अर्थशास्त्रम् अध्याय ०२ - भाग १९

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

१९.०१
पौतव.अध्यक्षः पौतव.कर्म.अन्तान् कारयेत् ॥

१९.०२
धान्य.माषा दश सुवर्ण.माषकः, पञ्च वा गुञ्जाः ॥

१९.०३
ते षोडश सुवर्णः कर्षो वा ॥

१९.०४
चतुष्.कर्षं पलम् ॥

१९.०५
अष्ट.अशीतिर् गौर.सर्षपा रूप्य.माषकः ॥

१९.०६
ते षोडश धरणम्, शौम्ब्यानि वा विंशतिः ॥

१९.०७
विंशति.तण्डुलं वज्र.धरणम् ॥

१९.०८
अर्ध.माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः, अष्टौ सुवर्णाः दश विंशतिः त्रिंशत् चत्वारिंशत् शतम् इति ॥

१९.०९
तेन धरणानि व्याख्यातानि ॥

१९.१०
प्रतिमानान्य् अयोमयानि मागध.मेकल.शैलमयानि यानि वा न_उदक.प्रदेहाभ्यां वृद्धिं गच्छेयुर् उष्णेन वा ह्रासम् ॥

१९.११
षडङ्गुलाद् ऊर्ध्वम् अष्ट.अङ्गुल.उत्तरा दश तुलाः कारयेत् लोह.पलाद् ऊर्ध्वम् एक.पल.उत्तराः, यन्त्रम् उभयतः.शिक्यं वा ॥

१९.१२
पञ्च.त्रिंशत्.पललोहां द्वि.सप्तत्य्.अङ्गुल.आयामां सम.वृत्तां कारयेत् ॥

१९.१३
तस्याः पञ्च.पलिकं मण्डलं बद्ध्वा सम.करणं कारयेत् ॥

१९.१४
ततः कर्ष.उत्तरं पलं पल.उत्तरं दश.पलं द्वादश पञ्चदश विंशतिर् इति पदानि कारयेत् ॥

१९.१५
तत आ.शताद् दश.उत्तरं कारयेत् ॥

१९.१६
अक्षेषु नान्दी.पिनद्धं कारयेत् ॥

१९.१७
द्वि.गुण.लोहां तुलाम् अतः षण्णवत्य्.अङ्गुल.आयामां परिमाणीं कारयेत् ॥

१९.१८
तस्याः शत.पदाद् ऊर्ध्वं विंशतिः पञ्चाशत् शतम् इति पदानि कारयेत् ॥

१९.१९
विंशति.तौलिको भारः ॥

१९.२०
दश.धारणिकं पलम् ॥

१९.२१
तत्.पल.शतम् आय.मानी ॥

१९.२२
पञ्च.पल.अवरा व्यावहारिकी भाजन्य् अन्तः.पुर.भाजनी च ॥

१९.२३
तासाम् अर्ध.धरण.अवरं पलम्, द्वि.पल.अवरम् उत्तर.लोहम्, षड्.अङ्गुल.अवराश् च_आयामाः ॥

१९.२४
पूर्वयोः पञ्च.पलिकः प्रयामो मांस.लोह.लवण.मणि.वर्जम् ॥

१९.२५
काष्ठ.तुला अष्ट.हस्ता पदवती प्रतिमानवती मयूर.पद.अधिष्ठिता ॥

१९.२६
काष्ठ.पञ्चविंशति.पलं तण्डुल.प्रस्थ.साधनम् ॥

१९.२७
एष प्रदेशो बह्व्.अल्पयोः ॥

१९.२८
इति तुला.प्रतिमानं व्याख्यातम् ॥

१९.२९
अथ धान्य.माष.द्वि.पल.शतं द्रोणम् आय.मानम्, सप्त.अशीति.पल.शतम् अर्ध.पलं च व्यावहारिकम्, पञ्च.सप्तति.पल.शतं भाजनीयम्, द्वि.षष्टि.पल.शतम् अर्ध.पलं च_अन्तः.पुर.भाजनीयम् ॥

१९.३०
तेषाम् आढक.प्रस्थ.कुडुबाश् चतुर्.भाग.अवराः ॥

१९.३१
षोडश.द्रोणा खारी ॥

१९.३२
विंशति.द्रोणिकः कुम्भः ॥

१९.३३
कुम्भैर् दशभिर् वहः ॥

१९.३४
शुष्क.सार.दारु.मयं समं चतुर्.भाग.शिखं मानं कारयेत्, अन्तः.शिखं वा ॥

१९.३५
रसस्य तु सुरायाः पुष्प.फलयोस् तुष.अङ्गाराणां सुधायाश् च शिखा.मानं द्वि.गुण.उत्तरा वृद्धिः ॥

१९.३६
स-पाद.पणो द्रोण.मूल्यम् आढकस्य पाद.ऊनः, षण्.माषकाः प्रस्थस्य, माषकः कुडुबस्य ॥

१९.३७
द्वि.गुणं रस.आदीनां मान.मूल्यम् ॥

१९.३८
विंशति.पणाः प्रतिमानस्य ॥

१९.३९
तुला.मूल्यं त्रि.भागः ॥

१९.४०
चतुर्.मासिकं प्रातिवेधनिकं कारयेत् ॥

१९.४१
अप्रतिविद्धस्य_अत्ययः स-पादः सप्त.विंशति.पणः ॥

१९.४२
प्रातिवेधनिकं काकणीकम् अहर् अहः पौतव.अध्यक्षाय दद्युः ॥

१९.४३
द्वात्रिंशद्.भागस् तप्त.व्याजी सर्पिषः, चतुः.षष्टि.भागस् तैलस्य ॥

१९.४४
पञ्चाशद् भागो मान.स्रावो द्रवाणाम् ॥

१९.४५
कुडुब.अर्ध.चतुर्.अष्ट.भागानि मानानि कारयेत् ॥

१९.४६
कुडुबाश् चतुर्.अशीतिर् वारकः सर्पिषो मतः ॥

१९.४७
चतुः.षष्टिस् तु तैलस्य पादश् च घटिका_अनयोः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP