संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मन्त्र प्रतिलोम दुर्गासप्तशती| ५५१ ते ६०० मन्त्र प्रतिलोम दुर्गासप्तशती पाठ पद्धती मन्त्र प्रतिलोम दुर्गासप्तशती पाठविधिः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३०० ३०१ ते ३५० ३५१ ते ४०० ४०१ ते ४५० ४५१ ते ५०० ५०१ ते ५५० ५५१ ते ६०० ६०१ ते ६५० ६५१ ते ७०० मन्त्र - ५५१ ते ६०० मन्त्र प्रतिलोम दुर्गासप्तशती पूर्ण रूपात तान्त्रोक्त आहे. Tags : durga saptashatimantrapothiदुर्गा सप्तशतीपोथीमन्त्र मन्त्र - ५५१ ते ६०० Translation - भाषांतर तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः ।मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥५५१॥या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै ॥५५२॥एकं जग्राह केशेषु ग्रीवायामथ चापरम् ।पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् ॥५५३॥नमस्तस्यै ॥५५४॥तथैव योधं तुरगै रथं सारथिना सह ।निक्षिप्य वक्त्रे दशनैश्चनर्वयन्त्यतिभैरवम् ॥५५५॥नमस्तस्यै नमो नमः ॥५५६॥पार्ष्णिग्राहाङ्कुशग्राहियोधघण्टासमन्वितान् ।समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥५५७॥या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै ॥५५८॥सा वेगेनाभिपतिता घातयन्ती महासुरान् ।सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ॥५५९॥नमस्तस्यै ॥५६०॥अतिविस्तारवदना जिह्वाललनभीषणा ।निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥५६१॥नमस्तस्यै नमो नमः ॥५६२॥विचित्रखट्वाङ्गधरा नरमालाविभूषणा ।द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥५६३॥या देवी सर्वभूतेषु निद्रारूपेण संस्थिता । नमस्तस्यै ॥५६४॥भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।काली करालवदना विनिष्क्रान्तासिपाशिनी ॥५६५॥नमस्तस्यै ॥५६६॥ततः कोपं चकारोच्चैरम्बिका तानरीन् प्रति ।कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥५६७॥नमस्तस्यै नमो नमः ॥५६८॥ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः ।आकृष्टचापासिधरास्तथान्ये तत्समीपगाः ॥५६९॥या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।नमस्तस्यै ॥५७०॥ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ॥५७१॥नमस्तस्यै ॥५७२॥आज्ञप्तास्ते ततो दैत्याश्चाण्डमुण्डपुरोगमाः ।चतुरङ्गाबलोपेता ययुरभ्युद्यतायुधाः ॥५७३॥नमस्तस्यै नमो नमः ॥५७४॥ऋषिरुवाच ॥५७५॥या देवी सर्वभूतेषुच्छायारूपेण संस्थिता॥ नमस्तस्यै ॥५७६॥तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥५७७॥नमस्तस्यै ॥५७८॥केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ।तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ॥५७९॥नमस्तस्यै नमो नमः ॥५८०॥हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ।तत्र गच्छत गत्वा च सा समानीयतां लघु ॥५८१॥या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता॥नमस्तस्यै ॥५८२॥चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ।आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥५८३॥नमस्तस्यै ॥५८४॥श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ॥५८५॥नमस्तस्यै नमो नमः ॥५८६॥क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना ।तेन केसरिणा देव्या वाहनेनातिकोपिना ॥५८७॥या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता॥नमस्तस्यै ॥५८८॥विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे ।पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ॥५८९॥नमस्तस्यै ॥५९०॥केषांचित्पाटयामास नखैः कोष्ठानि केसरी ।तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ॥५९१॥नमस्तस्यै नमो नमः ॥५९२॥कांश्चिरत् करप्रहारेण दैत्यानास्येन चापरान् ।आक्रम्य चाधरेणान्यान् स जघान महासुरान् ॥५९३॥या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता॥नमस्तस्यै ॥५९४॥ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ।पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ॥५९५॥नमस्तस्यै ॥५९६॥अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ।ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वाधैः ॥५९७॥नमस्तस्यै नमो नमः ॥५९८॥इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ।हुंकारेणैव तं भस्म सा चकाराम्बिका ततः ॥५९९॥या देवी सर्वभूतेषु जातिरूपेण संस्थिता॥नमस्तस्यै ॥६००॥ N/A References : N/A Last Updated : July 28, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP