मराठी मुख्य सूची|स्तोत्रे|दशावतारस्तोत्रम्|
दशावतारस्तुतिः २

दशावतारस्तुतिः २

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.


अशेषविश्ववैचित्र्यरचनारुचये नमः ।
मायागहनगूढाय नानारूपाय विष्णवे ॥१॥

देवः पायादपायात् त्रिभुवनभवनस्तम्भभूतः स युष्मा-
नायुष्मान् यस्य भक्त्या प्रभवति पुरुषः स्वर्गमार्गेऽपवर्गे ।
मत्स्यः कूर्मो वराहः पुरुषहरिवपुर्वामनो जामदग्न्यः
काकुत्स्थः कंसहन्ता स च सुगतमुनिः कर्किनामा च विष्णुः ॥२॥

आदि मत्स्यः स जयताद् यः श्वासोच्छ्रवासितैर्जलैः ।
गगने विदधेऽम्भोधिं गगनं च महोदधौ ॥३॥

तं नमस्कुर्महे कूर्मं यः कवाटमसङ्कटम् ।
अतीतसर्वब्रह्माण्डमवशेषमिवावहत् ॥४॥

वराहं नौमि सानन्ता येनोत्क्षिप्ता क्षितिः परम् ।
अधोधृतार्धच्छत्रेव तलस्थार्कातपासहा ॥५॥

जयाय नृहरिर्वोऽस्तु दैत्योरः शोणितार्णवे ।
हारमौक्तिकगर्भास्ताश्चेरुर्यन्नखशुक्तयः ॥६॥

त्रिविक्रमोऽस्तु भूत्यै वः प्राग् लघ्वी मध्यमा ततः ।
यस्य पश्चादनन्ताभूत् सत्सङ्गतिरिवाकृतिः ॥७॥

अभग्नं जामदग्न्यो वः प्रयच्छतु जयोदयम् ।
यत्कुठारकठोराग्नौ भूपालैः शलभायितम् ॥८॥

नौमि रामं रिपोश्चक्रे यः काञ्चननिभैः शरैः ।
होमानलशिखारूढमिव वक्त्रवनं पुनः ॥९॥

शौरिर्जयति कंसस्य जीवितप्रथमातिथिः ।
यश्चक्रे चक्रदानेन बाणबाहुप्रतिग्रहम् ॥१०॥

यस्य सभ्रूभ्रमाकम्पा माररामाः ससैनिकाः ।
चक्रुर्न रागं न द्वेषं स शान्त्यै सुगतोऽस्तु वः ॥११॥

स्वच्छन्दप्रोच्छलन्म्लेच्छतिमिरोद्भेदसच्छविः ।
कर्किविष्णुः प्रकाशाय प्रभातार्क इवास्तु वः ॥१२॥

अवतारकथायुक्त्या भक्त्या भगवतो हरेः ।
श्रीव्यासदासः क्षेमेन्द्रः कुरुते सरसां स्तुतिम् ॥१३॥

इति महाकविश्रीक्षेमेन्द्रविरचिते दशावतारचरिते
दशावतारस्तुतिः समाप्ता ॥

N/A

References : N/A
Last Updated : September 14, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP