संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मन्त्र प्रतिलोम दुर्गासप्तशती| ६५१ ते ७०० मन्त्र प्रतिलोम दुर्गासप्तशती पाठ पद्धती मन्त्र प्रतिलोम दुर्गासप्तशती पाठविधिः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३०० ३०१ ते ३५० ३५१ ते ४०० ४०१ ते ४५० ४५१ ते ५०० ५०१ ते ५५० ५५१ ते ६०० ६०१ ते ६५० ६५१ ते ७०० मन्त्र - ६५१ ते ७०० मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे. Tags : durga saptashatimantrapothiदुर्गा सप्तशतीपोथीमन्त्र मन्त्र - ६५१ ते ७०० Translation - भाषांतर इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ ।दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥६५१॥नमस्तस्यै नमो नमः ॥६५२॥ऋषिरुवाच ॥६५३॥या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता॥नमस्तस्यै ॥६५४॥परमैश्व र्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।एतद् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥६५५॥नमस्तस्यै ॥६५६॥मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।भज त्वं च चञ्चलापाङ्गि रत्नरभूतासि वै यतः ॥६५७॥नमस्तस्यै नमो नमः ॥६५८॥स्त्रीरत्नाभूतां त्वां देवि लोके मन्यामहे वयम् ।सा त्वमस्मानुपागच्छ यतो रत्न भुजो वयम् ॥६५९॥या देवी सर्वभूतेषु मातृरूपेण संस्थिता॥नमस्तस्यै ॥५६०॥यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च ।रत्न भूतानि भूतानि तानि मय्येव शोभने ॥६६१॥नमस्तस्यै ॥६६२॥क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः ।उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥६६३॥नमस्तस्यै नमो नमः ॥६६४॥त्रैलोक्ये वररत्नानि मम वश्यापन्यशेषतः ।तथैव गजरत्नं च हृत्वा देवेन्द्रवाहनम् ॥६६५॥या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता॥नमस्तस्यै ॥६६६॥मम त्रैलोक्यमखिलं मम देवा वशानुगाः ।यज्ञभागानहं सर्वानुपाश्ना मि पृथक् पृथक् ॥६६७॥नमस्तस्यै ॥६६८॥अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ।निर्जिताखिलदैत्यारिः स यदाह श्रृणुष्व तत् ॥६६९॥नमस्तस्यै नमो नमः ॥६७०॥देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वणरः ।दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥६७१॥इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥६७२॥दूत उवाच ॥६७३॥चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।नमस्तस्यै ॥६७४॥स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।सा देवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा ॥६७५॥नमस्तस्यै ॥६७६॥इति चेति च वक्तव्या सा गत्वा वचनान्मम ।यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥६७७॥नमस्तस्यै नमो नमः ॥६७८॥निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः ।प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥६७९॥स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता ।करोतु सा नः शुभहेतुरीश्वसरी शुभानि भद्राण्यभिहन्तु चापदः ॥६८०॥ऋषिरुवाच ॥६८१॥या साम्प्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते ।या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ॥६८२॥एवं दैत्येन्द्र रत्नादनि समस्तान्याहृतानि ते ।स्त्रीरत्ननमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥६८३॥ऋषिरुवाच ॥६८४॥निशुम्भस्याब्धिजाताश्चस समस्ता रत्नजातयः ।वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥६८५॥एवं स्तवादियुक्तानां देवानां तत्र पार्वती ।स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥६८६॥मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता ।पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥६८७॥साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का ।शरीरकोशतश्चा्स्याः समुद्भूताब्रवीच्छिवा ॥६८८॥छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति ।तथायं स्यन्दनवरो यः पुराऽऽसीत्प्रजापतेः ॥६८९॥स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतैः ।देवैः समेतैः समरे निशुम्भेन पराजितैः ॥६९०॥निधिरेष महापद्मः समानीतो धनेश्व्रात् ।किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् ॥६९१॥शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका ।कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥६९२॥विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे ।रत्ननभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ॥६९३॥तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।कालिकेति समाख्याता हिमाचलकृताश्रया ॥६९४॥ऐरावतः समानीतो गजरत्नंस पुरन्दरात् ।पारिजाततरुश्चा यं तथैवोच्चैःश्रवा हयः ॥६९५॥ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ॥६९६॥यानि रत्नाठनि मणयो गजाश्वानदीनि वै प्रभो ।त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥६९७॥ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा ।काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥६९८॥स्त्रीरत्नामतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा ।सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥६९९॥नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥७००ॐ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्येऽध्यायः॥ =========== मन्त्र प्रतिलोम दुर्गासप्तशतीचा पाठ केल्यानंतर अङ्गन्यास करून ध्यान पूर्वक देवी सूक्तचे पठन करावे. आणि एक माला नवार्ण मन्त्राचा जप करून रहस्यत्रय (प्राधानिक, मूर्ति, वैकृतिक रहस्यम्) चा पण पाठ करावा. N/A References : N/A Last Updated : July 28, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP