मराठी मुख्य सूची|स्तोत्रे|दशावतारस्तोत्रम्| दशावतारप्रार्थना दशावतारस्तोत्रम् वादिराजपूज्यचरण-विरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं वेदान्तदेशिककृतं दशावतारस्तोत्रं कोनेरिणेरितं दशावतारस्तवकं दशावतारस्तोत्रं दशावतारस्तोत्रं नन्दप्रदीप्तकुमारविरचितं आनन्दतीर्थविरचितम् श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीवासुदेवानन्दसरस्वतीविरचितं दशावतारस्तोत्रं श्रीप्रतिवादिभयङ्करवेङ्कटेशविरचितं श्रीमन्नारायणीयमाहात्म्ये द्वितीयोऽध्याये दशावतारस्तोत्रं दशावतारप्रार्थना दशावतारप्रार्थना देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते. Tags : dashavatardevtaprarthanastotraदशावतारदेवताप्रार्थनास्तोत्र दशावतारप्रार्थना Translation - भाषांतर मत्स्यरूपिणो भगवतः प्रार्थना-त्रय्या दुर्जयदानवेन्द्रहृतया वैयाकुलीं प्रापितेनालीकासनमानसे सरसिजे भानोरपायेन वा ।मध्येऽम्भोनिधि यः प्रहृत्य तमरिं वाणीं पुराणीं पुनःप्रादात् तस्य यथापुरं स तनुतां श्रीमत्स्यमूर्तिः श्रियम् ॥१॥कूर्मरूपिणो भगवतः प्रार्थना-यच्छ्वासानिलपर्युदस्तजलधिक्रोडोच्चलद्वीचिका-वेधःसौधविघट्टनोद्भटरवो ब्रह्माण्डमास्फोटयन् ।दैत्यान् मोहयतो हरेर्दिविषदां पीयूषदानक्षणेसाहाय्यं विततान शर्म कुहनामूर्तिः स निर्मातु नः ॥२॥वराहरूपिणो भगवतः प्रार्थना-दंष्ट्राग्रे पृथुसीम्नि यस्य जलधेरुन्मग्नमूर्तेः पुराघोणे घुर्घुरधूर्णमानतनुतामासेदुषी मेदिनी ।प्रीता शैलशिखाधिरोहजनितामाधत्त दिव्यां श्रियंमायासूकरशेखरः स दिशतामामोदभूमोदयम् ॥३॥नरसिंहरूपिणो भगवतः प्रार्थना-दंष्ट्रांशूच्चयपाण्डरैर्नखमुखैर्दैत्येन्द्रवक्षःस्थली-निष्ट्यूतामितकुङ्कुमाभरुधिरप्राग्भारसम्भावितैः ।मालिन्यं द्युसदां ममार्ज हृदये प्रह्लादमाह्लादयन्यः पूर्वं तमिमं भजेम शरणं वैकुण्ठकण्ठीरवम् ॥४॥वामनरूपिणो भगवतः प्रार्थना-आसीद् यस्य वितानमम्बरसरित् पूर्वं परस्तादसौशीर्षत्राणमभूदथो गलतले मन्दारमालाभवत् ।जाता धौतमथांशुकं कटितटे पादारविन्दे ततःसम्पेदे मधुबिन्दुरीतिमवतात् याच्ञावटुस्तद्वदुः ॥५॥परशुरामरूपिणो भगवतः प्रार्थना-दृप्तक्षत्रवधाध्वरे पितृवधामर्षोदयाद् दीक्षितोबाहा हेहयनायकस्य समिधः साहस्रमप्युज्ज्वलाः ।धाराग्रज्वलदाशुशुक्षणिशिखामध्ये कुठारस्य योनिस्तन्द्रं जुहुवाम्बभूव मुनिराडव्यादभव्यात् स नः ॥६॥श्रीरामभद्ररूपिणो भगवतः प्रार्थना-वीरः कोऽपि सकृन्नतार्तिहरणश्रद्धाविशुद्धाशयःकामं कामपि सम्पदं वितनुतामाकल्पमल्पेतराम् ।यस्यापाङ्गजशोणिमा स्तनतटे सेहे न मुक्ताश्रियंनेत्रे कज्जलकालिमानमपि च क्रव्यादवामभ्रुवाम् ॥७॥बलभद्ररूपिणो भगवतः प्रार्थना-यस्याहुर्मुसलं हलं प्रहरणं सङ्ग्रामसीमाजुषोभेत्तुं वैरिशिरोधनान् नमयितुं चान्यानपेक्षं बुधाः ।येनाकार्षि च हस्तिनं कुरुमदज्वालारुजं जाह्नवी-पूरे त्याजयितुं स लाङ्गलधरः कुर्वीत गुर्वी श्रियम् ॥८॥श्रीकृष्णरूपिणो भगवतः प्रार्थना-अन्विष्टोऽपि चिरादकृत्रिमगिरां श्रेणीभिरेणीदृशांगोपालाह्वयजन्मनां तु सुलभं स्वात्मानमाधत्त यः ।यो विश्वस्य नियन्तृतामनुभवन्त्रप्यावहद् दूततांबघ्नीमोऽञ्जलिमादरेण करुणादिग्धाय मुग्धात्मने ॥९॥कल्किरूपिणो भगवतः प्रार्थना-राजन्यापशन्दैर्जगद्विपदलङ्कर्मीणचर्यापदै-र्निर्मूले निखिले कलेरुपचयाद् धर्मे महीमण्डले ।प्रादुर्भूय कृपाणपाणिरथ तान् निर्धूय भूयः पुराधर्मं कार्तयुगं प्रवर्तयति यः कल्की श्रियै कल्पताम् ॥१०॥इति कौशिकरङ्गनाथसूरिः सुकुमारैः पदगुम्भनैः स्तुवन् सन् ।परमं पुरुषं दशावतारम् शोभते कृतार्थः ॥इति रङ्गनाथसूरिविरचिता श्रीदशावतार प्रार्थना समाप्ता । N/A References : N/A Last Updated : August 26, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP