां भयनाशनम् ॥५॥

षडंगसहितान् वेदान्मथित्वा तेन निर्मितम् ॥
सर्वदानोत्तमं पुण्यमश्वमेधायुताधिकम् ॥६॥

सर्वमंगलदं पुण्यं सर्वशत्रुविनाशनम् ॥
संसारार्णवमग्नानां जंतूनामपि मोक्षदम् ॥७॥

सर्वव्याधिहरं चैव सर्वज्वरविनाशनम् ॥
देवैरनुष्ठितं पूर्वं ब्रह्मणा विष्णुना तथा ॥८॥

कृत्वाऽकनीयसं लिंगंस्नाप्य चंदनवारिणा ॥
चैत्रमासादि विप्रेंद्राः शिवलिंगव्रतं चरेत् ॥९॥

कृत्वा हैमं शुभं पद्मं कर्णिकाकेसरान्वितम् ॥
नवरत्नैश्च खचितमष्टपत्रं यथाविधि ॥१०॥

कर्णिकायां न्यसेल्लिंगं स्फाटिकं पीठसंयुतम् ॥
तत्र भक्त्या यथान्यायमर्चयेद्बिल्वपत्रकैः ॥११॥

सितैः सहस्रकमलै रक्तैर्नीलोत्पलैरपि ॥
श्वेतार्ककर्णिकारैश्च करवीरैर्बकैरपि ॥१२॥

एतैरन्यैर्यथालाभं गायत्र्या तस्य सुव्रताः ॥
संपूज्य चैव गंधाद्यैर्धूपैर्दीपैश्च मंगलैः ॥१३॥

नीराजनाद्यैश्चान्यैश्च लिंगमूर्ति महेश्वरम् ॥
अगरुं दक्षिणे दद्यादघोरेण द्विजोत्तमाः ॥१४॥

पश्चिमे सद्यमंत्रेण दिव्यां चैव मनःशिलाम् ॥
उत्तरे वामदेवेन चंदनं वापि दापयेत् ॥१५॥

पुरुषेण मुनिश्रेष्ठा हरितालं च पूर्वतः ॥
सितागरूद्भवं विप्रास्तथा कृष्णागरूद्भवम् ॥१६॥

तथा गुग्गुलुधूपं च सौगंधिकमनुत्तमम् ॥
सितारं नाम धूपं च दद्यदीशाय भक्तितः ॥१७॥

महाचरुर्निवेद्यः स्यादाढकान्नमथापि वा ॥
एतद्वः कथितं पुण्यं शिवलिंगमहाव्रतम् ॥१८॥

सर्वमासेषु सामान्यं विशेषोपि च कीर्त्यते ॥
वैशाखे वज्रलिंगं च ज्येष्ठे मारकतं तथा ॥१९॥

आषाढं मौक्तिकं लिंगं श्रावणे नीलनिर्मितम् ॥
मासि भाद्रपदे लिंगं पद्मरागमयं शुभम् ॥२०॥

आश्विने चैव विप्रेंद्राः गोमेदकमयं शुभम् ॥
प्रवलेनैव कार्तिक्यां तथा वै मार्गशीर्षके ॥२१॥

वैडूर्यनिर्मितंलिंगं पुष्परागेण पुष्यके ॥
माघे च सूर्यकांतेन फाल्गुने स्फाटिकेन च ॥२२॥

सर्वमासेषु कमलं हैममेकं विधीयते ॥
अलाभे राजतं वापि केवलं कमलं तु वा ॥२३॥

रत्नानामप्यलाभे तु हेम्ना वा राजतेन वा ॥
रजतस्याप्यलाभे तु ताम्रलोहेन कारयेत् ॥२४॥

शैलं वा दारुजं वापि मृन्मयं वा सवेदिकम् ॥
सर्वगंधमयं वापि क्षाणिकं परिकल्पयेत् ॥२५॥

हैमंतिके महादेवं श्रीपत्रेणैव पूजयेत् ॥
सर्वमासेषु कमलं हैममेकमथापि वा ॥२६॥

राजतं वापि कमलं हैमकर्णिकमुत्तमम् ॥
राजतस्याप्यभावे तु बिल्वपत्रैः समर्चयेत् ॥२७॥

सहस्रकमलालाभेतदर्धेनापि पूजयेत् ॥
तदर्धार्धेन वा रुद्रमष्टोत्तरशतेन वा ॥२८॥

बिल्वपत्रे स्थिता लक्ष्मीर्देवी लक्षणसंयुता ॥
नीलोत्पलेंबिका साक्षादुत्पले षण्मुखः स्वयम् ॥२९॥

पद्माश्रिता महादेवः सर्वदेवपतिः शिवः ॥
तस्मात्सर्वप्रयत्नेन श्रीपत्रं न त्यजेद्बुधः ॥३०॥

नीलोत्पलं चोत्पलं च कमलं च विशेषतः ॥
सर्ववश्यकरं पद्मं शिला सर्वार्थसिद्धिदा ॥३१॥

कृष्णागरुसमुद्भूतं सर्वपापनिकृंतनम् ॥
गुग्गुलु प्रभृतीनां च दीपानां च निवेदनम् ॥३२॥

सर्वरोगक्षयं चैव चंदनं सर्वसिद्धिदम् ॥
सौगंधिकं तथा धूपं सर्वकामार्थसाधकम् ॥३३॥

श्वेतागरूद्भवं चैव तथा कृष्णागरूद्भवम् ॥
सौम्यं सीतारिधूपं च साक्षान्निर्वाणसिद्धिदम् ॥३४॥

श्वेतार्ककुसुमे साक्षाच्चतुर्वक्त्रः प्रजापतिः ॥
कर्णिकारस्य कुसुमे मेधा साक्षाद्व्यवस्थिता ॥३५॥

करवीरे गणाध्यक्षो बके नारायणः स्वयम् ॥
सुगंधिषु च सर्वेषु कुसुमेषु नगात्मजा ॥३६॥

तस्मादेतैर्यथालाभं पुष्पधूपादिभिः शुभैः ॥
पूजयेद्देवदेवेशं भक्त्या वित्तानुसारतः ॥३७॥

निवेदयेत्ततो भक्त्या पायसं च महाचरुम् ॥
सघृतं सोपदंशं च सर्वद्रव्यसमन्वितम् ॥३८॥

शुद्धान्नं वापि मुद्गान्नमाढकं चार्धकं तु वा ॥
चामरं तालवृंतं च तस्मै भक्त्या निवेदयेत् ॥३९॥

उपहाराणि पुण्यानि न्यायेनैवार्जितान्यपि ॥
नानाविधानि चार्हाणि प्रोक्षितान्यंभसा पुनः ॥४०॥

निवेदयेच्चरुद्राय भक्तियुक्तेन चेतसा ॥
क्षीराद्वै सर्वदेवानां स्थित्यर्थममृतं ध्रुवम् ॥४१॥

विष्णुना जिष्णुना साक्षादन्ने सर्वं प्रतिष्ठितम् ॥
भूतानामन्नदानेन प्रीतिर्भवति शंकरे ॥४२॥

तस्मात्संपूजयेद्देवमन्ने प्राणाः प्रतिष्ठिताः ॥
उपहारे तथा तुष्टिर्व्यंजने पवनः स्वयम् ॥४३॥

सर्वात्मको महादेवो गंधतोये ह्यपांपतिः ॥
पीठे वै प्रकृतिः साक्षान्महदाद्यैर्व्यवस्थिता ॥४४॥

तस्माद्देवं यजेद्भक्त्या प्रतिमासं यथाविधि ॥
पौर्णमास्यांव्रतं कार्यं सर्वकामार्थसिद्धये ॥४५॥

सत्यं शौचं दया शांतिः संतोषो दानमेव च ॥
पौर्णमास्याममावास्यामुपवासं च कारयेत् ॥४६॥

संवत्सरांते गोदानं वृषोत्सर्गं विशेषतः ॥
भोजयेद्ब्राह्मणान्भक्त्या श्रोत्रियान् वेदपारगान् ॥४७॥

तल्लिंगं पूजितं तेन सर्वद्रव्यसमन्वितम् ॥
स्थापयेद्वा शिवक्षेत्रे दापयेद्ब्राह्मणाय वा ॥४८॥

य एवं सर्वमासेषु शिवलिंगमहाव्रतम् ॥
कुर्याद्भक्त्या मुनिश्रेष्ठाः स एव तपतां वरः ॥४९॥

सूर्यकोटिप्रतीकाशैर्विमानै रत्नभूषितैः ॥
गत्वा शिवपुरं दिव्यं नेहायाति कदाचन ॥५०॥

अथवा ह्येकमासं वा चरेदेवं व्रतोत्तमम् ॥
शिवलोकमवाप्नोति नात्र कार्या विचारणा ॥५१॥

अथवा सक्तचित्तश्चेद्यान्यान् संचिंतयेद्वरान् ॥
वर्षमेकं चरेदेवं तांस्तान्प्राप्य शिवंव्रजेत् ॥५२॥

देवत्वं वा पितृत्वं वा देवराजत्वमेव च ॥
गाणपत्यपदं वापि सक्तोपि लभते नरः ॥५३॥

विद्यार्थी लभते विद्यां भोगार्थि भोगमाप्नुयात् ॥
द्रव्यार्थी च निधिं पश्येदायुःकामश्चिरायुषम् ॥५४॥

यान्यांश्चिंतयते कामांस्तांस्तान्प्राप्येह मोदते ॥
एकमासव्रतादेव सोंते रुद्रत्वमाप्नुयात् ॥५५॥

इदं पवित्रं परमं रहस्यं व्रतोत्तमं विश्वसृजापि सृष्टम् ॥
हिताय देवासुरसिद्धमर्त्यविद्याधराणां परमं शिवेन ॥५६॥

संपूज्य पूज्यं विधिनैवमीशं प्रणम्य मूर्ध्ना सह भृत्यपुत्रैः ॥
व्यपोहनं नाम जपेत्स्तवं च प्रदक्षिणं कृत्य शिवं प्रयत्नात् ॥५७॥

पुराकृतं विश्वसृजा स्तवं च हिताय देवेन जगत्त्रयस्य ॥
पितामहेनैव सुरैश्व सार्धं महानुभावेन महार्घ्यमेतत् ॥५८॥

इति श्रीलिंगमहापुराणे पूर्वभागे पशुपाशविमोचनलिंगपूजादिकथनं नामैकाशीतितमोध्यायः ॥८१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP