मन्त्र - १५१ ते २००
मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे.
दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति ।
पुनश्चादहं यदा भीमं रूपं कृत्वा हिमाचले ॥१५१॥
त्वयैतत्पाल्यते देवि त्वमत्स्यन्तेत च सर्वदा ।
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥१५२॥
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥१५३॥
तथा संहृतिरूपान्तेा जगतोऽस्य जगन्मये ।
महाविद्या महामाया महामेधा महास्मृतिः ॥१५४॥
ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।
भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥१५५॥
महामोहा च भवती महादेवी महासुरी ।
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥१५६॥
ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् ।
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥१५७॥
कालरात्रिर्महारात्रिर्मोहरात्रिश्च् दारुणा ।
त्वं श्रीस्त्वमीश्विरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥१५८॥
भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।
मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा ॥१५९॥
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥१६०॥
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥१६१॥
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥१६२॥
भक्षयन्त्याश्चा तानुग्रान् वैप्रचित्तान्महासुरान् ।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥१६३॥
परापराणां परमा त्वमेव परमेश्वतरी ।
यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥१६४॥
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।
अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् ॥१६५॥
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ।
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥१६६॥
नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥१६७॥
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वोरः ।
विष्णुः शरीरग्रहणमहमीशान एव च ॥१६८॥
वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।
शुम्भो निशुम्भश्चैावान्यावुत्पत्स्येते महासुरौ ॥१६९॥
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥१७०॥
देव्युवाच ॥१७१॥
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥१७२॥
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वकरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥१७३॥
बोधश्चं क्रियतामस्य हन्तुतमेतौ महासुरौ ॥१७४॥
देवा ऊचुः ॥१७५॥
ऋषिरुवाच ॥१७६॥
वरदाहं सुरगणा वरं यन्मनसेच्छथ ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥१७७॥
एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥१७८॥
देव्युवाच ॥१७९॥
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ।
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥१८०॥
प्रणतानां प्रसीद त्वं देवि विश्वागर्तिहारिणि ।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥१८१॥
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ॥१८२॥
पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च् महोपसर्गान् ॥१८३॥
एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ।
मधुकैटभो दुरात्मानावतिवीर्यपराक्रमौ ॥१८४॥
विश्वेश्वरि त्वं परिपासि विश्वं॥
विश्वात्मिका धारयसीति विश्विम् ।
विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः ॥१८५॥
देवि प्रसीद परिपालय नोऽरिभीते-र्नित्यं यथासुरवधादधुनैव सद्यः ।
क्रोधरक्तेुक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ।
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ॥१८६॥
रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र ।
दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्व्म् ॥१८७॥
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥१८८॥
विद्यासु शास्त्रेषु विवेकदीपे- ष्वाद्येषु वाक्येषु च का त्वदन्या ।
ममत्वगर्तेऽतिमहान्धकारे विभ्रामयत्येतदतीव विश्वाम् ॥१८९॥
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥१९०॥
एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम् ।
रूपैरनेकैर्बहुधाऽऽत्ममूर्तिं कृत्वाम्बिके तत्प्रकरोति कान्या ॥१९१॥
श्रीभगवानुवाच ॥१९२॥
रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥१९३॥
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥१९४॥
असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥१९५॥
किमन्येन वरेणात्र एतावद्धि वृतं मम ॥१९६॥
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्योऽनः सुतानिव ॥१९७॥
ऋषिरुवाच ॥१९८॥
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥१९९॥
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ॥२००॥
N/A
References : N/A
Last Updated : July 28, 2026

TOP