मराठी मुख्य सूची|स्तोत्रे|गुरु स्तोत्रे|
श्रीः ॥ विष्णोर्मुखोत्थान...

पञ्चमहायुधस्तोत्रम् - श्रीः ॥ विष्णोर्मुखोत्थान...


गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.
A Guru is a teacher in Hinduism


श्रीः ॥ विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहंता । तं पांचजन्यं शशिकोटिशुभ्रं शंखं सदाऽहं शरणं प्रपद्ये ॥ १ ॥
स्फुरत्सहस्त्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् । सुरद्विषां प्राणविनशदक्षं चक्रं सदाऽहं शरणं प्रपद्ये ॥ २ ॥
हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलस्य हंत्रीम् । वैकुण्ठवामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥
रक्षोऽसुराणां कठिनोग्रकंठच्छेदोच्छलच्छोणितदिग्धधारम् । तं नंदकं नाम हरेः प्रदीप्तं खङ्गं सदाऽहं शरणं प्रपद्ये ॥ ४ ॥
यस्यातिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः । भवंति दैत्याशनिबाणवर्षं शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ ५ ॥
प्रातर्हरैः पञ्चमहायुधानां स्वयं पठेद्यः कृतसर्वरक्षः । जीवेच्छतं सर्वजनैः स पूज्यो निर्वाणकाले विशतीह विष्णुम् ॥ ६ ॥
इति श्रीमच्छंकरा० पंचमहायुधस्तोत्रम् समाप्तम् ।

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP