मराठी मुख्य सूची|स्तोत्रे|दशावतारस्तोत्रम्| वेदान्तदेशिककृतं दशावतारस्तोत्रं दशावतारस्तोत्रम् वादिराजपूज्यचरण-विरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं वेदान्तदेशिककृतं दशावतारस्तोत्रं कोनेरिणेरितं दशावतारस्तवकं दशावतारस्तोत्रं दशावतारस्तोत्रं नन्दप्रदीप्तकुमारविरचितं आनन्दतीर्थविरचितम् श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीप्रतिवादिभयङ्करवेङ्कटेशविरचितं श्रीमन्नारायणीयमाहात्म्ये द्वितीयोऽध्याये दशावतारस्तोत्रं दशावतारप्रार्थना वेदान्तदेशिककृतं दशावतारस्तोत्रं देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : dashavatardevtastotraदशावतारदेवतास्तोत्र वेदान्तदेशिककृतं दशावतारस्तोत्रं Translation - भाषांतर श्रीमते निगमान्तमहादेशिकाय नमः ।श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥देवो नः शुभमातनोतु दशधा निर्वर्तयन् भूमिकांरङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।यद्भावेषु पृथग्विधेष्वनुगुणान् भावान् स्वयं बिभ्रतीयद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥१॥निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणै-रन्तस्तन्वदिवारविन्दमहनान्यौदन्वतीस्ता अपः ।निष्प्रत्यूहतरङ्गरिङ्गणमिथः प्रत्यूढपाथश्छटा-डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः ॥२॥अव्यासुर्भुवनत्रयीमनिभृतं कण्डूयनैरद्रिणानिद्राणस्य परस्य कूर्मवपुषो निश्वासवातोर्मयः ।यद्विक्षेपणसंस्कृतोदधिपयः प्रेङ्खोलपर्यङ्किका-नित्यारोहणनिर्वृतो विहरते देवः सहैव श्रिया ॥३॥गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृत-ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः ।यद्दंष्ट्राङ्कुरकोटिगाढघटनानिष्कम्पनित्यस्थिति-र्ब्रह्मस्तम्बमसौदसौ भगवती मुस्तेव विश्वम्भरा ॥४॥प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजै-रव्यात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः ।यत्प्रादुर्भवनादवन्ध्यजठरायादृच्छिकाद्वेधसांया काचित्सहसा महासुरगृहस्थूणापितामह्यभूत् ॥५ ॥व्रीडाविद्धवदान्यदानवयशोनासीग्धाटीभट-स्त्रैयक्षं मुकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः ।यत्प्रस्तावसमुच्छ्रितध्वजवटीवृत्तान्तसिद्धान्तिभि-स्स्रोतोभिः सुरसिन्धुरष्टसुदिशासौईषु दोधूयते ॥६ ॥क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन् क्रमाद्-अक्षत्त्रामिह सन्ततक्षय इमां त्रिस्सप्तकृत्वः क्षितिम् ।दत्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वसन्-नब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥७ ॥पारावारपयोविशोषणकलापारीणकालानल-ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रतीधर्मो विग्रहवानधर्मविरतिं धन्वी सधन्वीतु नः ॥८ ॥फक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्रलम्बादय-स्तालाङ्कास्यतथाविधा विहृतयस्तन्वन्तु भद्राणि नः ।क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणै-राकौमारकमस्वदन्तजगते कृष्णस्य ताः केलयः ॥९ ॥नाथायैव नमः पदं भवतु नश्चित्रैश्चरित्रक्रमै-र्भूयोभिर्भुवनान्यमूनिकुहनागोपाय गोपायते ।कालिन्दीरसिकायकालियफणिस्फारस्फटावाटिका-रङ्गोत्सङ्गविशङ्कचक्रमधुरापर्याय चर्यायते ॥१० ॥भाविन्या दशयाभवन्निह भवध्वंसाय नः कल्पतांकल्की विष्णुयशस्सुतः कलिकथाकालुष्यकूलङ्कषः ।निःशेषक्षतकण्टके क्षितितले धाराजलौघे ध्रुवंधर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधरः ॥११ ॥इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरेरक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन् ।क्रीडावल्लव कल्कवाहन दशाकल्किन्निति प्रत्यहंजल्पन्तः पुरुषाः पुनन्तु भुवनं पुण्यौघपण्यापणाः ॥विद्योदन्वति वेङ्कटेश्वरकवौ जातं जगन्मङ्गलंदेवेशस्यदशावतारविषयं स्तोत्रं विवक्षेत यः ।वक्त्रं तस्य सरस्वती बहुमुखी भक्तिः परा मानसेशुद्धिः कापि तनौ दिशासु दशसु ख्यातिः शुभा जृम्भते ॥कवितार्किकसिंहाय कल्याणगुणशालिने ।श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥इति वेदान्तदेशिककृतं दशावतारस्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : August 26, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP