मराठी मुख्य सूची|स्तोत्रे|दशावतारस्तोत्रम्| दशावतार स्तवः दशावतारस्तोत्रम् वादिराजपूज्यचरण-विरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं वेदान्तदेशिककृतं दशावतारस्तोत्रं कोनेरिणेरितं दशावतारस्तवकं दशावतारस्तोत्रं दशावतारस्तोत्रं नन्दप्रदीप्तकुमारविरचितं आनन्दतीर्थविरचितम् श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीप्रतिवादिभयङ्करवेङ्कटेशविरचितं श्रीमन्नारायणीयमाहात्म्ये द्वितीयोऽध्याये दशावतारस्तोत्रं दशावतारप्रार्थना दशावतरवर्णनम् दशावतारस्तवः जयदेवकृत दशावतार स्तवः दशावतारस्तुतिः १ दशावतारस्तुतिः २ दशावतार स्तवः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : dashavatardevtastotraदशावतारदेवतास्तोत्र दशावतार स्तवः Translation - भाषांतर धातुः स्तुत्या चिर-जलचरीं दिव्य-मूर्त्तिं दधानोहत्वा शङ्खासुरमपहृताम्नायमम्भोधि-निम्ने ।यो वेदानामसि विहितवान् राक्षसारिः सुरक्षांविश्वेश ! त्वां वर सुमनसां मीनमाद्यं नमामि ॥१॥द्वन्द्वाद् दैत्यादितिज-निहितं मन्दराद्रिं समुद्रेयः संन्यस्याखिल-दिविषदां श्रेष्ठतायै स्वपृष्ठे ।अब्धौ लब्ध्वा प्रमथन-सुखं स्तब्धवाँल्लुब्ध-दैत्यान्पीयूषाद-प्रियवर ! सदा नौमि कूर्मं निकामम् ॥२॥ब्रह्म-स्तुत्योदवहदवनीं प्राणिनां सृष्टि-हेतो-र्यो दन्ताग्रे विपुल-सलिले मज्जितामुग्र-रूपः ।दंष्ट्राघात-प्रहरण-हिरण्याक्ष-रक्षो-विघातिन् !देवं वन्दे धरणि-धर हे ! त्वा वराहं सदाहम् ॥३॥घोरं धृत्वाद्भुतमपघनं यो हिरण्यासुहारीवक्षो रक्षोजन-कुल-पते-र्येन भिन्नं नखाग्रैः ।प्रह्लादान्तःकरण-परमाह्लादकं भीम-कान्तंनौमीश ! त्वां शरण-कषणं संहरन्तं नृसिंहम् ॥४॥देवत्राता त्रिपद-मित-भू-दान-याच्ञा-मिषेणस्वर्गं भव्यं भुवनमहरद् विश्व-वेशो बलेर्यः ।खर्वीकुर्वन् विभव-विपुलं कर्वुरेशस्य गर्वंवन्द्यं वृन्दारक-सुभगदं वामन ! त्वां नतोऽस्मि ॥५॥हत्वा दृप्तान् प्रसभमवनीं पर्यटन् कार्त्तवीर्यान्रक्तैस्तेषां निज-पितृकुलं तोषयामास वीरः ।रामं शूरं कलुष-हरणं रेणुका-नन्दन ! त्वांकालाग्न्याभं कलित-परशुं जामदग्न्यं भजामि ॥६॥पित्रादेशाद् दशरथ-सुतः सत्य-सन्धो जगत्यांत्यक्त्वा राज्यं विपिनमगमद् भार्यया चानुजेन ।यः पौलस्त्यं दनुजमवधीद् देव-कार्यार्थ-सिद्ध्यैसीतेश ! त्वां रघुकुल-पतिं रामचन्द्रं स्मरामि ॥७॥नन्दानन्दो भुवन-महितो रोहिणी-नन्दनो यःशेषापीड़ोऽहरदतितरां पार्थिवानर्थ-मन्दान् ।त्वां गोविन्दाग्रज ! तपनजा-भेदनं रेवतीशंवन्दे रामं सहल-मुषलं कामपालं प्रकामम् ॥८॥शुष्कं मत्वा भवमथ चतुष्कोटि-निर्मुक्त-तत्त्वंसारं ज्ञात्वा सुगत ! जगतो यो जगादास्थिरत्वम् ।त्वां निर्वाणाविचलित-मतिं नौम्यहं सौम्य-शीलै-र्वेद-द्वाराध्वर-पशु-विधे-र्बिद्धकृद्-बुद्ध-रूपम् ॥९॥दग्ध्वानर्थान् वृजिन-जनितान् धर्म-संस्थापनार्थंकाले घोरे कलुषित-कलौ मर्त्त्य-लोकार्त्ति-हर्त्ता ।घृण्याचारान् चिरमतिशयं शातयन्तं सुपुण्यैःस्तौमि त्वां भोस्त्रिभुवन-विभो ! कल्किदेवं सदैवम् ॥१०॥सृष्टि-स्थित्यन्तकर ! जगतां हे मुकुन्दादिकन्द !ज्ञेयो वेदैः परम-पुरुषः स्वप्रकाशस्त्वमेकः ।क्लेशं कृत्स्नं हर हर हरे कृष्ण मे हे रमेश !स्तुत्यं सर्वैस्तव दशविधं नौमि नामावतारम् ॥११॥ N/A References : N/A Last Updated : September 14, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP