मन्त्र - ६०१ ते ६५०
मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.
ऋषिरुवाच ॥६०१॥
नमस्तस्यै ॥६०२॥
दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः ।
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥६०३॥
नमस्तस्यै नमो नमः ॥६०४॥
देव्युवाच ॥६०५॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता॥नमस्तस्यै ॥६०६॥
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ।
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥६०७॥
नमस्तस्यै ॥६०८॥
स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।
जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ॥६०९॥
नमस्तस्यै नमो नमः ॥६१०॥
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ।
वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥६११॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता॥नमस्तस्यै ॥६१२॥
ऋषिरुवाच ॥६१३ ॥
नमस्तस्यै ॥६१४॥
तत्परित्राणदः कश्चिंद्यदि वोत्तिष्ठतेऽपरः ।
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥६१५॥
नमस्तस्यै नमो नमः ॥६१६॥
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ।
तामानय बलाद् दुष्टां केशाकर्षणविह्वलाम् ॥६१७॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता॥नमस्तस्यै ॥६१८॥
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।
सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥६१९॥
नमस्तस्यै ॥६२०॥
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥६२१॥
नमस्तस्यै नमो नमः ॥६२२॥
ऋषिरुवाच ॥६२३॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता॥नमस्तस्यै ॥६२४॥
स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः ।
तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु तत् ॥६२५॥
नमस्तस्यै ॥६२६॥
एवमेतद् बली शुम्भो निशुम्भश्चायतिवीर्यवान् ।
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥६२७॥
नमस्तस्यै नमो नमः ॥६२८॥
देव्युवाच ॥६२९॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता॥नमस्तस्यै ॥६३०॥
सा त्वं गच्छ मयैवोक्ता पार्श्वंय शुम्भनिशुम्भयोः ।
केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥६३१॥
नमस्तस्यै ॥६३२॥
इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे ।
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥६३३॥
नमस्तस्यै नमो नमः ॥६३४॥
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि ।
तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका ॥६३५॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता॥नमस्तस्यै ॥६३६॥
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः ।
त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः ॥६३७॥
नमस्तस्यै ॥६३८॥
दूत उवाच ॥६३९॥
नमस्तस्यै नमो नमः ॥६४०॥
तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः ।
मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु ॥६४१॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता॥नमस्तस्यै ॥६४२॥
यो मां जयति संग्रामे यो मे दर्पं व्यपोहति ।
यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥६४३॥
नमस्तस्यै ॥६४४॥
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।
श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥६४५॥
नमस्तस्यै नमो नमः ॥६४६॥
सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित्त्वयोदितम् ।
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ॥६४७॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता॥नमस्तस्यै ॥६४८॥
देव्युवाच ॥६४९॥
नमस्तस्यै ॥६५०॥
N/A
References : N/A
Last Updated : July 28, 2026

TOP