मराठी मुख्य सूची|स्तोत्रे|दशावतारस्तोत्रम्| श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं दशावतारस्तोत्रम् वादिराजपूज्यचरण-विरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं वेदान्तदेशिककृतं दशावतारस्तोत्रं कोनेरिणेरितं दशावतारस्तवकं दशावतारस्तोत्रं दशावतारस्तोत्रं नन्दप्रदीप्तकुमारविरचितं आनन्दतीर्थविरचितम् श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीप्रतिवादिभयङ्करवेङ्कटेशविरचितं श्रीमन्नारायणीयमाहात्म्ये द्वितीयोऽध्याये दशावतारस्तोत्रं दशावतारप्रार्थना श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : dashavatardevtastotraदशावतारदेवतास्तोत्र श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं Translation - भाषांतर चलल्लोलकल्लोलकल्लोलिनीशस्फुरन्नक्रचक्रातिवक्त्राम्बुलिनः ।हतो येन मीनावतारेण शङ्खः स पायादपायाज्जगद्वासुदेवः ॥१॥धरानिर्जरारातिभारादपारादकूपारनीरातुराधः पतन्ती ।धृता कूर्मरूपेण पृष्ठोपरिष्टे सदेवो मुदे वोस्तु शेषाङ्गशायी ॥२॥उद्रग्रे रदाग्रे सगोत्रापि गोत्रा स्थिता तस्थुषः केतकाग्रे षडङ्घ्रेः ।तनोति श्रियं सश्रियं नस्तनोतु प्रभुः श्रीवराहावतारो मुरारिः ॥३॥उरोदार आरम्भसंरम्भिणोसौ रमासम्भ्रमाभङ्गुराग्रैर्नखाग्रैः ।स्वभक्तातिभक्त्याभिव्यक्तेन दारुण्यघौघं सदा वः स हिंस्यान्नृसिंहः ॥४॥छलादाकलय्य त्रिलोकीं बलीयान् बलिं सम्बवन्ध त्रिलोकीबलीयः ।तनुत्वं दधानां तनुं सन्दधानो विमोहं मनो वामनो वः स कुर्यात् ॥५॥हतक्षत्रियासृक्प्रपानप्रनृत्तममृत्यत्पिशाचप्रगीतप्रतापः ।धराकारि येनाग्रजन्माग्रहारं विहारं क्रियान्मानसे वः स रामः ॥६॥नतग्रीवसुग्रीव-साम्राज्यहेतुर्दशग्रीव-सन्तान-संहारकेतुः ।धनुर्येन भग्नं महत्कामहन्तुः स मे जानकीजानिरेनांसि हन्तु ॥७॥घनाद्गोधनं येन गोवर्धनेन व्यरक्षि प्रतापेन गोवर्धनेन ।हतारातिचक्री रणध्वस्तचक्री पदध्वस्तचक्री स नः पातु चक्री ॥८॥धराबद्धपद्मासनस्थाङ्घ्रियष्टिर्नियम्यानिलं न्यस्तनासाग्रदृष्टिः ।य आस्ते कलौ योगिनां चक्रवर्ती स बुद्धः प्रबुद्धोऽस्तु निश्चिन्तवर्ती ॥९॥दुरापारसंसारसंहारकारी भवत्यश्ववारः कृपाणप्रहारीमुरारिर्दशाकारधारीह कल्की करोतु द्विषां ध्वंसनं वः स कल्की ॥१०॥इति श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं सम्पूर्णम् ॥ N/A References : N/A Last Updated : August 25, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP