संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मन्त्र प्रतिलोम दुर्गासप्तशती| १०१ ते १५० मन्त्र प्रतिलोम दुर्गासप्तशती पाठ पद्धती मन्त्र प्रतिलोम दुर्गासप्तशती पाठविधिः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३०० ३०१ ते ३५० ३५१ ते ४०० ४०१ ते ४५० ४५१ ते ५०० ५०१ ते ५५० ५५१ ते ६०० ६०१ ते ६५० ६५१ ते ७०० मन्त्र - १०१ ते १५० मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे. Tags : durga saptashatimantrapothiदुर्गा सप्तशतीपोथीमन्त्र मन्त्र - १०१ ते १५० Translation - भाषांतर सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् ।पशुपुष्पार्घ्यधूपैश्चं गन्धदीपैस्तथोत्तमैः ॥१०१॥मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ।ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ॥१०२॥दुर्वृत्तानामशेषाणां बलहानिकरं परम् ।रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥१०३॥कणमोक्षादृतान्मोहात्पीड्यमानानपि क्षुधा ।मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ॥१०४॥बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।संघातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥१०५॥लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि ।तथापि ममतावर्त्ते मोहगर्ते निपातिताः ॥१०६॥उपसर्गाः शमं यान्ति ग्रहपीडाश्चश दारुणाः ।दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥१०७॥महामायाप्रभावेण संसारस्थितिकारिणा ।तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ॥१०८॥शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ।ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम ॥१०९॥महामाया हरेश्चैषा तया सम्मोह्यते जगत् ।ज्ञानिनामपि चेतांसि देवी भगवती हि सा ॥११०॥रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते ।नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥१११॥बलादाकृष्य मोहाय महामाया प्रयच्छति ।तया विसृज्यते विश्वंम जगदेतच्चराचरम् ॥११२॥श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः ।पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥११३॥सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ।सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ॥११४॥सर्वाबाधा विनिर्मुक्तो धनधान्यसुतान्वितः ।मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥११५॥संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥११६॥शरत्काले महापूजा क्रियते या च वार्षिकी ।तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥११७॥राजोवाच ॥११८॥जानताऽजानता वापि बलिपूजां तथा कृताम् ।प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम् ॥११९॥भगवन् का हि सा देवी महामायेति यां भवान् ॥१२०॥बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ।सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च ॥१२१॥ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ।यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा ॥१२२॥यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम ।सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम् ॥१२३॥तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥१२४॥उपसर्गानशेषांस्तु महामारीसमुद्भवान् ।तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥१२५॥ऋषिरुवाच ॥१२६॥तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः ।श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ॥१२७॥नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥१२८॥शत्रुतो न भयं तस्य दस्युतो वा न राजतः ।न शस्त्रानलतोयौघात्कदाचित्सम्भविष्यति ॥१२९॥तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम ।देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ॥१३०॥न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः ।भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ॥१३१॥उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ।योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ॥१३२॥अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ।श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥१३३॥ आस्तीर्य शेषमभजत्कल्पान्ते् भगवान् प्रभुः ।तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ॥१३४॥मधुकैटभनाशं च महिषासुरघातनम् ।कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः ॥१३५॥विष्णुकर्णमलोद्भूतो हन्तुं ब्रह्माणमुद्यतौ ।स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ॥१३६॥एभिः स्तवैश्च् मां नित्यं स्तोष्यते यः समाहितः ।तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् ॥१३७॥दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ।तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः ॥१३८॥देव्युवाच ॥१३९॥विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ।विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥१४०॥तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम् ॥१४१॥निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥१४२॥भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः ।इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥१४३॥ब्रह्मोवाच ॥१४४॥तदाहं भ्रामरं रूपं कृत्वाऽसंख्येयषट्पदम् ।त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥१४५॥त्वं स्वाहा त्वं स्वधां त्वं हि वषट्कारःस्वरात्मिका ॥१४६॥भीमा देवीति विख्यातं तन्मे नाम भविष्यति ।यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥१४७॥सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ।अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ॥१४८॥रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् ।तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥१४९॥त्वमेव संध्या सावित्री त्वं देवि जननी परा ।त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ॥१५०॥ N/A References : N/A Last Updated : July 28, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP