अर्थशास्त्रम् अध्याय ०२ - भाग ४

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

४.०१
त्रयः प्राचीना राज.मार्गास् त्रय उदीचीना इति वास्तु.विभागः ॥

४.०२
स द्वादश.द्वारो युक्त.उदक.भ्रमच्.छन्न.पथः ॥

४.०३
चतुर्.दण्ड.अन्तरा रथ्याः ॥

४.०४
राज.मार्ग.द्रोण.मुख.स्थानीय.राष्ट्र.विवीत.पथाः सम्यानीय.व्यूह.श्मशान.ग्राम.पथाश् च_अष्ट.दण्डाः ॥

४.०५
चतुर्.दण्डः सेतु.वन.पथः, द्वि.दण्डो हस्ति.क्षेत्र.पथः, पञ्च.अरत्नयो रथ.पथः, चत्वारः पशु.पथः, द्वौ क्षुद्र.पशु.मनुष्य.पथः ॥

४.०६
प्रवीरे वास्तुनि राज.निवेशश् चातुर्वर्ण्य.समाजीवे ॥

४.०७
वास्तु.हृदयाद् उत्तरे नव.भागे यथा.उक्त.विधानम् अन्तःपुरं प्रान्.मुखम् उदन्.मुखं वा कारयेत् ॥

४.०८
तस्य पूर्व.उत्तरं भागम् आचार्य.पुरोहित.इज्या.तोय.स्थानं मन्त्रिणश् च_आवसेयुः, पूर्व.दक्षिणं भाग्म् महानसं हस्ति.शाला कोष्ठ.अगारं च ॥

४.०९
ततः परं गन्ध.माल्य.रस.पण्याः प्रसाधन.कारवः क्षत्रियाश् च पूर्वां दिशम् अधिवसेयुः ॥

४.१०
दक्षिण.पूर्वं भागं भाण्ड.अगारम् अक्ष.पटलं कर्म.निषद्याश् च, दक्षिण.पश्चिमं भागं कुप्य.गृहम् आयुध.अगारं च ॥

४.११
ततः परं नगर.धान्य.व्यावहारिक.कार्मान्तिक.बल.अध्यक्षाः पक्व.अन्न.सुरा.मांस.पण्या रूपाजीवास् तालावचरा वैश्याश् च दक्षिणां दिशम् अधिवसेयुः ॥

४.१२
पश्चिम.दक्षिणं भागं खर.उष्ट्र.गुप्ति.स्थानं कर्म.गृहं च, पश्चिम.उत्तरं भागं यान.रथ.शालाः ॥

४.१३
ततः परम् ऊर्णा.सूत्र.वेणु.चर्म.वर्म.शस्त्र.आवरण.कारवः शूद्राश् च पश्चिमां दिशम् अधिवसेयुः ॥

४.१४
उत्तर.पश्चिमं भागं पण्य.भैषज्य.गृहम्, उत्तर.पूर्वं भागं कोशो गव.अश्वं च ॥

४.१५
ततः परं नगर.राज.देवता.लोह.मणि.कारवो ब्राह्मणाश् च_उत्तरां दिशम् अधिवसेयुः ॥

४.१६
वास्तुच्.छिद्र.अनुशालेषु श्रेणी.प्रपणि.निकाया आवसेयुः ॥

४.१७
अपर.अजित.अप्रतिहत.जयन्त.वैजयन्त.कोष्ठान् शिव.वैश्रवण.अश्वि.श्री.मदिरा.गृहाणि च पुर.मध्ये कारयेत् ॥

४.१८
यथा.उद्देशं वास्तु.देवताः स्थापयेत् ॥

४.१९
ब्राह्म.ऐन्द्र.याम्य.सैनापत्यानि द्वाराणि ॥

४.२०
बहिः परिखाया धनुः.शत.अपकृष्टाश् चैत्य.पुण्य.स्थान.वन.सेतु.बन्धाः कार्याः, यथा.दिशं च दिग्.देवताः ॥

४.२१
उत्तरः पूर्वो वा श्मशान.भागो वर्ण.उत्तमानाम्, दक्षिणेन श्मशानं वर्ण.अवराणाम् ॥

४.२२
तस्य_अतिक्रमे पूर्वः साहस.दण्डः ॥

४.२३
पाषण्ड.चण्डालानां श्मशान.अन्ते वासः ॥

४.२४
कर्म.अन्त.क्षेत्र.वशेन कुटुम्बिनां सीमानं स्थापयेत् ॥

४.२५
तेषु पुष्प.फल.वाटान् धान्य.पण्य.निचयांश् च_अनुज्ञाताः कुर्युः ॥

४.२६
दश.कुली.वाटं कूप.स्थानम् ॥

४.२७
सर्व.स्नेह.धान्य.क्षार.लवण.गन्ध.भैषज्य.शुष्क.शाक.यवस.वल्लूर.तृण.काष्ठ.लोह.चर्म.अङ्गार.स्नायु.विष.विषाण.वेणु.वल्कल.सार.दारु.प्रहरण.आवरण.अश्म.निचयान् अनेक.वर्ष.उपभोग.सहान् कारयेत् ॥

४.२८
नवेन_अनवं शोधयेत् ॥

४.२९
हस्ति.अश्व.रथ.पादातम् अनेक.मुख्यम् अवस्थापयेत् ॥

४.३०
अनेक.मुख्यं हि परस्पर.भयात् पर.उपजापं न_उपैति ॥

४.३१
एतेन_अन्त.पाल.दुर्ग.संस्कारा व्याख्याताः ॥

४.३२
न च बाहिरिकान् कुर्यात् पुरे राष्ट्र.उपघातकान् ।

४.३२
क्षिपेज् जन.पदे च_एतान् सर्वान् वा दापयेत् करान् ॥ E

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP