अर्थशास्त्रम् अध्याय ०२ - भाग ३०

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

३०.०१
अश्व.अध्यक्षः पण्य.आगारिकं क्रय.उपागतम् आहव.लब्धम् आजातं साहाय्य.आगतकं पण.स्थितं यावत्.कालिकं वा_अश्व.पर्यग्रं कुल.वयो.वर्ण.चिह्न.वर्ग.आगमैर् लेखयेत् ॥

३०.०२
अप्रशस्त.न्यङ्ग.व्याधितांश् च_आवेदयेत् ॥

३०.०३
कोश.कोष्ठ.अगाराभ्यां च गृहीत्वा मास.लाभम् अश्व.वाहश् चिन्तयेत् ॥

३०.०४
अश्व.विभवेन_आयताम् अश्वायाम् अद्वि.गुण.विस्तारां चतुर्.द्वार.उपावर्तन.मध्यां स-प्रग्रीवां प्रद्वार.आसन.फलक.युक्तानां वानर.मयूर.पृषत.नकुल.चकोर.शुक.सारिक.आकीर्णां शालां निवेशयेत् ॥

३०.०५
अश्वायाम् अचतुर्.अश्र.श्लक्ष्ण.फलक.आस्तारं स-खादन.कोष्ठकं स-मूत्र.पुरीष.उत्सर्गम् एक.एकशः प्रान्.मुखम् उदन्.मुखं वा स्थानं निवेशयेत् ॥

३०.०६
शाला.वशेन वा दिग्.विभागं कल्पयेत् ॥

३०.०७
वडवा.वृष.किशोराणाम् एक.अन्तेषु ॥

३०.०८
वडवायाः प्रजतायास् त्रि.रात्रं घृत.प्रस्थः पानम् ॥

३०.०९
अत ऊर्ध्वं सक्तु.प्रस्थः स्नेह.भैषज्य.प्रतिपानं दश.रात्रम् ॥

३०.१०
ततः पुलाको यवसम् आर्तवश् च_आहारः ॥

३०.११
दश.रात्राद् ऊर्ध्वं किशोरस्य घृत.चतुर्.भागः सक्तु.कुडुबः क्षीर.प्रस्थश् च_आहार आ.षण्.मासात् ॥

३०.१२
ततः परं मास.उत्तरम् अर्ध.वृद्धिर् यव.प्रस्थ आ.त्रि.वर्षात्, द्रोण आ.चतुर्.वर्षात् ॥

३०.१३
अत ऊर्ध्वं चतुर्.वर्षः पञ्च.वर्षो वा कर्मण्यः पूर्ण.प्रमाणः ॥

३०.१४
द्वात्रिंशद्.अङ्गुलं मुखम् उत्तम.अश्वस्य, पञ्च.मुखान्य् आयामो, विंशत्य्.अङ्गुला जङ्घा, चतुर्.जङ्घ उत्सेधः ॥

३०.१५
त्र्य्.अङ्गुल.अवरं मध्यम.अवरयोः ॥

३०.१६
शत.अङ्गुलः परिणाहः ॥

३०.१७
पञ्च.भाग.अवरो मध्यम.अवरयोः ॥

३०.१८
उत्तम.अश्वस्य द्वि.द्रोणं शालि.व्रीहि.यव.प्रियङ्गूणाम् अर्ध.शुष्कम् अर्ध.सिद्धं वा मुद्ग.माषाणां वा पुलाकः स्नेह.प्रस्थश् च, पञ्च.पलं लवणस्य, मांसं पञ्चाशत्.पलिकं रसस्य_आढकं द्वि.गुणं वा दध्नः पिण्ड.क्लेदन.अर्थम्, क्षार.पञ्च.पलिकः सुरायाः प्रस्थः पयसो वा द्वि.गुणः प्रतिपानम् ॥

३०.१९
दीर्घ.पथ.भार.क्लान्तानां च खादन.अर्थं स्नेह.प्रस्थो_अनुवासनं कुडुबो नस्य.कर्मणः, यवसस्य_अर्ध.भारस् तृणस्य द्वि.गुणः षड्.अरत्नि.परिक्षेपः पुञ्जील.ग्रहो वा ॥

३०.२०
पाद.अवरम् एतन् मध्यम.अवरयोः ॥

३०.२१
उत्तम.समो रथ्यो वृषश् च मध्यमः ॥

३०.२२
मध्यम.समश् च_अवरः ॥

३०.२३
पाद.हीनं वडवानां पारशमानां च ॥

३०.२४
अतो_अर्धं किशोराणां च ॥

३०.२५
इति विधा.योगः ॥

३०.२६
विधा.पाचक.सूत्र.ग्राहक.चिकित्सकाः प्रतिस्वाद.भाजः ॥

३०.२७
युद्ध.व्याधि.जरा.कर्म.क्षीणाः पिण्ड.गोचरिकाः स्युः ॥०२.३०.२८
असमर.प्रयोग्याः पौर.जानपदानाम् अर्थेन वृषा वडवास्व् आयोज्याः ॥

३०.२९
प्रयोग्यानाम् उत्तमाः काम्बोज.सैन्धव.आरट्ट.वनायुजाः, मध्यमा बाह्लीक.पापेयक.सौवीरक.तैतलाः, शेषाः प्रत्यवराः ॥

३०.३०
तेषां तीष्क्ण.भद्र.मन्द.वशेन साम्नाह्यम् औपवाह्यकं वा कर्म प्रयोजयेत् ॥

३०.३१
चतुर्.अश्रं कर्म.अश्वस्य साम्नाह्यम् ॥

३०.३२
वल्गनो नीचैर् गतो लङ्घनो घोरणो नारोष्ट्रश् च_औपवाह्याः ॥

३०.३३
तत्र.औपवेणुको वर्धमानको यमक आलीढ.प्लुतः पृथुग्.अस्त्रिक.चाली च वल्गनः ॥

३०.३४
स एव शिरः.कर्ण.विशुद्धो नीचैर् गतः, षोडश.मार्गो वा ॥

३०.३५
प्रकीर्णकः प्रकीर्ण.उत्तरो निषण्णः पार्श्व.अनुवृत्त ऊर्मि.मार्गः शरभ.क्रीडितः शरभ.प्लुतस् त्रि.तालो बाह्य.अनुवृत्तः पञ्च.पाणिः सिंह.आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प.अभिकीर्णश् च_इति नीचैर् गत.मार्गः ॥

३०.३६
कपि.प्लुतो भेक.प्लुत्_एण.प्लुत_एक.पाद.प्लुतः कोकिल.संचार्य्.उरस्यो बक.चारी च लङ्घनः ॥

३०.३७
काङ्को वारि.काङ्को मायूरो_अर्ध.मायूरो नाकुलो_र्ध.नाकुलो वाराहो_अर्ध.वाराहश् च_इति धोरणः ॥

३०.३८
संज्ञा.प्रतिकारो नार.उष्ट्र_इति ॥

३०.३९
षण्णव द्वादश_इति योजनान्य् ध्वा रथ्यानाम्, पञ्च योजनान्य् अर्ध.अष्टमानि दश_इति पृष्ठ.वाहिनाम् अश्वानाम् अध्वा ॥

३०.४०
विक्रमो भद्र.अश्वासो भार.वाह्य इति मार्गाः ॥

३०.४१
विक्रमो वल्गितम् उपकण्ठम् उपजवो जवश् च धाराः ॥

३०.४२
तेषां बन्धन.उपकरणं योग्य.आचार्याः प्रतिदिशेयुः, सांग्रामिकं रथ.अश्व.अलंकारं च सूताः ॥

३०.४३
अश्वानां चिकित्सकाः शरीर.ह्रास.वृद्धि.प्रतीकारम् ऋतु.विभक्तं च_आहारम् ॥

३०.४४
सूत्र.ग्राहक.अश्व.बन्धक.यावसिक.विधा.पाचक.स्थान.पाल.केश.कार.जाङ्गुलीविदश् च स्व.कर्मभिर् अश्वान् आराधयेयुः ॥

३०.४५
कर्म.अतिक्रमे च_एषां दिवस.वेतनच्.छेदनं कुर्यात् ॥

३०.४६
नीराजन.उपरुद्धं वाहयतश् चिकित्सक.उपरुद्धं वा द्वादश.पणो दण्डः ॥

३०.४७
क्रिया.भैषज्य.सङ्गेन व्याधि.वृद्धौ प्रतीकार.द्वि.गुणो दण्डः ॥

३०.४८
तद्.अपराधेन वैलोम्ये पत्त्र.मूल्यं दण्डः ॥

३०.४९
तेन गो.मण्डलं खर.उष्ट्र.महिषम् अज.अविकं च व्याख्यातम् ॥

३०.५०
द्विर् अह्नः स्नानम् अश्वानां गन्ध.माल्यं च दापयेत् ।

३०.५०
कृष्ण.संधिषु भूत.इज्याः शुक्लेषु स्वस्ति.वाचनम् ॥

३०.५१
नीराजनाम् आश्वयुजे कारयेन् नवमे_अहनि ।

३०.५१
यात्रा.आदाव् अवसाने वा व्याधौ वा शान्तिके रतः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP