अर्थशास्त्रम् अध्याय ०२ - भाग १८

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

१८.०१
आयुध.अगार.अध्यक्षः सांग्रामिकं दौर्गकर्मिकं पर.पुर.अभिघातिकं च यन्त्रम् आयुधम् आवरणम् उपकरणं च तज्.जात.कारु.शिल्पिभिः कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः कारयेत्, स्व.भूमिषु च स्थापयेत् ॥

१८.०२
स्थान.परिवर्तनम् आतप.प्रवात.प्रदानं च बहुशः कुर्यात् ॥

१८.०३
ऊष्म.उपस्नेह.क्रिमिभिर् उपहन्यमानम् अन्यथा स्थापयेत् ॥

१८.०४
जाति.रूप.लक्षण.प्रमाण.आगम.मूल्य.निक्षेपैश् च_उपलभेत ॥

१८.०५
सर्वतो.भद्र.जामदग्न्य.बहु.मुख.विश्वास.घाति.संघाटी.यानक.पर्जन्यक.बाहु.ऊर्ध्व.बाह्व्.अर्ध.बाहूनि स्थित.यन्त्राणि ॥

१८.०६
पाञ्चालिक.देव.दण्ड.सूकरिका.मुसल.यष्टि.हस्ति.वारक.ताल.वृन्त.मुद्गर.गदा.स्पृक्तला.कुद्दाल.आस्फाटिम.उत्पाटिम.उद्घाटिम.शतघ्नि.त्रि.शूल.चक्राणि चल.यन्त्राणि ॥

१८.०७
शक्ति.प्रास.कुन्त.हाटक.भिण्डि.पाल.शूल.तोमर.वराह.कर्ण.कणय.कर्पण.त्रासिक.आदीनि च हुल.मुखानि ॥

१८.०८
ताल.चाप.दारव.शार्ङ्गाणि कार्मुक.कोदण्ड.द्रूणा धनूंषि ॥

१८.०९
मूर्वा.अर्क.शन.गवेधु.वेणु.स्नायूनि ज्याः ॥

१८.१०
वेणु.शर.शलाका.दण्ड.आसन.नाराचाश् च_इषवः ॥

१८.११
तेषां मुखानि छेदन.भेदन.ताडनान्य् आयस.अस्थि.दारवाणि ॥

१८.१२
निस्त्रिंश.मण्डल.अग्र.असि.यष्टयः खड्गाः ॥

१८.१३
खड्ग.महिष.वारण.विषाण.दारु.वेणु.मूलानि त्सरवः ॥

१८.१४
परशु.कुठार.पट्टस.खनित्र.कुद्दाल.क्रकच.काण्डच्.छेदनाः क्षुर.कल्पाः ॥

१८.१५
यन्त्र.गोष्पण.मुष्टि.पाषाण.रोचनी.दृषदश् च_अश्म.आयुधानि ॥

१८.१६
लोह.जालिका.पट्ट.कवच.सूत्र.कङ्कट.शिंशुमारक.खड्गि.धेनुक.हस्ति.गो.चर्म.खुर.शृङ्ग.संघातं वर्माणि ॥

१८.१७
शिरस्.त्राण.कण्ठ.त्राण.कूर्पास.कञ्चुक.वार.वाण.पट्ट.नाग.उदरिकाः पेटी.चर्म.हस्ति.कर्ण.ताल.मूल.धमनि.काक.पाट.किटिका.अप्रतिहत.बलाह.कान्ताश् च_आवरणाणि ॥

१८.१८
हस्ति.रथ.वाजिनां योग्या.भाण्डम् आलंकारिकं सम्नाह.कल्पनाश् च_उपकरणानि ॥

१८.१९
ऐन्द्रजालिकम् औपनिषदिकं च कर्म ॥

१८.२०
कर्म.अन्तानां च - इच्छाम् आरम्भ.निष्पत्तिं प्रयोगं व्याजम् उद्दयम् ।

१८.२०
क्षय.व्ययौ च जानीयात् कुप्यानाम् आयुध.ईश्वरः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP