अर्थशास्त्रम् अध्याय ०२ - भाग ३४

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

३४.०१
मुद्रा.अध्यक्षो मुद्रां माषकेण दद्यात् ॥

३४.०२
स-मुद्रो जन.पदं प्रवेष्टुं निष्क्रमितुं वा लभेत ॥

३४.०३
द्वादश.पणम् अमुद्रो जानपदो दद्यात् ॥

३४.०४
कूट.मुद्रायां पूर्वः साहस.दण्डः तिरो.जन.पदस्य_उत्तमः ॥

३४.०५
विवीत.अध्यक्षो मुद्रां पश्येत् ॥

३४.०६
ग्राम.अन्तरेषु च विवीतं स्थापयेत् ॥

३४.०७
चोर.व्याल.भयान्.निम्न.अरण्यानि शोधयेत् ॥

३४.०८
अनुदके कूप.सेतु.बन्ध.उत्सान् स्थापयेत्, पुष्प.फल.वाटांश् च ॥

३४.०९
लुब्धक.श्व.गणिनः परिव्रजेयुर् अरण्यानि ॥

३४.१०
तस्कर.अमित्र.अभ्यागमे शङ्ख.दुन्दुभि.शब्दम् अग्राह्याः कुर्युः शैल.वृक्ष.अधिरूढा वा शीघ्र.वाहना वा ॥

३४.११
अमित्र.अटवी.संचारं च राज्ञो गृह.कपोतैर् मुद्रा.युक्तैर् हारयेत्, धूम.अग्नि.परम्परया वा ॥

३४.१२
द्रव्य.हस्ति.वन.आजीवं वर्तनीं चोर.रक्षणम् ।

३४.१२
सार्थ.अतिवाह्यं गो.रक्ष्यं व्यवहारं च कारयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP