ॐ कामाख्याकवचस्य मुनिर्वृहस्पति स्मृतः ।
देवी कामेश्वरी तस्य अनुष्टुपछन्द इष्यतः ॥
विनियोगः सर्व्वसिद्धौ नञ्च श्रृण्वन्तु देवताः ।
शिरः कामेश्वरी देवी कामाख्या चक्षुषी मम ॥
शारदा कर्णयुगलं त्रिपुरा वदनं तथा ।
कण्ठे पातु महामाया हदि कामेश्वरी पुनः ॥
कामाख्या जठरे पातु शारदा पातु नाभितः ।
त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने ॥
गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् ।
जानुनोः शारदा पातु त्रिपुरा पातु जङ्घयोः ॥
महामाया पादयुगे नित्यं रक्षतु कामदा ।
केशे कोटेश्वरी पातु नासायां पातु दीर्घिका ॥
दन्तसङ्घाते मातङ्यवतु चाङ्गयोः ।
बाह्वोर्म्मां ललिता पातु पाण्योस्तु बनवासिनी ॥
विनध्यवासिन्यङ्ग लीषु श्रीकामा नखकोटिषु ।
रोमकूपेषु सर्व्वेषु गुप्तकामा सदावतु ॥
पादाङ्गुलि - पार्ष्णिभागे पातु मां भुवनेश्वरी ।
जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु ॥
पातु नश्चान्तरे वक्षः ईः पातु जठारान्तरे ।
सामिन्दुः पातु मां वस्तौ विन्दुर्व्विद्वन्तरेऽवतु ॥
ककारस्त्वचि मां पातु रकारोऽस्थिषु सर्व्वदा ।
लकाराः सर्व्वनाडिषु ईकारः सर्व्वसन्धिषु ॥
चन्द्रः स्नायुषु मां पातु विन्दुर्मज्जासु सन्ततम् ।
पूर्व्वस्यां दिशि चाग्नेष्यां दक्षिणे नैऋते तथा ॥
वारुणे चैव वायव्यां कौवेरे हरमन्दिरे ।
अकाराद्यास्तु वैष्णवा अष्टौ वर्णास्तु मन्त्रगाः ॥
पान्तु तिष्ठन्तु सततं समुदभवविवृद्धये ।
ऊर्द्घाधः पातु सततं मान्तु सेतुद्वयं सदा ॥
नवाक्षराणि मन्त्रेषु शारदा मन्त्रगोचरे ।
नवस्वरन्तु मां नित्यं नासादिषु समन्ततः ॥
वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् ।
नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च ॥
तत् सेतु सततं पाता क्रव्यादभ्यो मान्निवारकौ ।
नमः कामेश्वरी देवीं महामायां जगन्मयीम् ॥
या भूत्वा प्रकृतिर्नित्यं तनोति जगदायतम् ।
कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां ॥
श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कमापीतवर्णाम् ।
ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्या ॥
मग्नौ विन्द्वन्तमन्त्रप्रियतमविषयां नौमि विद्धयैरतिस्थाम् ।
मध्ये मध्यस्य भागे सततविनमिता भावहावली या,
लीला लोकस्य कोष्ठे सकलगुणयुता व्यक्त रुपैकनम्रा ।
विद्या विद्यैकशान्ता शमनशमकरी क्षेमकत्रीं वरास्या,
नित्यं पायात् पवित्रप्रणववरकरा कामपूर्वीश्वरी नः ॥
इति हरकवचं तनुस्थितं शमयति वै शमनं तथा यदि ।
इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ॥
इतीदं कवचं यस्तु कामाख्यायाः पठेद् बुधः ।
सुकृत् तं तु महादेवी तनुव्रजति नित्यदा ॥
नाधिव्याधिभयं तस्य न क्रव्यादमो भयं तथा ।
नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ॥
दीर्घायुर्व्वहुभोगी च पुत्रपौत्रसमन्वितः ।
आवर्त्तयन् शतं देवी मन्दिरे मोदते परे ॥
यथा यथा भवेदबद्धः संग्रामेऽन्यत्र वा बुधः ।
ततक्षणादेव मुक्तः स्यात् स्मरणात् कवचस्य तु ॥
- कालिका पुराण